________________
श्रीविजयसिंहसूरिप्रेषिता विज्ञप्तिका
श्रीवर्धमानजिनराजगृहं विभाति, यस्मिंश्च देवकुलिकाश्रितमद्भुतश्रि । किं नीतिरीतिविधिमीक्षितुजातकामः, शृङ्गालिमण्डितगिरीशगिरिः समागात् ॥ १२८ ॥ यस्मिंश्च वीरजिनराजगृहे प्रदीपाः, शोभां दधुः पवनप्रेरणधूर्णिताङ्गाः । श्रीमजिनेन्द्रमभिवन्दितुमिच्छया किं, भास्वानिवेत इह कल्पितभूरिरूपः ॥१२९ ॥ विपक्षपक्षक्षयकार्यदक्षो, विराजते यत्र महीमहेन्द्रः ।। विशेषतो न्यायविधेविंधाता, स्वीयप्रजापालनबद्धरागः ॥ १३० ॥ तस्मात् कलाशालिजनालिभास्वच्छ्रियं दधानाद् गुणराजमानात् । भूभामिनीसत्तिलकायमानात् , सरोतरातोऽनिशलब्धमानात् ॥ १३१ ॥ संयोजितश्चारुसुभक्तिमात्रा, भावाभिधानस्य पितुर्निदेशात् । औत्सुक्यभूमीपतिशासनेन, निमत्रितः सम्मदधीसखेन ॥ १३२ ॥ उल्लासवान् स्नेहभरप्रबुद्धः, प्रमोदसम्पूरितचित्तवृत्तिः।।
उत्कण्ठया कुण्ठकृतप्रमादः, संयोज्य पाणिद्वितयाम्बुजन्म ॥ १३३ ॥ विज्ञप्तिकां वितनुते सुविधिप्रधानामानन्दतो विजयसिंह शिशुः प्रबर्हाम् ।
आवर्तकैस्तरणिमूर्तिमितैर्विधाय, सद्वन्दनं विनयनम्रशरीरयष्टिः ॥ १३४ ॥ कृत्यं यथोद्गच्छति तिग्मभानौ, जम्भारिदिग्भूधररत्नसानौ । प्रध्वस्तविस्तारितमःसमूहे,सच्चक्रवाकीमुदमादधाने॥१३५॥ 15 पयोजिनीखण्डितनायकानां, हिमांशुसम्मार्जनकृत्यकृत्यैः । प्रसारितस्मेरतदीयवक्त्रप्रलम्बनैजप्रथितांशुपाणौ ॥१ माङ्गल्यगीतध्वनिपूरितोद्यदिग्मण्डले कूजति पत्रिपतौ । बालार्करक्तद्युतिकुडमौघविलिप्तधात्रीललनाननाब्जे ॥१३७॥ स्मेरीभवत्पङ्कजपुषगर्भप्रसुप्तषट्पादपदोपघातैः । पतत्प्रभूताद्भुततत्परागसौरभ्यसम्पूरितजीवलोके ॥ १३८ ॥ मृदङ्गभेरीतततालतालीवीणाद्यवाद्यक्कणितप्रसारैः । व्यामोहितानेकसुविद्यविद्याधरव्रजस्तम्भितसद्विमाने ॥ १३९ ॥ घरट्टसंघट्टनपिष्टसक्तुप्रादुर्भवत्सौरभरज्जुराज्या । स्वसद्मसंसर्पणबद्धरागशश्वत्समाकर्षितपान्थसार्थे ॥ १४०॥ विनिर्मितस्वस्तिकपूरणायाममात्यभूपालविराजितायाम् । श्रद्धाभिरामप्रवराहताहतीसम्पूरितायामनिशं सभायाम्॥१४॥ स्वाध्याये सद्विधिना श्रीमत्प्रज्ञापना जिनाभिहिता । विविधविचाररसालाऽभिवाच्यते मोक्षतरुबीजम् ॥ १४२ ॥
व्याख्यानवाचनविधिः प्रथमाङ्गसूत्रवृत्तेर्बभूव वरिवर्ति विदां पुरस्तात् ।
अध्यापनं दमिजनेऽध्ययनं स्वयं च, सार्वप्रणीतवरशास्त्रगणस्य शश्वत् ॥ १४३॥ योगोपधानवाहनमनिशं तद्योग्यताविशिष्टेषु । सानन्दनन्दिमण्डनपूर्वकमुद्यद् व्रतोच्चारः ॥ १४४ ॥ इत्यादिधर्मकृत्ये प्रवर्तमाने प्रमोदसन्दोहात् । कृतसङ्केतमिवाऽऽगाद् वार्षिकपर्वापि पर्ववरम् ॥ १४५ ॥ तस्मिन् द्वादशदिवसान् यावदमारिप्रवर्तनं प्रकटम् । षष्ठाष्टमादिदुस्तपतपसस्तपनं विशेषेण ॥ १४६ ॥ दुष्टकुकर्मनिवृत्तिः साधर्मिकपोषणं सुसन्तोषम् । श्रीफलपूगफलाद्यैः प्रभावनाविरचनं लोके ॥ १४७॥
महोत्सवाद्वैतनवक्षणेषु, सदिभ्यसभ्याढ्यसमाजिकायाम् ।। गीर्वाणकारस्करकल्पकल्पसूत्रस्य वृत्त्या सह वाचनं च ॥ १४८॥ गम्भीरशब्दयधिरीकृतजीवलोकम् , वादित्रवृन्दविधिवादनपूर्वकं च । नानाविलासयुवतीजनगीयमाने, श्रीजैनचैत्यपरिपाटिकया प्रवृत्तम् ॥ १४९ ॥
इत्यादिधर्मकृत्यं प्रवर्तितं जायते च (स्म) निर्विघ्नम् । श्रीतातनाममन्त्रप्रसादतः श्रेयसा सहितम् ॥ १५० ॥
४
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org