________________
१२४
विज्ञप्तिलेखसंग्रह कल्पितानल्पसंकल्पपूर्ती कल्पमहीरुहः । व्याख्या श्रीकल्पसूत्रस्य विहिता नवभिः क्षणैः ॥ ७॥ पूजाप्रभावनादानतपःप्रभृति चाखिलम् । सत्कर्म तत्तदुचितं रचितं गृहमेधिभिः ॥ ७१ ॥ यद्दानविधिमुवीक्ष्य हृदयेऽतिचमत्कृताः । अद्यापि नन्दनवने घूर्णन्ते सुरपादपाः ॥ ७२ ॥
इत्यादिसौकृतं कृत्यं प्रवृत्तं च प्रवर्तते । श्रीमतां पूज्यपादानां प्रसादोदयतः परम् ॥७३॥ । [अथ श्रीगुरुविजयप्रभसूरिवर्णनम् -]
सौभाग्यभङ्गी च गभीरिमा च, रूपप्रकर्षश्च विवेकिता च । अनेकशास्त्रार्थपरिश्रमश्च, येषां ययौ वाक्पथपारमेव ॥ ७४ ॥ येषां पुरः पञ्चमचारुवाचा, पुंस्कोकिलः कूजति रूक्षमेव । अतो निवासं कुरुते वनेऽसौ, स्वस्पर्धिदृष्टावुपजातलजः ॥ ७५ ॥ येषां मुखौपम्यमिवोपलब्धं, निम्ने तपस्यत्युदके पयोजम् । यन्नेत्रसौभाग्यजिताः कुरङ्गाः, कान्तारदेशेषु परिभ्रमन्ति ॥ ७६ ॥ यदङ्गसिन्धावनुभावधावल्लावण्यपूरे परितः पतन्त्यः । कलिन्दकन्योपमिति कटाक्षच्छटा भजन्ते मृगलोचनानाम् ॥ ७७ ॥ सूरीश्वरश्रीविजयादिदेवैर्येषां प्रदत्तो निजगच्छभारः । चतुर्भुजेनेव तनोर्निजायाः, शेषस्य निश्शेषविशेषभाजः ॥ ७८॥ यद्गच्छशुक्तौ सुगुरुप्रसादस्खात्यब्दवृष्टिप्रगुणीकृतानाम् । मुक्ताफलानां सुधियां मुनीनां, पदं भवेन्मूर्यपि भूधवानाम् ॥ ७९ ॥ येषां गणे चारुवने जयन्ति, गीतार्थसार्थाः सहकारतुल्याः। यद्ज्ञानलीलाकलिकारसाय, पिका इव ज्ञाः स्पृहयन्ति केऽपि ॥ ८॥ यद्गच्छगीतार्थगुणान् पटिष्ठान्, न मत्सरी कोऽपि पटुः पिधातुम् । न घूकघूत्कारपरंपराभिः, प्रच्छाद्यतेऽर्कः स्फुरदंशुजालः ॥ ८१॥ गच्छस्थितखच्छगुणज्ञकीर्तिर्येषां विशेषौपयिकी विवेके । लताप्रताने प्रथितप्रसूनलीला मधोरेव हि वक्ति भाग्यम् ॥ ८२ ॥ गुणे यदीये गुरुसाधुरम्ये, महत्त्वमन्योऽन्यकृतव्यपेक्षम् । महासरस्सङ्गि लसत्परागराजीवराजीपरभागशालि ॥ ८३॥ यद्गच्छनिष्ठा जगतो गरिष्ठाऽधिष्ठानभूमिः सुकृतस्य साक्षात् । इति स्थितज्ञानकलाविशिष्टां, शिष्टा न तां जातु परित्यजन्ति ॥ ८४ ॥ एकातपत्रं कलयन्ति धर्मम् , विभौ गुणज्ञे सुधियो यदीयाः । न ते स्वबोधामृतमग्नचित्ताः, संसारलीलापरमाद्रियन्ते ॥ ८५॥ गङ्गातरङ्गा इव वाक्यरङ्गाः, शृङ्गारसङ्गाद् विलसन्ति येषाम् । मन्जन्ति येषु हृतमुक्तलज, विद्याधराऽमर्त्यवधूसमूहाः ॥ ८६ ॥ उक्तेर्विशेषेषु महाकवीनां, येषां मनोवृत्तिरतीव पट्टी । इति स्फुटीभाविविलास्युदङ, तन्वन्ति तर्क किल तर्कविज्ञाः ॥ ८७ ॥ ये सूक्तपीयूषरसेन सिक्ता, द्रवन्ति चन्द्रोपलवज्जनेषु । खान्तस्य तेषामनुकूलवृत्ति, स्तुमः प्रतीतां कियती विभूनाम् ॥ ८८॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org