SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तिलेखसंग्रह क्रियोपक्रमोत्कृष्टां स्पृहणीयप्रणयनिर्यासामृष्टां तात्त्विकपुण्यरागनवमञ्जिष्टाम् , व्यञ्जितमाननीयजनानुवृत्तिं सौजन्यभावभव्यरूपकचित्रसमुचितभित्ति अप्रतिपातिविच्छित्तिं श्रीप्रतिपत्तिं पुरःसरी, निर्मेमीय्य, वावद्यन्तेतराम् ॥ ॥ ॥ [अथ कार्यनिर्देशसूचनम् -] । ६७. ज्यायसां श्रेयसां श्रेणय इह श्रीदेवगुरुगुरुचरणसुरभूरुहप्ररोहिमहाप्रासादात्, प्रभूतसंभूतवासरराशिमारभ्य हृदयान्तर्धार्य वाचिकशतैरप्यहार्यं सभासदां समक्षं विस्तार्य कार्य चैतत् समाशेभायीत् ॥ ॥ [अथागतविज्ञप्तिवर्णनाप्रकाराः-] ६८. धवलजादराम्बरसंव्यानपटीव प्रणतजनसारदायाः श्रीशारदायाः, प्रतिकलं विलास10 शय्येव समस्तजगतीगतवस्तुगुणविमलायाः श्रीकमलायाः, विशुद्धसुधापङ्कधवलितविशा लरङ्गशालाङ्गणभूमिरिव प्रेङ्घत्तनुमनोज्ञावयव विन्यासमोल्लासितप्रेक्षकेक्षणश्रेणिकायाः सल्लिपिनर्तक्याः, क्रीडापताकिकेव गुणिजनमनोमोहकर्याः सौभाग्यश्रीसुन्दर्याः, पृथुलविशदप्रासादवलभिरिव निखिलकलाकुशलकविकुलमनोरथपत्ररथमालाखेलानाम्, कमलाकरबह लजलावरणविस्तारमालिकमलिनीविपुलदलपालिरिव अखिलपौरनरनारीनयनचञ्चलचश्चरीक15 निकरपरिहासरसानाम्, निस्वासस्फाटिकाचलनिर्मलशिलामयासनचतुष्किकेव सकलावि. कलसहृदयहृदयकुहरवासिन्याः श्रीविद्याविलासिन्याः, श्यामलसुवर्णमृगमदपङ्कपत्रवल्लरीविभूषिता पेशलकपोलपालीव लेखकमुमुक्षुप्रगल्भप्रतिभाभामिन्याः, श्रीतिलकमञ्जरीकथेव रुचिराक्षरपरम्परान्यासविचित्रसमासनिरन्तरोद्दण्डाखण्डडण्डकहृद्यानवद्यगद्यबन्धा, दमयन्तीचम्पूकथापद्धतिरिव विषमावताराष्टप्रकारनवनवोल्लेखव्यक्तश्लेषविशेषवन्दनीयम20 धुरसमधुरगद्यपद्यादिरचनाचातुरीरुचिरा, कालिन्दीनदीव मलिनाम्बुकल्लोलतरङ्गिता सुभानुतनया च, प्रतापिपृथिवीप्रभुप्रभूतपताकिनीव लब्धवर्णवर्णनीयबहुलरणप्रयोगा प्रेङ्खत्पदविन्यासवाहां च, कुमुदवान्धवकौमुदीव समानन्दितसच्चकोरा गलितकलङ्का च, निजागण्यपुण्यलावण्यलहरीसमाच्छोटितविदग्धस्निग्धमानससरोजरममाणमनोज्ञमनोरथविलोलरोलम्बमाला यौवनमदमेदुराङ्गरुचिदंगलोचनेव, सकलकलादक्षणविचक्षणलक्षेक्षणक्षीरो25 दधिसमुद्धर्षणक्षणदक्षणदाहरिणलक्षणसलक्षणलक्षणशास्त्राक्षीणशेमुषीककोविदशिरकोटीरहीरेण, अनाहतप्रतिभहितसुविहितसाहित्यसन्ततिलताविततिवेल्लत्कवित्वपल्लवगुम्फाभिरामदामशृङ्गारिताकुण्ठकण्ठकन्दलेन, प्रगल्भसभाप्रभावितप्रमाणाप्रमाणवितर्ककर्कशाऽकृशप्रमाण ग्रन्थग्रथितप्रज्ञाप्रारभारेण, विश्ववल्लभसौभाग्यसुभगभावुकब्राह्मीस्निग्धेन पण्डितवररत्नसमुद्रमुनिना विरश्चिनेव सरीसृजिता सुललितवचनवृत्तमुखश्रीका सैलावण्ये . अथाऽऽगतविज्ञप्तिवर्णनप्रकाराः। २ उत्तरीय। ३ सारं ददाति । ४ पक्षि। ५ क्रीडानाम् । ६ मलिनाम्बु मषी मसी। सुकान्तिः, नुतनया = स्तुतनया। ८रकार-लकार-णकार। ९ वाहा:= तुरङ्गाः, विज्ञप्तिपक्षे-पंखस्पदविन्यासानां वाहो यस्याम् । १० सरस्वती। ११ अथ मृगलोचनाया विज्ञप्तेश्च श्लेषेन साम्यविशेषणानि । नायिकापक्षे-सुललितवचनावृत्तमुखश्रीर्यस्याः सा; सुललितवचनैर्वृत्तैर्मुखे श्रीर्यस्या विज्ञप्तः। १२ सलावण्ये ईक्षणे = नेने यस्याः, सलावण्यम् ईक्षणं यस्याः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy