________________
१७०
विज्ञाप्तलखसग्रह
अथ श्रीमत्परमगुरुवर्णनम् - भवापगानाथसमाप्तपारं, श्रीसिद्धिनारीकुचहारिहारम् । विवेकदृष्ट्या जितदेवमारं, जगज्जनानन्दकरं विदारम् ॥७८॥ यशोलतामण्डपमेघनीरं, प्रतापवह्नौ प्रवरं समीरम् । भव्याम्रपृथ्वीरुहवृन्दकीरं, सूक्तादिशास्त्राब्धिपराप्ततीरम् ॥७९॥ रीत्यादिकाव्याङ्गविचारपूर-शोभायमानं बुधपद्मसूरम् । जगद्विहारीकृतकीर्तिपूरं, यमीश्वरं धर्मवने मयूरम् ॥ ८॥ 5 तावद्भजेहं वरसूरिवीरं, दयाकरं दुःखदवाग्मिनीरम् । वरप्रभं संयमिमौलिहीरं,न्यायादिविद्यानिपुणं गभीरम् ॥८१॥
पद्यचतुष्टयस्य कमलबन्पचित्रम् । तत्परिधौ श्रीगुरोरभिधानम् । महन्मुनिभिः प्रणतांहिपद्ममहं भजे मञ्जयशःसुधाम ।।
मदीयनेत्रामलपद्मयुग्म महःपति सन्महसां सुधाम ॥ ८२॥-खड्गबन्धचित्रम् । प्रवृद्धशीलाङ्गरथाधिरूढस्तपःकृपाणः क्षमणः स्फुरोग्रः । धनुर्धरः शीलतनुत्रधारी विशिष्टशक्तिः सपृषत्कचक्रः ॥८३॥ " श्रीसूरिराजः प्रजघान रागद्वेषौ महीमण्डलवज्रपाणी । अतः पताकाद्वितयं जयस्य भ्रूयुग्मनासामिषतश्चकास्ति ॥८॥
कर्तुं स्वयंभूर्गुरुराजवाणीमिन्दोः सकाशादमृतं लुलुण्ट । तदुःखभाक् सन् कृशतामुपैति, बिभर्ति काष्यं हृदये च कोपात् ॥ ८५॥ कर्तुं मनोभूर्गुरुवाचमिन्दु, निपीड्य यत्रे कुहुनाम्नि दुष्टे । सुधां जग्राह प्रवरो ततोऽभूद्, विधुः कलङ्कच्छलतः सरन्ध्रः॥८६॥ पद्मासनः श्रीगुरुनाथवाणी, विधातुमिन्दोरमृतं जग्राह । तदुःखभाक् सन् जलधौ ममज, नो चेत् कथं प्रादुरभूत्ततोऽयम् ॥ ८७॥ वराणि वाक्यानि गुरोर्निपीय, जाने नृणां नाकिगणेन साम्यम् । पीयूषपूरादधिकां नरोगां, बुधाः सुधां साधुतमां पिबन्ति ॥ ८८॥ तव गिरं गुरुराज! विधिळधादमृतमण्डलतः प्रविलुट्य तत् ।। पतित एष ततो रससीकरः, समभवद् रजनीरमणः खलु ॥ ८९॥ तृप्तिः परा स्थादमृताशनानां, पीयूषपानेन यथा विशेषात् । तथा त्वदीयाननसूक्तिसारपानाद् भवेद् भूरितरा नराणाम् ॥ ९॥ वेधा विधातुं गुरुराजवाचं, सर्वां सुधां वै जगतो जग्राह ।
देवो वृषाङ्कस्तदनाप्तिभाक् सन् , भुङ्क्ते विषं साधु सुधाशनोऽपि ॥ ९१ ॥ गिरं विधातुं हि विधिर्जग्राह सुधामशेषाममृतस्य कुण्डात् । अनन्तनागस्तदनाप्तिदुःखान्ममज मह्यामपि मूर्च्छयित्वा ॥९२ पीयूषपानं सुखदं तथापि वृथैव मञ्चेतसि भाति यस्मात् । पीयूषपानादधिकानि कर्णे श्रुतानि वाक्यानि गुरोर्मयारम्॥९३॥
गुरोनिरस्ता जगतीतलेऽलं, जयन्ति यासां विमलैर्विलासैः। बोधिर्जनेऽरं भवतीव मुक्ताशुक्तौ पयोबिन्दुभिरानिलेपैः (१) ॥ ९४ ॥ गिरं गुरोर्वर्णयितुं क्षमो नो, सहस्रजिह्वोऽपि सहस्रवषैः ।
खल्पैर्दिनैरेकरसज्ञकोऽहं, शक्नोमि तां वर्णयितुं कथं वै ॥ ९५॥ रूवविणिजअ [मय]णो मणहरदेहो पसत्थगुणनिलओ। सिरिविजयप्पहसूरी जयउ महीमंडले सयले ॥ ९६ ॥ स्नातस्याप्रमितस्य मेरुशिखरे शच्या विभोः शैशवे, यस्यास्यं धवलीकृतं नयनयोः कान्त्योल्लसद्दीर्घयोः। श्रीमच्छ्रीत्रिशलाङ्गजस्य गणपस्तस्यैष पट्टोद्धरः, सूरिश्रीविजयप्रभो विजयताद् विश्वम्भरामण्डले ॥ ९७॥ भव्यानां चित्तपाथस्तनयवनगणे सञ्चरद् भृङ्गराजः, पुण्याब्धिः प्रीतिदायी सितरुचिरिव यः स्वीयगोभिस्तमांसि । ॐ विध्वंसन् दुष्टकर्मद्रुमविपिनगणे मत्तहस्तीयमीन्द्रः, श्रीमच्छ्रीसूरिराजो जयतु वसुमतीमण्डले यावदर्कः ॥ ९८॥
Jain Education Intemational
ducation Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org