________________
१६८
विज्ञप्तिलेखसंग्रह यस्मिन् पुरे कान्तनिकेतनानि, सत्केतुभिर्भान्ति भृशं नितान्तम् । जित्वा श्रिया स्वर्गपुरी किमेतैौलौ ध्रियन्ते खलु निर्जयाङ्काः ॥ ३६ ॥ यस्मिन् पुरे रात्रिवरं गृहाल्यश्चुम्बन्ति सर्वा ध्वजजिह्वया वै। तप्ता खेरातपतोऽह्नि नित्यं, सुधांशुबिम्बं समबाणरम्यम् ॥ ३७॥ यस्मिन् पुरे सद्बलभीपताकामिषाद् विजाने सुरनद्य एताः। स्नानेन देवाः परिपीडयन्ति, गताः शरण्यं नगरस्य तस्मात् ॥ ३८॥ यस्मिन् पुरे साधुसुधाविलिप्तैः, सौधैर्धरामण्डलमाबभासे । निष्काश्य दुष्टां विधुवैरिणी तिथि, स्थितेव रम्या खलु पूर्णिमा तिथिः ॥ ३९ ॥ यस्मिन् पुरे बालमृगाम्बकानां, स्नानेन जाताऽतिकषायिताशया । नासीत प्रसन्नाऽखिलया निशापि, वापीवराङ्गा अहिलेव भामिनी ॥४०॥ यस्मिन् पुरे हट्टपथे घरट्टजैः शब्दैलसत्सक्तुकरैर्विवादम् । घनेन सार्धं क्रियते हि यस्मात् , तस्मात् स जातो घनघर्घरस्वरः ॥ ४१ ॥ क्रीणन्ति पत्रेण मदेन साकं, गुञ्जन्तमप्येवमलिं मलीमसम् । तगन्धलुब्धं वणिजश्चतुःपथे, जना रविः(वैः१) पूरितकर्णदेशाः ॥ ४२ ॥ यस्मिंश्च कस्मीरजपुञ्जराजयः, प्रदोषकाले किल संप्रसारिताः । रेजुर्वरा अस्तमितस्य भास्वत इव प्रभारक्ततरा निरन्तरम् ॥ ४३ ॥ यस्मिन् पुरे चारुचतुःपथानि, विभान्ति वेदाहिकुलैर्मितानि । तद्वर्णनं कर्तुमहं क्षमो नो, स्वल्पैर्दिनैरेकरसज्ञको वै ॥ ४४ ॥ यस्मिन् पुरे चारुणि राजमाने, जिनालयानां छलतः किमेते । अनल्पकैलासदरीभृतोऽभवन् , सुधान्विताः शम्भुनिवासयोग्याः ॥४५॥ यस्मिन् पुरे तोरणधोरणीभिर्विराजितं वेश्म मुनीश्वराणाम् । भातीव पुर्बालमृगाम्बकाया ललाटचित्रं बहुचित्रशालि ॥४६॥ यत्पत्तनं भाति पयोधिपुत्रीप्रालिङ्गितं सर्वगुणाभिरामम् ।
सत्तार्क्ष्यकेतोर्हृदयाम्बुजन्मस्थलं कलङ्केन विनिर्गतं वै ॥४७॥ श्रीमत्तातपदस्पर्शपावनीभूतभूतले । श्रीमति पत्तने तत्र यथास्थाने गुणान्विते ॥४८॥ ॥ इति गुरुचरणनीरजपरपरागपुञ्जपवित्रीकृतपुरवर्णनं समाप्तिं पफाण ॥
अथ नगरवर्णनम् - हाँ । लङ्का शङ्कावती येन, काशी व्याशा कृता तथा । कम्पमाना कृता चम्पोजयिनी जितकान्तिका ॥४९॥
क्रीडाशैलः सोऽस्ति यस्योपकण्ठे, चारुत्वं यस्यावलोक्याब्धिमध्ये । मैनाकाद्या लज्जिताः सन्निपेतुरन्ये ये मयां स्थिता निस्त्रपास्ते ॥ ५० ॥ गलब्भरार्णोनिवहच्छलेन करेणुराजेव बभास्ति शैलः। शावत्वमस्याखिलसानुमन्तो मैनाकमुख्या दधति प्रकामम् ॥५१॥ क्रीडार्थमस्मिन्नचले नितान्तं, व्रजन्ति लीलाकलिताबलानाम् । धवस्य कण्ठार्पितदोलतानां, यूथान्ययुग्मार्गणपीडितानाम् ॥ ५२॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org