SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तिलेखसंग्रह अपि च 10 श्रीसूर्य वाम कमलोदयको रिपादा, दोषान्धकारहरणा विहितप्रसादाः । पुण्यार्थिर्भिर्मुनिजनैरभिनन्द्यमाना, यस्यां दिवीव पथमाशु पवित्रयन्ति ॥ २४ ॥ तस्याम्-अपारसंसारपारावारतारणतरण्डावतारश्रीमदार्हतागमपरम्परायामिव महानैगमव्यवहार मनोहरायाम्, बौद्धदर्शनानुरक्तजनतायामिव सुंगतचरणन्यासप्रलोभितमानवचँपलेक्षणायाम्, अक्षपादप्रवाद भक्तप्रजायामिव शिवमार्गानुध्यानतत्परायाम्, कपिलमतस्थापनायामिव सकलकर्म्मसाधनालङ्कर्म्मणप्रकृतिप्रधानायाम्, जैमिनीय समय सावधानजनपरिपाट्यामिव बहुवेदनया मुक्तमानवायाम्, सरोवरासन्नसरसरसायामिव सारसहितायाम्, समस्त महीरुह सारसहकारलतायामिव पुंस्कोकिलसेवितायाम्, महीधर विपुल मेखलायाna नानारामाभिरामायाम्, विन्ध्याटव्यामिव कान्तारसाकुलपुरुषायाम्, चिन्तातुरमनुजमानसवृत्ताविव बहुलोहकारप्रकारायाम्, अलकायामिव धनदविराजमानायाम्, त्रिपथगापगायामिव सुरेवशालिजनावगाह्यमान संपद्मरसभङ्गायामपि धनवाहनाश्रितायामपि वनमालिपदशोभितायामपि शिवाविरोधिन्यामपि विप्रकृतजलप्रवेशायामपि सच्छायँहिमा - लयजातायामपि तारणतीर्थसमन्वितायामपि भुवनत्रयविसारिकीर्त्तिनिर्मलप्रवाहायामपि " न नीरसहितायाम्, रेवातरङ्गवत्यामिव नानागजातिरुचिरपरिसरायामपि न कदापि दीनरसात्तगन्धायाम्, बहुलवनमालायामिव हॅरिविनिर्मितायामपि न कन्दलाकुलायाम्, प्रसृमरघनपवनान्दोलितोपान्तवर्त्तिवनतरुलतावितानसमुड्डीन विलोल रोलम्ब निकुरम्बवदनकन्दरविसृत्वरकलकोलाहलव्याजेन वनदेवताभिरपि जेगीय्य मानवसुन्धरावलयालङ्कारसमग्राग्रिमग्रामग्रामनिगमसुन्दरेन्दि रास्पर्द्धिवर्द्धमानशोभासं भारसमर्जितरजनीजानिमण्डलोज्वलकीर्त्तिकलापायाम्, गगनाङ्गणाग्रलग्नविसारिशाखा विसरशिखरिशिखरोन्मिषत्कुसुमस्तबकमिषेण समानश्रिया विमानश्रिया सहितां पुरन्दरपुरीमुन्नमय्य मुखं हसन्त्यामिव बहुवि धकलाकुलसङ्कलनराकाविभावर्यां महेश्वरमानसाह्लादनगौर्याम्, सौववासप्रकाशविडम्बि - तकस्तूर्याम्, आसमुद्ररत्नगर्भाधिष्ठातृसुर्या श्री अयोध्या पुर्याम् ॥ 5 ॥ * 5 20 ४ [ अयोध्यापुरीस्थितसूरिवराणां तदन्तेवासिमुनिगणानां च वर्णनम् - ] 2. ६५. " नित्यं वृत्तगुणप्रकाशनकृता नक्तंदिवा श्रीभृता, मैत्रालोकनजातसंमदवता येषां मुखेन ध्रुवम् । एष श्वेतरुचिर्विनिर्जित इति स्फारांशुजालच्छला, लात्वाऽऽस्येन तृणालिमेत्य कुरुते शून्ये दिनातिक्रमम् ॥१५॥ ७ १ सूरीणां पादाः; पक्षे - सूर्यपादाः । २ कर्त्तारः । ३ पक्षे-मुनयो वालिखेल्याः । ४ नैगमो = नयविशेषः; पक्षे-नैगमा = वणिजस्तेषां व्यवहारस्तेन । ५ सुगतो = देव विशेषः, पक्षे – सुगतं शोभनगमनम् । ६ चपलेक्षणा नार्यः; पक्षे- चपलानि ईक्षणानि । • नैयायिकलोक । ८ साङ्ख्य मतस्थापना । ९ सारसानां हिता, सारेण सहिता वा । १० आराम, रामाः = स्त्रियः । ११ शोभनो रवः सुरवस्तेन शालिनो जना इत्यादि; पक्षे-सुराणां वशालि जन स्वीपरम्परा लोक इत्यादि । १२ सह पद्मया वर्त्तन्ते एवंविधा ये रसाः शृङ्गारादयः; सकमलं रसः = पानीयम्, इत्यादि । १३ पक्षे - इन्द्रः । १४ वनमाली = नारायणस्तस्य पदस्तत्र शोभि० : वनानि मालन्ते एवंविधानि पदानि = स्थानानि तैः शोभि० । १५ गौरी । १६ विप्रकृतो = निराकृतो जडप्रवेशो यस्यां नगर्यो गङ्गापक्षे - विप्रैः = ब्राह्मणैः कृतो जले = पानीये प्रवेशो यस्याम् । १७ हिमाः = शीतलाः आलया = गृहाणि । १८ नानाऽगानां = वृक्षाणां जातयस्ताभिः; रेवापक्षे - गजैरतिरुचिरः परिसरो यस्याः । १९ पक्षे - मदजलं । २० हरयो = वानराः, वयः = पक्षिणः; पक्षेहरिरिन्द्रः । २१ अथ श्रीआचार्यमिश्राणां मुनीनां च वर्णना । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy