________________
5
10
28
25
विज्ञप्तिलेखसंग्रह
वासिविबुधधोरणीयायाच्यमान परमर सकल विशालफलपोपुष्यमाणपूर्त्तीन, सुस्निग्धाञ्जनघनद्युतिकलधूतकषपट्टानिव दर्शितवर्णनीय सुवर्णवर्णोत्कर्षान्, वार्षिकर्बलाहकानिव लोलूयितविनीतचातकोत्कर भूरितर्षान् सदुपदेशराशिसितारससारणीपानप्रदानसम्पादितभवदवभवसन्तापविधुरजीवलोकहर्षान्, निजदर्शनेन्दुद्युतिनिर्मित सज्जननयनेन्दुकान्तामृतवर्षान्, सुजात्यसमदद्विर दर दविशदशारद्जलद सितेन्दीवरकुमुदकुन्ददलकदली स्तम्भच्छेदविमलविशालस्फाटिकशिलावास सप्रकाशकैलाशवसन्तमासजातोल्लासकुसमहा सकाश विकाशख टिकाखण्ड डिण्डीर पिण्डपाण्डुरपुण्डरीकमण्डलबहल क्षीरोदधिलहरि मालोज्कालप्रलग्रनीरहीर शरीर विस्तार भूतिवारसारघनसारतुषार धरतुषारकर कर निकरतारतारमुक्ताहारगौरयशः पूरपरिपूरित निरन्तर कुक्षीकृतजगज्जन ब्रह्माण्डभाण्डोदरान्; किंबहुना -
अपि समधिगतश्रुताधिदेवी वरकविकुण्ठितशेमुषीविलास, त्रिभुवनजनताश्रवोऽवतंसीकृतगुण सुन्दरपल्लवावलीकान् ॥ ३३ ॥ अपि चरैंविकिरणमितानि तुष्टवाचां, यदि वदनानि भवन्ति कोविदानाम् । तदपि न 'संहिताम्बुराशिपाथः, -कणगणनाधिकसद्गुणप्रशंसान् ॥ ३४ ॥ आनन्दकन्दलविलासनचैत्रमासान्, श्रीसूरिमत्रकमलाकलकेलिवासान् । श्रीपूँर्वलोकहितसूरितभीविहारान्, श्रीपूर्वलोकहितसूरिवरान् सुसारान् ॥ ३५ ॥ उद्दामकामरसरङ्गतरङ्गभङ्गी, भङ्गापिंजैनवचनाचलचूलसङ्गी । शुद्धक्रियाप्रकरसाधनधातुरम्यः, पुण्यप्रधानगणिरेष मदैरगम्यः ॥ ३६ ॥ प्रातिभप्रवर दर्पणबिम्ब, प्रेक्षितार्थनिचयप्रतिबिम्बः । मेरुवन्मथितशास्त्रसमुद्रः, शोभतेऽत्र गणिरत्नसमुद्रः ॥ ३७ ॥ सौहृदय्यरसचङ्गतरङ्गै,-र्न्यस्य मानसमपूरि सदैव । सैष नित्यसुभगास्य सरोजो, राजमेरुमुनिरत्र विभाति ॥ ३८ ॥ क्षीरनीरधवला अपि चित्तं, रञ्जयन्ति बत यस्य गुणौघाः । अस्तिवाङ्मयसुधारसकुम्भः, स्वर्णमेरुमुनिरेषविदम्भः ॥ ३९ ॥
इत्येवमादिभिः– विशिष्टशिष्टसमाचीर्णजीर्णचारुचारित्र पवित्रगात्रैः साधुसाधुप्रगुणगुणमणिगणपात्रैः, महाजडिमजडराशिपरतारसमङ्गीकाराय समाश्रितगुरुचरणसधरयानपात्रैः, संसारचारकसञ्चारप्रकारका र कातिचारवारशंष्पसंभारलूनि सारदाः, वाहीकान्तरशुद्धिविधान साधीयः पुण्यनिमित्तर चिततीर्थयात्रैः, ऐहिकामुष्मिकप्रथीयोऽर्थसार्थविवेचनसमर्थ बन्धुरबुद्धिमात्रैः, श्रीभागवतप्रणीतशुभमयसमयसारसम्भारसङ्ग्रहनिर्विग्रहाध्ययन'विधानप्रधानच्छात्रैः, सौवसुवर्णक्षमाप्रमोदित विबुधमण्डलांश्चामीकराचलानिव अतुच्छ -
30
६
१ मेघानिव । २ शर्करारसकुल्या । ३ रविकिरणमितानि = सहस्रसङ्ख्यानि । ४ तुष्टा वाक् = सरस्वती येषाम् । ५ मिलिता | ६ पूर्वलोकानां हितं सूते स तथा रिता = गता भीर्यस्मात् एवंप्रकारो विहारो येषाम् । ७ 'तदपि न विश्वसिमो वयं विधातुः, विधिविलसितं रसातलं यातु' ८ ' दिक्शब्दात्तीरस्य तारः' इति तारादेशः । ९ नवतृणविशेषः । १० बहिर्भवा बाहीका 'बहिषष्टीकण् च' । ११ भगवतां समूहो वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org