________________
विज्ञप्तिलेखसंग्रह नतामानमायानघाले नमस्सा, नरस्य(?)न चन्द्राननश्रीनमस्ते । असामाद्भुतायागदाले ममास्या, न तस्येह मद्राम्बुजश्रीगभस्ते ॥ १९२ ॥-द्वितीयमध्यमणिः । यशःपूरिताशं तमोनुन्नपाशं, भजामो जयश्रीपयोजैकभानुम् । तवाहिद्वयं सूरिसत्पञ्चवक्त्रप्रभ ! प्रीणितप्रस्फुरत्सर्वभूप ! ॥ १९३ ॥ रमामारविस्तारसत्सारकार, स्मिताशं वरश्लोकसोमैकमासा । तपोद्युम्नभाजं हताकामसार्थ, नमस्यामि तं संहरन्तं विशङ्काम् ॥ ॥ १९४ ॥ तनुश्रीप्रभो ! ज्ञानदानं विशालं, मयि प्रत्ततन्वस्खधैर्यासमान !। महामोहमत्तेभनाशप्रकृष्ट !, द्विपारेः समक्रीडितखस्तिवास ! ॥ १९५॥ कपाटाभवक्षःस्थलं राजमान(नं?), स्फुरत्कीर्तिकनं सृजन्तं गतारा(र)म् । सुलोकावली संश्रये रञ्जितोद्यज्जनौघं वसुस्फारसद्दीप्तिभारम् ॥ १९६ ॥ कुकर्ममत्तद्विपदन्तिशत्रुर्महवनिः कामितकामकुम्भः । रङ्गद्गुणोऽमन्दमुदः प्रकुर्यात् , तमःप्रहर्ताऽमितमोहभेत्ता ॥ १९७ ॥
-मध्यमणिद्वयमण्डितवृत्त३पदकडीकलितहारबन्धचित्रम् । कुशलकमलासम्यक्चन्द्राननातिलकप्रम! । प्रवरनखरप्रख्यातश्रीप्रबहकरव्रजः ॥ १९८॥ यतिततिपतिः सन्तं ततं ददन् प्रमदं प्रति । नयनुतं परं सातं कान्तं नमत्सकलासुर ! ॥ १९९ ॥
-दवरककाव्यम्। नयेऽहं तरुणीगीतवरानन्तयशोभरम् । रङ्गद्धनाघनारावं तं नुतिं धीरतानगम् ॥ २००।-मुशलम् । नमस्सं श्रीकरं सत्त्वचित्तेप्सितमरुन्नगम् । गणतातानगन्ताररतागं सुममंसुगम् ॥ २०१॥-त्रिशूलं । यमलम् । नंनममत्यसा पापं सापारश्रीदमच्छगम् । गच्छमंदम्भसम्भाररम्भागर्जदनेकपम् ॥ २०२॥-शङ्खः । नय त्वं तपसा पञ्चप्रमाददनोऽज्ञपः । परमः ससमत्वश्रीश्रीसम्भारं रसज्ञ !॥ २०३॥-श्रीकरी । नमस्तमस्तमक्षिप्रभेदतत्पर ! नैकप ! । परपद्मापरम्परापरास्पद पदापत ॥ २०४॥-चामरः । नतमादं महोधामापमानारामयाऽस्ति तम् । तत्त्वभृत्त्वां महद्ध्यानं भजे महत्सु साहसम् ॥ २०५॥-हलः । न मानखिन्नयामोदं परमार्थप्रदैनसः । सदा क्षयंकरामन्ददमनन्ददयाप्रद !॥ २०६॥-भल्लः । नन्दाकंप्रप्रभादक्ष ! स्तुत्येष्टप्रकरप्रद ! । दमिमानद ! सत्पादतुष्टिपुष्टी भवजन !॥ २०७॥-धनुः । नयसद(द्ध?)नकं दानसदागदविनाशन! । नमामि त्वां सतां शर्मप्रदं परमसत्यन! ॥२०८॥-द्वाभ्यां खगः। नमन्नरवराधाममतिप्रशमभृन्मन ! । नरानन्दद ! जीयास्त्वं यावारप्रकरानम ॥ २०९।-शक्तिः । न सममहं प्रकामं नवीमि समनिर्भरम् । मम सदंहतापायं महन्मद्रप्रदाभय !॥ २१० ॥-छत्रम् । नरौघाभिनतो वाम ! यमनाममनामयम् । यत्नतो हर सूरीन्द्र ! दमभाररभामद ! ॥ २११ ॥- रथः । ननु भानुसमीज्ञानगुणवद्गुरुतास्पद !। दमी ननदरः कंजनयनो जय सच्छमी ॥२१२॥-कलशः । नम मीमं न दामीमं मनमानद ! निर्धमी । मीमाभतारयो निन्दा मनतानन्तरं दनम् ॥ २१३॥-अर्धभ्रमः ! नतवासवनाङ्गन ! नगेनासमधीरतः । नरधीप्रद सद्दान ! नदा संगम्यवातन ! ॥ २१४ ॥-कमलम् । नमन्तु वरविद्यादिप्रदं कमसुलोचनम् । नराश्चञ्चद्गुणं तं श्रीविष्टरारामतासमम् ॥२१५॥- शरः।-त्रिभिर्विशेषकम् । नव्यनिन्दा कजखासं नन्तं च सकलं तमः । मदमद्यमहामन्ददमधामसमं नम ॥ २१६ ॥-मुद्गरः । नक्षत्रदमिभिः क्लुप्तचक्षुःसर्ववरोद्गमः । मजिन्दुरिव निर्मिन्याहुस्तमस्ततमीश ! नः ॥ २१७ ॥- वजम् । नन्दि वितनु सद्ध्यानिन् ! नद्धमाशु तमोगणम् । नराणां हर सद्रीतिनयशर्मप्रदः सदा ॥२१८॥-खस्तिकः।
*
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org