________________
ख र त र ग च्छी य श्रीलोकहिताचार्य प्रति श्रीजिनोदयसूरिणा प्रेषितं विज्ञप्तिम हा लेख नामकं महद्विज्ञप्तिपत्रम् ।
~*****--
[ अथादौ मङ्गलार्थ जिनाशीर्वादाः-] १. श्रीश्रेयांसि सतां दिशन्तु सततं ते स्वामिनस्तीर्थपा, यज्ज्ञानामृतपानतस्तनुमतां प्रज्ञावतां पर्षदि ।
गङ्गा-सिन्धुसरि............सरला आश्चर्यदाः संपनी-पद्यन्ते हृदयङ्गमाः सहृदयश्रोत्रप्रियाः सूक्तयः॥१॥ श्रीमत्काननमोदिताखिलजनः सद्दर्शन.........हच्छायादृश्यतमः सुशालिवसुधः सारङ्गरगावहः । दिग्......प्रबलप्रकाशशुभगः सानन्दपुण्याध्वगः, श्रीशान्तिः......स्स गमयेद् वः कल्मषं मूलतः ॥२॥ कस्तूरिद्रवगर्भचं......मिलत्काश्मीरयूषच्छटा-शुक्तातुल्यविशाललोचन ............क्षतम् । पक्ष्म......पुरोमदौर्बदलकं दृष्टं शुभायास्तु वः, श्रीमाङ्गल्यसुवर्णभाजनमिदं श्रीशान्तिनेतुर्मुखम् ॥ ३॥
..........समुद्रसान्द्रलहरीराकण्ठमुत्कण्ठयन् , निःकम्पोज्वलभव्यमानसधृतानेकस्वरूपाकृति । श्रीशान्तेर्वदनेन्दुमण्डलमलंकुर्व दिशोभाभरै,-रद्वैतामृतपायनेन सफलं निर्मातु वो दर्शनम् ॥ ४ ॥ कान्ते! नाभिसमुद्भवं भज विभो ! भक्तिर्विरश्चौ न मे, सारङ्गाक्षि ! सुसार्वमङ्गलवरं कोऽभ्येति चण्डीधवम् ।
श्रीमाहुबलेः प्रसावकमये मुग्धे ! न कार्यं हरौ, यदृष्टौ प्रिययोरियं चतुरताऽभूदु वः श्रिये सैर्षभः ॥ ५॥ ॥ अद्वैतानन्दहेतु स्त्रिभुवनभवनोलासिसत्कीर्तिकेतु,-'लक्ष्मव्याजाद् विजित्य क्रमतलनिहितस्फूर्तिमन्मीनकेतुः। दृष्टो भव्येस्तदीयद्विषदशिवघटासूचकोऽपूर्वकेतुः, संसाराम्भोधिसेतुः सुखयतु हृदयं नेमिराड् भक्तिनेतुः ॥६॥
आयाता क्रमतोऽपि येन मुमुचे सा युग्मिधर्मस्थिति,-र्यद्ध्यानामृतपानतोऽजनि जवादम्बासुखैश्वर्यभार । उत्तुङ्गे विमलाद्रिराजि विहितावासः प्रकाशः श्रियां, श्रीमान्नाभिभवः स वः प्रथयतु श्रेयः शिवानन्दनः॥७॥ यः स्वामी भुवि विश्वसेनजनताकल्याणकारोदय,-श्छिन्नश्रीकलधूतकायजरुचिः कारुण्यपुण्याशयः । रङ्गदृगहुँरिणाश्रितः प्रतिपदं भोगीन्द्रचूडामणि,-"मेयः प्रभुरातनोतु स सुखं "श्रीशान्तिनेता सताम् ॥ ८॥
मूलादर्शभूतप्रतेः प्रथमपत्रस्य विनष्टत्वाद् एतत्पतिपर्यन्तात्मकोऽयं प्रारंभिकभागोऽस्य 'विज्ञप्तिमहालेख'स्य बीकानेरीयश्रीपूज्यसत्कलेखटिप्पणात् समुद्धृतः। १ कान्तिसमूहैः। २ पक्षे मोक्षः। ३ सुष्टु सर्वेषु जिनेषु मङ्गलेन वरम् - इत्थं नानासमासाः, पक्षे-सु = अतिशयेन सर्वमङ्गलायाः= गौर्या अयम् , 'अण्', स चासौ वरश्च तम् । ४ बाहुबलेः प्रसावकं = जनकं; पझेश्रीमन्तौ बाहौ(ह) यस्य, स चासौ बलिश्च, तस्य प्रसावकं = प्रेरकं नोदकमित्यर्थः। ५ "तदः से खरे पदार्थाः" सन्धिः । ६ मीनाङ्कव्याजतः । ७ अम्बा=जननी मरुदेवा; नेमिपक्षे-अम्बा= अम्बिका । ८ नेमिपक्षे-न विद्यतेऽभिभवो यस्य, न अभिभव. नीतिकः । ९ ऋषभपझे-शिवेन आनन्दनः। १. समस्तः । ११ सस्वामिकः। १२ पार्श्वपक्षे-छिन्ना श्रीकला यस्य स तथा, एवं विधा अत एव धूता = कम्पिता कायजरुचिः= कन्दर्पाभिलाषो येन यस्माद् यस्य वा। १३ हरिणेन आश्रितः; पार्श्वपक्षेहरिणा = सप्पेण इन्द्रेण वा। १४ शान्तिपक्षे-अमेयः। १५ पार्श्वपक्षे-श्रीशान्तिप्रापकः।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org