________________
विज्ञप्तिमहालेख क्षणा विपुलश्रवणा वर्णनीयकपोला पृथुकागलाभिरामा परमाधरा अमलकरा गम्भीरस्तनघटा मोहभावहृदया सरलकायनाभिरम्या सुगमक्रमा बहुलालङ्कारालङ्कृता प्रगुणगुणगणचणा दूरीभूतदूषणा प्रियच्छन्दोऽनुवर्तिनी अर्हणीयरीतिः" आकल्पकीर्तनीया नित्यमुदारा च । किं बहुना
भवति गगनमेतत्तारताराभरोचिय॑दि गगनरुचः स्युस्तारकाः सर्व एते । हिमकरविशदायाः कृष्णवर्णाङ्कितायाः, फलति खलु तदाऽस्यास्तुल्यरूपोपमानम् ॥ ४०॥ मकरपवनहेलोलालनाऽभावहेतोः स्तिमितजलतरङ्गं सर्वदा लक्ष्मिचङ्गम् । विकचकुवलयालीमण्डितं चेत् सरः स्यात् , फलति खलु तदाऽस्यास्तुल्यरूपोपमानम् ॥ ४१॥ विहितसुकृतराशेः कस्यचिद्भूमिभर्तु-भवति भवनभित्तिनिर्मिता चन्द्रकान्तैः।। यदि नवयुवतीनां लोचनैवीक्ष्यमाणा, फलति खलु तदाऽस्यास्तुल्यरूपोपमानम् ॥ ४२॥ क्वचिदपि यदि भूमी रोहणो:धरस्य, स्फटिकमणिमयी स्यात् तत्र काली क्रमेण ।
प्रसरति यदि सद्वैडूर्यरत्नाकुराली, फलति खलु तदाऽस्यास्तुल्यरूपोपमानम् ॥ ४३ ॥ एवंविधस्निग्धबुद्धिधोरणीसमुत्पाद्योत्पाद्योपमाद्यनेकालङ्कारावलीप्रसाधितवचनरचनारमणीया, सुगन्धिगन्धवाहप्रवाहप्रेङ्खोलनदिगन्तराकृष्टचञ्चलचञ्चरीककुटुम्बिनीव नवकेतककुसुमम् , समस्तजनतानेत्रकुवलयोल्लासनपटुप्रतिपन्निशारत्नलेखेव पूर्वदिक्कामिनीवदनम- 15 ण्डलम्, बलक्षकटाक्षविक्षेपक्षोभितगीर्वाणवाणिनीव कामुककविहृदयस्थलम्, प्रभातप्रस्तावे महत्तमतमोमण्डलविदलनपेशलसहस्ररश्मिरश्मिराजिरिव विकसत्पथेरुहकुहरम्, वाङ्मयसन्ततिरिव सद्ध्यानधोरणीसमाराधितश्रीसरस्वतीवितीर्णप्रवरवरकवीश्वरवदनकन्दरम् , खेच्छापरिभ्रान्तमहावनगहनारण्यतडागतरङ्गवतीजलस्थलबहलमार्गपरिश्रमखिन्नसिंहीव पिच्छलच्छायाश्रयणीयतमहिमगिरिगह्वरम्, सायंसमयकुशेशयनिचयप्रस्थितलक्ष्मीरिव सु- 20 धाकरमध्यम् ; श्रीखरतरगच्छातुच्छस्वच्छसुधाधवलप्रांशुप्रासादावष्टम्भमहास्तम्भायमानैः, अनवरतवितेतीर्यमाणाप्रमाणसप्रमाणविनमद्विनेयजनमहाविद्याधनदानैः, निरन्तरदेधीय्यमानापमानितसुधारसपानश्रीसूरिमन्त्रपवित्रप्यानध्यानैः, प्रत्यक्षोपलभ्यमानप्रधानगुणसहौः श्रीमदाराध्यमित्रैः प्रजेघीयिता, नभसि मासि लिखिता, सुवर्णघटिता, श्रीनामधेया
. १ विपुलौ श्रवणौ = कौँ यस्याः स्त्रियः, पक्ष-विपुलं प्रलम्बश्रवणं = आकर्णनं यस्याः सा। २ वर्णनीयौ कपोलौ यस्या वशायाः, अन्यपक्षे-वर्णनीयस्य कस्य = ज्ञानादेः पोलो = महत्त्वं यस्यां सा तथा, 'पुल महत्त्वे' धातुः। ३ विज्ञप्तिपक्षे- पृथुना कागलेनाभिरामा तदक्षरसंस्कारः, स्त्रीपक्षे - पृथुका = विस्तीर्णा समचतुरस्रा, तथा गलेन - कण्ठेनाभिरामा च। ४ परमावधरावोष्ठौ यस्याः सा, तथाऽन्यपक्षे-परां मां श्रियं धरतीति । ५ अमलौ= निर्मलौ करौ यस्याः सा, अन्यत्र-अमलं कं सुखं करोतीति । ६ गम्भीरौ स्तनघटौ यस्याः, अन्यत्र-गम्भीराणां स्तनानां = शब्दानां घटा यस्यां सा। ७ स्त्रीपक्षे-मोहभावो हृदये यस्याः सा, अन्यत्र-मोहभावहद् अयो = लाभो यस्याः सा । ८ सरलेन कायनेन = लेखबन्धनगुणविशेषेण अभिरम्या, पक्षे-सरलकायेन = देहेन नाभिना चाभिरम्या। ९ सुगमः क्रमः= परिपाटी यस्याः सा, स्त्रीपक्षे-सुगमा= शोभनगमनौ क्रमौ= पादौ यस्याः सा । १० प्रियस्य भर्तश्छन्दोऽनुवर्तनशीला। ११ रीतयः-पाञ्चालीप्रभृतयः। १२ आकल्पं कीर्तनीया, स्वीपक्षे-आकल्पेन वेषेण कीर्तनीया। १३ नित्यमुदारातीति नित्यमुदारा स्वीः । १४ फलति-निष्पद्यते, 'फल निष्पत्तौ'। १५ निश्चल । १६ कृष्णा। १७ पवन । १८ शोभनवणे:= अक्षरैर्घटिता, मुद्रा च सुवर्णेन काञ्चनेन घटिता।
वि. म.ले०२
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org