________________
लाभविजयप्रेषितो विज्ञप्तिलेखः
१७१ पुष्पायुधस्य विजये विषयाम्बकामं, कल्पान्तकालपवनं खलु मोहदीपे । संसारसागरनिमज्जदशेषजन्तुसेतूपमं सकलसूरिवरं प्रणौमि ॥ ९९ ॥ श्रीसूरिराजसदृशं समवाप्य नाथमन्यं गुरुं क इह मूर्खजनो भजेत ।
त्यक्त्वा शिशुं शुभमणिं प्रविहाय काचमन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥१०॥ निबिडमई सुहकरणो दुहहरणो सयलपावविसहरणो । आणंदिअसयलजणो जयउ वरो सयलमुणिणाहो ॥१०१॥ इत्यायनेकगुणमणिधरणे सद्रोहणाचलाभैश्च | अवधार्या प्रणतिर्मे स्वशिशाववधार्य हितपूरम् ॥ १०२ ॥
निःशेषशास्त्रजलधेर्गतपारकाणां, स्वस्याङ्गसुन्दरतया जितहृच्छयानाम् ।
_श्रीमद्विनीतविजयाभिधवाचकानां, वाच्या तथा गुरुवरैः प्रणतिर्मदीयाः ॥१०३॥ तथा-कवयो नयधौरेया नयादिविजयाह्वयाः । रव्यादिवर्धनास्तेऽघघातिनः कृतिसत्तमाः ॥ १०४ ।। • यशोविजयिनः प्राज्ञा यशोविजयसंज्ञिकाः । रामाद्विजया धीमन्तः श्रीमन्तः स्फीतकीर्तयः॥१०५॥ ॥ धन्यादिविजयाः प्राज्ञाः सदाचारविशारदाः । तत्त्वज्ञानविदस्तत्त्वविजया गणयो वराः॥१०६॥ सिन्धादिविजयाः सन्तश्चतुराश्चतुरायाः । केसराद्विजयाः स्मेरकेसरच्छविसाधवः ॥१०७॥
इत्यादियतयो ज्ञाता, अन्येऽपि च भवन्ति ये । नतिश्चानुनतिस्तेषां विज्ञाप्या गुरुभिः सदा ॥१०८॥ तथा-अत्रत्या गणयः सन्तः, शुभादिविजयाह्वयाः । विनेया विनयावाश्व, विनयान्वितचेतसः ॥१०९ ॥ वृद्ध्यादिविजयाः शास्त्राध्ययनाभ्यासकारिणः । भीमादिविजयाः सन्तो योगमार्गानुगामिनः ॥११॥5
ध्वादिविजयाः शैक्षाः साधुमार्गे रताः सदा । शङ्कराः सर्वलोकानां शैक्षाश्च शङ्करर्षयः॥१११॥ इत्याद्या यतयस्सर्वे विनयानम्रमस्तकाः । संयोजितकराम्भोजा नतिं कुर्वन्ति सद्गुरौ ॥ ११२ ॥ तथावस्था वरा साध्वी गुणलक्ष्म्याह्वया सदा । कर्मश्रीश्च तथा साध्वी तनोति प्रणतिं गुरौ ॥ ११३ ॥ तथा गम्भीरचन्द्राख्यः श्राद्धः सङ्घपतिर्वरः । पुञ्जराजस्तथा देश-मण्डलाधिपतिः पुनः ॥ ११४ ॥ छीतराख्यस्तथा पौरजनानामीशिता धरः । श्रावको राजचन्द्राख्यो जीवराजाभिधः पुनः ॥ ११५॥ ॥ श्राद्धः सहस्रमल्लाख्यो वत्सराजाभिधो धनी । तारणाद्दासकः श्राद्धः संघमुख्यो महद्धनी ॥११६॥ - स्तवनकथनदक्षः श्रावको मोहनाख्यो, जिनपतिततिपूजाकोविदः केसवाहः।
निकटनिलयकस्थः श्रावको वर्धमानो, मुनिजनवरदाने दत्तसभ्यादरोऽसौ ॥ ११७॥ नारायणाभिधः श्राद्धः, प्रेमराजो बुधप्रियः । प्राग्वाटाः श्रावका एते, नमन्ति श्रीगुरुं मुदा ॥११८॥ मोहनश्चतुरुश्राद्धः कर्मचन्द्रो दयाघनः । अमरसीमुखा वृद्धोत्केशज्ञातिन इभ्यकाः ॥ ११९ ॥ प्रधानो देवचन्द्राख्यो, जिनदासो महामतिः । मनजीप्रभृतिश्राद्धा, नमन्त्युत्केशमण्डनाः ॥ १२० ॥ मुख्या श्राद्धीवरा वारानाम्नी धमानुगामिनी । हषानाम्नी तथा श्राद्धी नमति श्रीगुरोः पदम् ॥ १२१ ॥ इत्याद्यत्रत्यसङ्घो यो वन्दते तस्य वन्दना । अवधार्या विशेषेण, गुरुभिर्गणनायकैः ॥ १२२ ॥ संपुटीकृतहस्ताब्जवृद्ध्यादिविजयस्य च । अवधार्या नतिर्नित्यं, विशेषाद् गुरुनायकैः ॥ १२३ ॥ मदहैं चापि कार्य वै, विस्तार्य मयि सेवके । तथा कृपाप्रतानिन्यां, भाव्यं जीमूतवत् सदा ॥ १२४ ॥ वलमाना हिताशीश्व, प्रसाद्या गुरुपुङ्गवैः । अर्हद्दर्शनावसरे, स्मारणीयः शिशुस्तथा ॥ १२५ ॥ सालङ्कारा सदाकारा, सुभगा सुमनःप्रिया । वर्णनीया सकर्णानां, पत्रिका पुत्रिका मम ॥ १२६ ॥ कुर्यात् सूरिवरस्येयं, पाणिग्रहणमादरात् । जाता भाद्रत्रयोदश्यां, शुक्लायामिति मङ्गलम् ॥ १२७॥
॥ इति विज्ञप्तिलेखः ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org