SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तिमहालेख सच्चक्रे विधुरेति जातकरुणं पक्षोदये श्रीचणं, पूर्वे दुःखिनि निर्दयेन कनता पक्षावसानेऽधिकम् । येषामाननमिन्दुना तुलयतामेषां कवीनाममी, दोषज्ञा वितरन्ति हन्त ! निपतद्धीनोपमानोद्भवम् ॥ २६॥ एणं केचन वर्णयन्ति विबुधाः शंसन्ति चैके शशं, केऽपि प्रोषितवल्लभावधभवं पङ्कं कवन्ते विधौ । मन्येऽहं तु न तानि किन्तु यदसौ चक्रे यदास्यश्रिया, संस्पर्द्धा च तया जितस्तदयशो मूर्त निदेधीयते ॥२७॥ जाने चिह्नमिषादवेक्ष्य विवरादस्माद् विधोमण्डलाद, धाता यद्वदनं विधातुमखिलं जग्राह सारं खलु। येनाद्यापि तया रुषाऽस्य सदनं क्लिश्नाति पादैः सदा, नित्यं चैष तदाप्तये' सुरगिरिं सारास्पदं सेवते ॥२८॥ एते केऽप्यवतेरुरत्र भुवने नव्याः समुद्रा अहो!, येभ्यो हन्त सरस्वतीयमतुला रङ्गद्रसोयुज्ज्वला । निःसृत्योचतरे क्षमाधरभरे चक्रिः समारोहणं, सद्यस्तं च भिदेलिमं प्रकुरुते दुर्भेदमप्यन्तरा ॥ २९ ॥ भास्वद्भाग्यरमाः प्रमाणरहिता येषां पुनर्नो गिरः, कीर्तिर्येषु निरर्गला नहि पुनश्चित्तस्थितिस्तादृशी । यत्पादद्वितयी सदा गुरुमहादेशाक्रमे विक्रम, धत्ते नो रसना" तथा परमहो ! येषामपूर्वा स्थितिः ॥ ३०॥ 10 तापं चन्दनयूष एष हरते सोऽयं न माधुर्यभाग् , मिष्टश्चक्षुरसो भवेत् परमसौ वैरस्यमेति क्षणात् । पीयूषस्य न दध्महे श्रुतिपथख्यातस्य वाञ्छामपि, बूंथानेकगुणं यदीयवचनं केनोपमेयं ददे ॥ ३१ ॥ वारुण्या दिश उत्थितैर्घनपथं चक्रम्यमाणैः क्रमात् , प्रौढोद्दयोतभरैरपि प्रणयिनां नेत्रैः सुखालोकितैः । कुर्वाणैः कुमुदालिकेलिकमलां संजातनित्योदयै,-यैर्वा"ऽपूर्वदिनेश्वरैः प्रथमिका पादैः ककुब् भूष्यते ॥ ३२ ॥ तान्-श्रीसूरिपदपदवीकादम्बकुटुम्बिनीक्रीडातडागावतारशरीरान्, जननयनमेदुरा- 15 मन्दमहानन्दकन्दकन्दलनालङ्कर्मीणाक्षीणागण्यपुण्यलावण्यरसराशिरीरान् , अजीर्णाज्ञानमदप्रवाहगहरितदुर्वारप्रचारवादिवृन्दोद्दामस्तम्बेरमनिरर्गलसकलजीवमानसोत्पिञ्जलभावोद्भाविगम्भीरगर्जनसन्तर्जनप्रबलकैरीरान्, अविरतविततचित्तकुहरवितन्तन्यमानप्यानध्यानसन्धान विधानाध्यामधामधामैज्वलज्वालाकुलज्वलनज्वालितमनोऽरण्यवासिकषायवृक्षकोटरान्, अहर्निशपेपीय्यमानविविधजिनवचनरचनाविशुद्धसुधारसधारोगारनिरस्तवि- 20 षमपरिणामगरलाकुलितजगत्रयजनचयदर्जयमहारागोरगलहरीभरान्, आजन्मजातविष्टपत्रयविख्यातदुर्निरोधपरस्परविरोधबाधाविबाधितसहवासिकमलासनाक्रोशनिदेशादिव मुतकलहं श्रीश्रीशारदानिवाससदनीकृतवदनमण्डलान् , विश्वविस्मयविधायिभाग्येन्दिरासुन्दरीतैलमीकृतनेमसुधाकराकारविपुल भालस्थलान् , सिद्धिमधुकरीकेलिकमलायितकरतलान् , अनवद्यविद्यामकरन्दाखादलिप्सावशीभूतविनेयजनमधुकरनिकरकोलाहलविलीनप्रमीलल-25 क्ष्मीकचलननलिनदलान् , स्पृहणीयसौभाग्यकलान्, कमलदलमृदुलधवलपृथुलप्रच्छदपटानिव सर्वगुंणमयमूर्तीन्, समस्तमुनिमौलिमालावलीवन्द्यमानपदद्वयमहाव्रतिन इव मथितमन्मथमहास्फूर्तीन, सकलविटपिकोटीरसुरतरूनिव पदतललुलितसुललितविनयकलितान्त पर्वतसमूहे, अथ च मुनिनिकर। ३ विधुः। ४ अस्य = धातुः, स ३. गुरुपु महादेशेषु आक्रमण दीप्यमानेन । २ 'उड कुड खुड् गुड घुइ दुइ शब्दे' धातुः। ३ विधुः। ४ अस्य = धातुः, सदनं = गृहं कमलरूपम् । ५ सारप्राप्तये । ६ सम्बोधने । ७ पर्वतसमूहे, अथ च मुनि निकरे। ८ इयत्तया रहिता। ९ गिरो न प्रमाणतर्करहिताः । १० गुरुषु महादेशेषु आक्रमणं = विहारस्तत्र । ११ रसना=जिह्वा तत्पक्षे गुरूणां यो महादेशो-महीयसी आज्ञा तदाक्रमणे लङ्घने इत्यादि । १२ शास्त्रमागेष्वेव विश्रुतस्य; अथवा कर्णेष्वेव श्रूयते न प्रत्यक्षं केनापि दृश्यते। १३ कथयत भो पण्डिताः! यूयम् । १४ पश्चिमाया अन्यः, सूर्यो हि पूर्वदिश उत्तिष्ठति अत एव चित्रम् । १५ वा-इवार्थे, यैरपूर्व दिनेश्वरैरिव । १६ राजहंसी । १७ कुम्भान् । १८ आकुलता । १९ सिंहान् । २० निरन्तरम् । २१ अविध्यातदीप्तिगृह । २२ तलमं%शय्या। २३ अर्द्धचन्द्रावतार । २४ गुणा औदार्यादयः; पक्षे- तन्तवः। २५ ईश्वरानिव । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy