________________
१४४
विज्ञप्तिलेखसंग्रह
अपरंको दुग्धाब्धिभवां बभार समरे कीदृग्भवेद् भाग्यभा, कः कृष्णाग्रजभूः पुनः सुकृतिनः कृत्येषु कां कुर्वते । पुण्याङ्गिप्रतिबोधका भगवतः का चन्द्रतुल्यं च किं, प्रद्युनरिपुर्जनाः प्रति शिवं गन्तुं वितन्वन्ति काम् ॥ पाश्चात्योऽक्षरयुग्ममुक्तित इह स्याद् व्यस्तमानन्दता, कुर्वे संस्तुतिगोचरं सुविधिना श्रीमद्गणाधीश्वरम् ॥ १५१॥-षट्पदी ।
॥श्रीमद्विज यदे व रि गुरवे नमः ॥ सकलभूतलमण्डनमद्भुतं, विजयकारिपदद्वयपङ्कजम् । भविककल्पितदानकरं सदा, मतिततिप्रकरं करुणाधरम् ॥ १५२ ॥ भविककोककदम्बकभानुभं, जगति विस्तृतवामयशःश्रियम् । विमलकोमलकोकनदप्रभक्रमयुगं गजभासुरगामिनम् ॥ १५३ ॥ निजकुलामलपङ्कजकाननारुणसमं समतारससागरम् ।
करणकान्तिजितामरभूधरं, विजयदेवगुरुं नुतिमानये ॥ १५४ ॥ - परिधिः । कमलाकरकर्तारं भूविस्तृतयशोभरम् । लक्ष्मीलीलासु कमलललत्सत्पाणिपुष्करम् ॥ १५५ ॥ मनोज्ञोद्यत्कलाधारं तन्वन्तं भूरि मङ्गलम् । जन्तुसङ्घातकमलकाननाम्भोजसोदरम् ॥ १५६ ॥ पद्मन्यक्कारिसुकरं द्वयं भाभारभासुरम् । पटिष्ठसद्गुणाधारं जनोद्धृतिकृतादरम् ॥ १५७ ॥ विशदाचारनिकरं करणं प्रणतामरम् । ततकल्कहरं धीरं नरप्रश्नकृतोत्तरम् ॥ १५८॥ रम्यानेकगुणागारं दासीकृतनरामरम् । तिरस्कृतद्वेषिवारं तिथ्याद्याराधने परम् ॥ १५९ ॥ कलाभृत्समसत्तेरकमलं सिद्धिकृत्करम् । नाथं कलाचक्रवालरत्नसन्ततिसागरम् ॥ १६०॥ विस्तारिज्ञानसम्भारं कोमलक्रमपुष्करम् । कर्पूरभररुक्चौरबन्धुरश्लोकविस्तरम् ॥ १६१ ॥ भासुरानेकचतुरभक्तलोकप्रियङ्करम् । गणनाति[ग] सत्सारं विनतानेकनागरम् ॥ १६२॥ तप्तानन्ततपोवारं मतिमद्वरबुद्धिरम् । संशयालिरसासीरं यवनोद्बोधतत्परम् ॥ १६३ ॥ मदनादिविजेतारं कोपपादपकुञ्जरम् । रत्नत्रितयदातारं कमनीयवचोभरम् ॥ १६४ ॥ दर्शनामोदितापारभव्यभव्यजनोत्करम् । मन्दराचलवद्धीरं गन्धमातप्रभाकरम् ॥ १६५॥ जयश्रीप्रस्फुरद्दारसुभगाभोगभास्वरम् । गात्रसौरभ्यमन्दारनगप्रतिमताधरम् ॥ १६६ ॥ जगत्स्थवस्तुवेत्तारं लावण्यावलिबन्धुरम् । रत्नाकरसुगम्भीरं कष्टाटविदवानलम् ॥ १६७ ॥ कारुण्यजलनेतारं नारीगीतगुणोत्करम् । नयनानन्दधातारमज्ञतानलपुष्करम् ॥ १६८॥ मधुकृत्स्थितिसत्तारं रत्नातिनखोत्करम् । सागरोन्मादभेत्तारं रङ्गत्सिद्धान्तसागरम् ॥ १६९ ।। रसज्ञहृद्रुमे कीरं काञ्चनद्युतिवत्करम् । जिनोक्तानुगगीर्वारमभीप्सितपदार्थरम् ॥ १७० ॥ भूतप्रेतनिशाचरलब्धभीत्यभयं करम् । जगज्जनगणाधारं देवदेवीमनोहरम् ॥ १७१॥ गुरुतापारकूपारं नुवत श्रीमुनीश्वरम् । मानवास्त्रिजगत्तारं ये समिच्छन्तु मङ्गलम् ॥ १७२ ॥ महानन्दपुरीद्वारं जन्तुव्यामोहकृत्स्वरम् । देशनाभिन्नसंसारं सूरिसन्मौलिशेखरम् ॥ १७३ ॥ गुरुं सर्वार्थविस्तारवेत्तारं हतभीभरम् । [............................. ॥ १७४ ॥]
-कङ्कणबन्धचित्रम् । एकोनविंशतिभिः(त्या.) कुलकम्
+ अन साधैंकः श्लोकः पतितः प्रतिभाति मूलादर्श(१) । यतोऽग्रेतनस्य श्लोकस्य १७६ इत्येवं क्रमाङ्क उपलभ्यते।
Jain Education Intemational
ducation Intermational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org