________________
श्रीविजयसिंहसूरिप्रेषिता विज्ञप्तिका रसेन नन्दनं सारलक्षणे नरकीर्तिरम् । रक्षकं कमलाकारं रङ्गभूषणं स्मर ॥ १७५ ॥
कङ्कणमध्यस्थस्वस्तिक१चमर२बीजपूर३कमल ४धनु:५स्थपनिका६दिचित्रमयश्लोकः ॥ कुमत्युच्छलद्दर्पकंसप्रणाश !, प्रसृष्टौ मुकुन्द ! प्रबर्हप्रशंस!। ललन्नीतिसदीतिकृत्कमकीत !, भवन्तं स्फुरद्ध्यानमानौम्यशङ्कम् ॥ १७६ ॥ महानन्तभावारिमालाविशालद्रुमोद्भेदमत्तद्विपेन्द्रकसारा । सदा तावकी नाकिनम्य प्रकुर्यात् , सुमूर्तिः प्रशंसापदं मामगम्यम् ॥ १७७॥ चकास्ति प्रभो ! प्रास्तसान्द्रामतन्द्रान्धकारा वचश्चातुरी तेऽतिचन्द्रा। नमत्सच्चकोरावलीनां प्रमोदप्रदाने हि नक्तं दिवा सावधाना ॥ १७८॥ तितीर्षा यदि स्यादपारं विसारं, प्रसारि प्रतिप्राज्ञसंसारनीरम् । कथं तन्न भक्तः प्रभोः प्रत्तसंसारपारस्य कन्त(कं तद्भयालिप्रकरः प्रः] ॥ १७९॥ भजेयं भवन्तं भवद्दम्भनाशं, भदन्ताभयानाभमायेभसिंहम् । महायःस्फुरत्तत्त्वसद्दत्तभासं, विसन्तापमानातिसद्येति भीह ! ॥१८॥
-प्रथममध्यमणिहारबन्धः । प्रतिष्ठाप्रकृष्टः सुरैर्वन्द्यपादः, स्फुरत्तीक्ष्णप्रज्ञावताऽगम्यभावः । रतीशक्षितीशाभिमानप्रहर्ता, शिवं रातु रम्भासदागीयमानः ॥ १८१ ॥ खरांशुप्रभस्ते प्रभोऽरं प्रतापो, जनाम्भोजखण्डप्रमोदैककारः । प्रकाशी यतः सर्वदिक्ख्यातकान्तियतोऽनेकप्रद्वेषिघूका असौख्याः ॥ १८२ ॥ तरी कोपमानाऽस्ति ते श्रीमुनीश !, प्रमजत्सतः सन्ततं तारणश्रीः।। प्रभो ! हृत्पयोजे ममैवं विचित्रं, जडत्वं न प्रस्पृष्टमस्ति त्वयैव ॥ १८३ ॥ हतानन्तलोकौघपकं मनोजान्धकारापहं संभज ध्वस्तकल्कम् । रसायां यतः स्युः स्फुरंब्रह्मभाजस्तमोमण्डलं ध्वंसतो नारतीव्रम् ॥१८४ ॥ जम्भारिमुख्यानतसर्वदेवं, वन्दे सदा प्रास्तकुमानमायम् । यमासमश्रीपरिसेविताङ्गं, गतामयं श्रीकरमङ्गभाजः ॥ १८५॥ नयश्रियं दारितसर्वकोपस्ततस्वगीर्वारितपापपङ्कः। यशोमलः सन्ततवीतशङ्कोऽकोपप्रभुस्तापहरः शिवाय ॥ १८६ ॥ वशाभिगीतोऽवतु सूरिराजो, वन्दारुनृणां शिववर्धकश्रीः । विवर्जितावज्ञजिनावलीनां, वरेण्यसम्बोधिवचःप्रपञ्चः ॥ १८७॥- पदकडी । तितिक्षाक्षमं प्रीतिगीतं भजामो, जगत्यां रतिप्रीतिकृच्चारुगीतम् । तिलोत्फुल्लपुष्पाभरूपस्वनाशासुदीर्घाकृतिन्यकृतोद्यत्प्रदीपम् ॥ १८८ ॥ तिरश्चीनमुच्चैः प्रकाशं जगाम, प्रतापैकतिग्मद्युतिस्ते मुनीश ! तथा चेन्न तद्दुस्तमस्तत्कथं भोऽतिनीचैर्गतं दृश्यते तत्त्वतस्तत् ॥ १८९॥ तमानम्यतां मुक्तदुर्दम्भमादं, जनौषामितप्रत्तसातप्रमोदम् । दरोद्भेदबद्धादरं प्रस्फुरच्छ्रीभरं सम्मदं बोधितानेकविप्रम् ॥१९॥ महासूरिसंसन्मणे ! दम्भभीते, पदं ते समं सेवते यः समोदम् ।
प्रशस्यश्रियो भूरिसत्तिग्मभानुप्रतापी न प्रष्टा लभेत् कः सुनीतिः ॥ १९१ ॥ वि.म.ले. १९
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org