________________
नयविजयगणिप्रेषिता विज्ञप्तिका
१२५ खच्छः स देशः खलु कच्छ एव, या जन्मभूमिः प्रथिताऽत्र येषाम् ।
मनोहरं नाम मनोहरं तत्पुरं परं यैः परिशीलितं यत् ॥ ८९॥ तैरत्यद्भुतभाग्यनूनकलिकासच्चातुरीसंचरच्चेतोवृत्तिगरिष्ठकोकिलकलाकल्लोलकिर्मीरितैः । स्फूर्जत्पुण्यवसन्तसन्ततयशोवल्लीविलासैघनैर्विश्वाश्चर्यदवर्यचित्रचरितैरानन्दमेदखलैः ॥ ९ ॥ तैलापूरसमप्रवर्तकमतिव्यापारविस्तारितस्फूर्जद्वाममहीपदीयकदशातुल्यक्रियाकेलिभिः । खच्छश्रीतपगच्छकच्छकुहरप्रत्युच्छलप्रौढता, गङ्गातुङ्गतरङ्गवाहितहितप्रत्यर्थिमानद्गमैः ॥ ९१॥ चन्द्रस्येव कलेश्वरप्रणयिनी गङ्गावदुचोद्भवा, खैरं क्लृप्तसुयानपात्रतरणा वेलेव पाथोनिधेः । आवतैः प्रथिता नदीव जलमुग्धारेव तापापहा, श्रीपूज्यैः कृतमङ्गलावनिरिव ज्ञेया शिशोर्वन्दना ॥ ९२ ॥
तथा तत्रश्रीमद्विनीताद् विजयाभिधानां, प्रसादनीया वरवाचकानाम् । यैः शक्यमेतद्गणनीतिसूत्रं, गम्भीरभाव विवरीतुमुच्चैः ॥ ९३॥ रविवर्धनाख्यविबुधा, विदितावसराः सरागचेतस्काः । आनन्दसागराख्या, विबुधा धनविजयविज्ञाश्च ॥ ९४ ॥ जसविजयाख्या विबुधा, नियुक्तमुख्याश्च रामविजयबुधाः । तत्त्वविजयाख्यगणयः, सत्यविजयसंज्ञका गणयः ॥ ९५ ॥ इन्द्रविजयगणिमुख्या-श्चतुरविजयसंज्ञकास्तथा गणयः।
इत्याद्या ये श्रीमत्पूज्यचरणसेवकाः सन्ति ॥ ९६ ॥ नत्यनुनती सहृदयैः प्रसादनीये यथाक्रमं तेषाम् । अन्तिषदां च शिशोरप्यनुकूलितसकलपरिवारैः ॥ ९७ ॥
अत्र वःजसविजयाख्या विबुधाः, सत्यविजयसंज्ञकास्तथा गणयः । हर्षविजयाख्यगणयो, हेमविजयसंज्ञका गणयः॥९८॥ तत्त्वविजयाख्यगणयो, लक्ष्मीविजयाभिधास्तथा गणयः। वृद्धिविजयाख्यगणय-श्चन्द्रविजयसंज्ञका गणयः ॥ ९९ ॥ शुभविजयाख्या मुनयो, मुनयः कपूरविजयसंज्ञाश्च ।
कीर्तिविजयाभिधयतिः, स्थानाधिष्ठानमात्ररतिः ॥ १० ॥ इत्येष साधुवर्गः संघोऽत्रत्यश्च भक्तिरसिकमनाः । श्रीपूज्यचरणकमलं, प्रणमति कामितसुरद्रुसमम् ॥१०॥ सरसनवरीतिगब्भैः पद्यैस्तात्कालिकैरयं लेखः । दीपोत्सवे प्रगुणितः, प्रबोधदीपोत्सवं तनुताम् ॥१०२॥
॥ इति मङ्गलम् । शुभं भवतु ॥ पूज्या। सकलसकलसुविहिततपागच्छभट्टारकशिरोरत्नभट्टारकश्री १०८ श्री जीर्णराध्य श्रीविजयप्रभसूरीश्वरचरणारविन्दानामियं विज्ञप्तिः। र दुर्गे
॥ ॥ ॥ सं० १७१७ वर्षे शिशुनयविजयस्य विज्ञप्तिः ॥
॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education Intemational