________________
15
*
[ अथ अणहिल्लपुरपत्तनवर्णनम् - ]
1. १२. भास्वद्भावनदानशीलतपसां यस्मिन् जनं भाजनं दृष्ट्वा संयममञ्जरीभरधृतौ सन्माधवं साधवम् । जैनेन्द्रं भवनोच्चयं च सुभगं बैम्बैः कदम्बैरहो !, दुकालेऽपि लभन्ति धार्मिकदृशः पुण्यामृतैः पारणम् ॥१३॥ यत्रैतान् व्यवहारिणो निदधतः सौवर्णशृङ्गारणां, सारङ्गाक्षिकटाक्षचञ्चलपदैर्वाजिव्रजैर्दीव्यतः । दानं देवरूनिव प्रददतो जेगीय्यमानान् गुणै, ईष्ट्वा मोक्षहृदोऽपि संसृतिसुखे सत्तां मृशन्ति क्षणम् ॥ १४ ॥ स्त्रैणं यत्र सुवर्णकेतकनिभैरङ्गैर्मनोहार्यपि, प्रेक्ष्यामी तरलेक्षणाः कविजना जानन्ननङ्गास्पदम् ।
यत्र प्रेमरसानुविद्धमनसोः स्त्रीपुंसयोः सङ्गमं कृत्वा चानु तयो रसं परिमृशन् ब्रह्माऽपि मोमुह्यते ॥ १५ ॥ यस्याऽऽवासिजने त्रिवर्गघटनाऽन्योन्याविरोधिक्रियां, बिभ्राणा वसति स्फुटं मैधुरिपोः काये त्रिलोकी यथा । चित्रं मे प्रथमा कदापि यदसौ मोक्षाय सम्पत्स्यते, काले भूरितरेऽपि किन्तु विवशा नेयं द्वितीया पुनः ॥१६॥
*
25
२
30
विज्ञप्तिलेखसंग्रह
यः पूर्वं करटकाव निमलङ्कृत्याथ भाग्योदया, -दायातः पुरकल्पपाटकघरां पूर्णः सुवर्णादिभिः ।
श्रीसौभाग्ययशोजयोन्नतिकरो दारिद्र्यमुद्राहरः, श्रीसंघाय सुखाय सोऽस्तु निधिवत् श्रीपार्श्वतीर्थेश्वरः ॥ ९ ॥ देवश्रीकरहेटकावनिमहाराजः प्रजावत्सलो, विश्वव्यापियशःप्रतापनिलयप्रध्वस्तशत्रूदयः । चेतश्चिन्तितपूरणे सुरतरुः संभेटितः साम्प्रतं, श्रीपार्श्वः प्रथयेत् सुसेवकजने प्रीतिप्रसन्ने दृशौ ॥ १० ॥ यदंहिकामाङ्कुशशोणरश्मयो, दिशन्ति काश्मीरविलेपन भ्रमम् ।
तनूषु नम्रामरसुन्दरीततेः, स वर्द्धमानः प्रभुरस्तु वो मुदे ॥ ११ ॥
पुष्णन्तु प्रभुनाभिभूप्रभृतयोऽर्हन्तः सतां ते सुखं, व्याख्यानावसरे क्षरद्रुचिमुचो रेजुर्यदीया रदाः । आत्मौन्नत्यधरान् सुकुन्दमुखरान् विस्मेरपुष्पोत्करान् दृष्ट्वाऽधः पतितान् पुरः किमु मुदा प्रोद्भूतहास्या इव ॥ १२ ॥
तस्मात्-सकलशैलशेखरतुषारधरणीधरादिव सर्वमङ्गलाचरणप्रचाररमणीय निवासात्, दक्षिणाशा निवासिविन्ध्यवसुधाधरादिव सकलभवनराजिराजितप्रदेशात्, कस्तूरिकाकूटघटितगगनाङ्गणानुषङ्गिशृङ्गोतुङ्गाञ्जनावनीभृत इव साञ्जनसानुरागर्हरिणेक्षणाक्षिप्तबहुविध - विद्याधरनिकरात् पूर्व दिशावतंसशृङ्गारप्रकारश्रीउदयाद्रेरिव उदयमान सहस्रकरमण्डलात्, श्रीवैभारगिरेरिव श्रीगणधरस्तू पपरभागप्राप्त भूभागात्, श्रीविपुलश्रीविपुलाचलादिव समस्तजनतालोचनवितानक्रीडाविनोदमे दुरीकारस्पृहणीय शोभा विस्तारसमीपवर्त्तिश्री राजगृहरमणीयात्, निस्सीम चतुर्दिगन्तमुद्रितसमुद्रसमुद्भूतविपुलकमलाविलासिनीविलासकुशलविलासिलोकास्तोक प्रदेदीय्यमाना समान दानवितानसंप्रीणितानेक वनीयकनिकुरम्बजेगीय्यमानजाहीतरङ्गिणीप्रोच्छलद्वहलकल्लोल मालाप्रक्षालितधवलकीर्त्तिमण्डलविमलसरखतीप्रवाहतथा
सुजात्यमत्तमतङ्गजकुम्भस्थलोत्पन्नप्रसन्नाविभिन्नप्रोज्वलमुक्ताफलगुलिकागुम्फित हारिहार
शृङ्गारित धरणीरमणीविशङ्कटहृदयतात् अविकलकलाकलापसंलापलोलुपलेपनलब्धवर्णलवर्णक्षीरार्णवसमुल्लासन विभासमान निशानाथायमानजनराजिविराजमानात्, पुरातनभवसमाराधितश्रीवोधिदपदपद्मयुगलपर्युपास्तिसमर्जितवयर्जित गर्जितत र्जित निरर्गलकइमल
१ इति मङ्गलार्थं श्रीजिनाशीर्वादाः । २ अथ पत्तनपुरवर्णना । ३ वसन्तम् । ४ साधूनां समूहम् | ५ नारायणस्य । ६ सर्वमङ्गला = गौरी तस्याश्चरणप्रचारः, इत्यादिः पुरपक्षे - सर्वमङ्गलाऽऽचारः, इत्यादि । ७ समस्तगृहराजि; पक्षे-सकल भवनराजि०, इत्यादि । ८ पक्षे - नारी । ९ कराः = किरणाः, राजदेयभागाश्च । १० नगरविशेष; पक्षे- नृपमन्दिर । ११ सादर । १२ मुख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org