________________
लाभविजयप्रेषितो विज्ञप्तिलेखः चण्डी प्रचण्डद्युतिभासमाना, चतुर्भुजा राजति यत्र शैले। चक्रत्रिशूलांकुशशस्त्रवृन्दं, कृत्वाऽघनाशाय करे स्थितेव ॥ ५३॥ चण्डीसमीपे विमलाम्बुकुण्डं, दरी च तिष्ठत्यथ संवसन्ति । तपस्विनः सञ्चितवह्निकाष्ठमात्रोपजीव्या अचले च तस्याम् ॥५४॥ द्वितीयपार्श्वे बहुराजसेव्या देवी भवानी भवदुःखहर्ती । कल्याणकी बहुधूपधूमश्यामीकृताङ्गा जननिर्विभाति ॥ ५५ ॥ आदित्यवाहैः प्रमितानि नीरकुण्डानि चण्डीनिकटे विभान्ति । वराणि कान्ताकुचचन्दनानां, प्रक्षालनात् संकलुषीकृतानि ॥५६॥ पयोभरैः पूर्णपयोधराश्च, श्यामाः स्वनन्त्यो नगमेखलायाम् । चरन्ति गावो गगनाङ्गणे च, पयोदमाला जनसौख्यकाराः ॥ ५७॥ एकत्र गोपीकलगीतशब्दैरूर्वीकृतश्रोत्रमृगा रमन्ति ।
एकत्र मेघध्वनिसक्तकर्णा, नृत्यन्ति यस्मिन्नचले मयूराः ॥ ५८॥ परिरमधुवतीजनसंकुलं मधुकरैः परिराजितभूरुहम् । विपिनमत्र विभाति दरीभृति जनमनोधनतस्करमद्भुतम् ॥५९॥ कल्याणदासभक्तेन योगमार्गानुगामिना । कृतौकं भाति शैलस्य मेखलाया मनोरमम् ॥ ६ ॥
प(ख)मॅरनारङ्गलवङ्गपूगं सच्चम्पकश्रेणि च चारुचूतम् । सञ्चन्दनं नन्दनकाननाभं वनं बुधैः पूरितमध्यभागम् ॥ ६१॥-(युग्मम् ) छटोच्छलद्वारिलसत्तटाको, बभस्ति रम्यो निकटे वनस्य । सत्केकिकोकद्विजचक्रवाकविलासिनारीजनसेव्यदेशः ॥ ६२॥ यस्मिन् पुरे वप्रवरश्चकास्ति, सन्मृन्मयश्छप्परराजिताङ्गः । विराजितो गोपुरराजिभिश्च, भटैः सशस्त्रैर्बहुसेवनीयः ॥ ६३ ॥ पराबलालोकनके गताक्षाः, परापवादे गतजिह्वकाश्च ।
परस्वग्राहे गतदोलताश्च, यस्मिन् पुरे श्राद्धवरा वसन्ति ॥ ६४॥ नयशोभाजनाः श्राद्धाः सन्ति यस्मिन् पुरे कुजाः । अपूर्वदानिनो धर्मानुरक्ता गुरुसेवकाः ॥६५॥ मत्तमातङ्गगामिन्यो दोषाकरमुखास्तथा । सन्ति यस्मिन् पुरे श्राद्ध्यः, कौलेयक्यो दयापराः ॥६६॥ अर्हद्वेश्मत्रयं यत्र भाति यत्रानुविम्बिताः । तारकाः कुर्वते भ्रान्ति मुक्तानामन्वहं नृणाम् ॥ ६७॥ मुनीनां निलयं यत्र दूरीकृततमोभरम् । धर्मकार्याणि यत्रैव चलन्ति हि निरन्तरम् ॥ ६८॥ पुरात् तस्मात् विनेयाणु भादिविजयो मुदा । विज्ञप्तिपत्रिकां भक्त्या, श्रीगुरावुपढौकते ॥ ६९ ॥
कृत्यं यथा प्रभाते प्रजायते सभ्यशोभितसभायाम् । व्याख्याने षष्ठाङ्गं खाध्याये पञ्चमा च ॥७॥ प्रभातेत्र यतिः कश्चिन्नैषधं पठति द्रवम् । नाट्यग्रन्थान् यतिः कश्चित् कश्चित् सिद्धान्तकौमुदीम् ॥७१॥ चम्पूकथा यतिः कश्चित् कश्चिल्लिङ्गानुशासनम् । कश्चित् विचारशास्त्राणि कश्चित् सारखतं तथा ॥ ७२ ॥ ३॥ वृत्तरत्नाकरं कश्चिद् वाग्भटालङ्कृति तथा। कश्चित् कुमारकाव्यं च कश्चित् सिद्धान्तचन्द्रिकाम् ॥७॥
योगं श्रीपञ्चमाङ्गस्य, वहन्ति मुनयो मुदा । श्रावका धर्मबुद्ध्या च, द्वादशव्रतपौषधान् ॥ ७४ ॥
इत्यादिसुकृतकृत्यैः प्रवर्तमाने क्रमात् प्राप्तम् । पर्युषणापर्व सद्धर्मदं बोधिदं श्रेष्ठम् ॥ ७५ ॥ जिनभुवनभूरिपूजननर्तनगानं च दानमानादि । कल्पादिसूत्रवाचनमभवच्छ्रीमद्गुरोर्ध्यानात् ॥ ७६ ॥ साधर्मिकवात्सल्यैरष्टमषष्ठैस्त्रयोदशैर्दशमैः । एतैः सह संजातं सर्वे श्रीमद्गुरोः स्मरणात् ॥ ७७॥
वि. म.ले. २२
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org