________________
विज्ञप्तिमहालेख
बलप्रबलपुण्यागण्यपुण्यवितन्तन्यमानाभङ्गभोगभङ्गीसुभगभावुकभूचरनिकरमधुरलावण्यभरभङ्गुरशरीरावयवरूपखरूपनिरूपणविस्मारितपुरन्दरपुरात् श्री अण हि ल्ल पुर वरात्॥७॥
[पत्रपेषकसूरेस्तदीयशिष्यमण्डलस्य च नामाभिधानपूर्वकं पर्युपास्तयः-] ६३. श्रीजिनोदयसूरयः-पं० तेजःकीर्त्तिगणि-पं० हर्षचन्द्रगणि-भद्रशीलमुनि-पण्डितज्ञानकलशमुनि-धर्मचन्द्रमुनि-मेरुनन्दनमुनि-मुनितिलकमुनि-ज्ञाननन्दनमुनि-सागरचन्द्रमुनिप्रमुखैरदोषाकरैरपि दोषाकरमुखैः, प्रकाशग्रहपुरैरपि न प्रकाशग्रहपुरैः, अकलाकेलिसुखैरपि कलाकेलिसुखैः, सद्वेषयुरैरपि अद्वेषयुषैः, स्निग्धदुग्धोदधिधवलविलोललहरीप्रवाहचलाचलबलक्षपक्षयामलजामलखच्छातुच्छच्छायारञ्छोलिसमाच्छादितसन्मानसैः श्रीराजमरालैरिव, अनवरतपापठ्यमानसुललितवर्णावलिग्रन्थसार्थमधुरध्वनिसुधावतारतारझङ्काररवप्रीणिताशेषभविकसारङ्गै हैरिव, अमन्दज्ञानमकरन्दसन्दोहबिन्दुलोलुपैर्मुनिवरनि- 10 करैर्वरिवस्यमानकोमलाङ्गुलिदलावलिपेशलमञ्जलचलननलिनयुगलप्रवलकलिमलक्षालनजलोपमपर्युपास्तयः ॥ ॥
[अथ पत्रप्रेषणीयस्थानभूत-अयोध्यापुरीवर्णनम् - ] ६४. क्षेत्रार्द्धनाभिमभिसंस्थितिमादधाना, पुण्यात्मभिः प्रतिदिनं परिचिन्त्यमाना ।
उद्दयोतरूपरमयाऽप्रतिभासमाना, या वर्ण्यतेऽत्र भुवि कुण्डलिनीसमाना ॥ १७ ॥ खण्डेन्दुसुन्दरललाटतटेन पुण्य, कृत्यावृतेन जगतः स्थितिकारकेण । कैलाशभूमिरिव पूर्वमुमान्वितेन, याऽलङ्कृता भगवता वृषभध्वजेन ॥१८॥ उल्लासिकान्तिगुणगुम्फितवैबुधाली,-लोलन्मनःसुरमणीरमणीयमध्या । सन्तानतानसुखमास्पृहणीयवासा, या शाड्वला शुभति मन्दरकन्दरेव ॥ १९॥ उत्केतकप्रियतमाणि "सचित्रकाणि, छायाविभाजनकरअकवालकानि । उत्कम्पपक्ष्मलतनुप्रैवयोऽङ्कितानि, राजन्ति यत्र भवनानि वनोपमानि ॥ २० ॥ आलिङ्गितानि लहरीभ्य इवाप्तकण्ठं, दृष्टिभ्रमान्मकरकम्पितनीरपूरात् । हंसोचयान्मधुरभाषितसद्गताऽन्य, भ्यस्यन्ति यत्र सरयूसरितस्तरुण्यः ॥ २१ ॥ पत्रोपकण्ठसरयूतटपट्टकेषु, मुक्तालिचूर्णतनुवालुकयाऽङ्कितेषु । मन्द्रं ध्वनन्त इव सुक्रमकैर्लिखन्तो, "लेखाः पठन्ति सुँगमं किल हंसबालाः ॥ २२॥
किंबहुनाविद्याविनोदचतुरं चतुरम्बुराशि,-प्रोल्लासि कीर्तिमधुरं मधुरञ्जि वाचम् ।
यस्यामुदारचरितं चरितं गुणेषु, कृत्वा जनं विधिकरोऽधिकरोचिराप ॥ २३ ॥
प्रकाशेन सूर्यैः । २ प्रकटकदाग्रहग्रहः । ३ कामकेलि। ४ प्रधानवेषैः। ५ अथ श्रीअयोध्यापुरीवर्णनम्। ६ पुण्यकृत्येनावृतः-पुण्या चासौ कृत्तिश्चर्म तदावृतेन। ७ पक्षे- कारकेण = विनाशकेन 'कृ मृ शृस् हिंसायाम्'। ८ उमा गौरीकान्तिकीर्तिप्रमुखाश्च । ९ वृषभध्वजेन = ऋषभेण ईश्वरेण वा । १० विस्तार । ११ उद्गताः केतकाः तैः; पक्षे-उत्का= उत्सुका अत एव इतका= आगताः प्रियतमाः= प्रिया यन्त्र । १२ चित्रसहितानि; पक्षे चित्राः= श्वापदविशेषाः । १३ छाया शोभा, विभा= कान्तिः, ताभ्यां जनकानां=पितॄणां रअका बालका यत्र; पक्षे-छायाविभाजनानि, करञ्जका वृक्षविशेषाः, बालकानि=हीबेरा यत्र । १४ प्रवयसोवृद्धाः, प्रकृष्टाः पक्षिणश्च तैः । १५ ज्ञानार्थो वा। १६ चूर्णवत् तनु सूक्ष्मा इत्यर्थः। १७ रेखाः। १८ सुष्ट ममनम्। १९ गुणेषु चरितं-प्रसिद्धम् , अथ-'च' इति पृथक् गुणेषु रितं प्राप्तम् 'रि पिं तु गतौ'।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org