________________
नयविजयगणिप्रेषिता विज्ञप्तिका
१२३ इह निहत्य मनोभुवनिर्मिता, परमनिर्वृतिसौख्यमलम्भयत् । व्रतसुधास्नपनेन जिनो घनच्छविरहो विरहोग्ररुजं प्रियाम् ॥ ४९ ॥ यदुकुलाम्बरपौर्णिमचन्द्रमाः, कनकपद्मनिवेशितपत्कजः । इह चिरं विजहार जिनेश्वरश्चरितदारितदारुणपातकः ॥ ५० ॥ अधिगतातिशयर्द्धिभवान्मदादिव दिवस्पतिगीतयशोभरः । भगवताञ्चलके तु शनैर्दिनाशुभवनैर्भवनै रिनलैयम् ॥ ५१॥ इति यदेकविभूषणभूमिभृत्तिलकरैवतकस्तुतिलम्पटाः।
सितपटाः सुधियो घटयन्त्यहो, स्वरसना रसनादकृतार्थताम् ॥ ५२ ॥ तस्मिन्नन्दनचन्दनद्रुमचमत्कारानुकारोल्लसन् , मल्लीवल्लिविनोदमत्तमधुपस्तोमाभिरामैवनैः । वापीकूपविहारहारिहरिणीनेत्राभिरभ्युद्यत-श्रीमत्सभ्यमहेभ्यराजिभिरपि प्रख्यातशोभाभरे ॥ ५३॥ लङ्काश्रीमुखि देवनाथनगरी श्रीगर्वसर्वंकषे, भोगावत्यभिमानहर्तरि जिताऽयोध्यायशस्संचये । राजदराजगृहातिहारिविभवे वाराणसीसन्निभे, श्रीमत्पूज्यपदाजपाविततमे श्रीजीर्णदुर्गोत्तमे ॥ ५४॥
॥ इति श्रीजीर्णदुर्गनगरवर्णनम् ॥ [अथ घोघाबन्दिरवर्णनम् -]
उपाश्रयस्थायिमुनीन्द्रदृष्टिपीयूषसेकादनुभूयमानम् । वेलाविलासच्छलनृत्यभाजो, हृच्छर्मपोताः स्फुटयन्ति यत्र ॥ ५५ ॥ यद्यानपात्राणि महर्द्धिदादूर्वीकृतस्तम्भकराणि मन्ये । स्पर्धानुबन्धोपुषिता नियोद्धं, दिवो विमानानि समाह्वयन्ति ॥ ५६ ॥ यद्यानपात्राण्युदधिस्सुतीयन्नथेऽधिवेलं परिलालयन् स्खे । उद्दीपयत्येव मिथः सुहृत्त्वं, रत्नाकरत्वेन सदृग्गुणेन ॥ ५७॥ यदापणस्याम्बुनिधेश्च वादस्पर्धारसाद् घर्घरघोषभाजोः । द्वयोमिथः संधिमिव प्रकर्तुं, मध्ये स्थिताः पोतगणा विभान्ति ॥ ५८॥ तस्माद् घनौघनगरान् नगराजिरम्यविस्तारहारसमचैत्यविराजमानात् ।
सद्यानपात्रजिनदेवमहाविमानात् , लक्ष्मीविलासदलितेन्द्रपुराभिमानात् ॥ ५९॥ [विज्ञप्तिपत्रप्रेषकस्य स्वकीयवृत्तादिनिवेदनम् -] मोदमेदस्खलत्स्वान्तो भक्तिप्राग्भारभासुरः । उद्यप्रेमार्ककान्त्याभचञ्चद्रोमाञ्चभृत्तनुः ॥ ६॥ अकुण्ठोत्कुण्ठयापूर्णस्तूर्णमभ्यर्णमाप्तया । मनोरथरथारूढ इव क्ष्मां संस्पृशन् रसात् ॥ ६१॥ आवतैर्वन्दनं कुर्वन् विधिना भानुसंमितैः । संयोजितकरद्वन्द्वो विनयानम्रकन्धरः ॥ ६२ ॥ कल्याणीभक्तिरत्यक्तव्यक्तप्राक्तनपद्धतिः । विज्ञप्तिं कुरुते रम्यां नयादिविजयः शिशुः॥ ६३ ॥ यथाकृत्यमिहाप्रौढपूर्वाचलविभूषणे । निराकृतनिशाध्वान्तस्तोमकोमलदीधितौ ॥ ६४ ॥ विकाशिताम्भोजवने प्रकाशितजगत्पथे । समुद्यति नभोरत्ने हिंगुलद्युतिपाटले ॥६५॥ सभायां परिपूर्णायां महेभ्यः सुरसन्निभैः । प्रज्ञप्ती वाच्यमानायां सूत्रतश्चार्थतस्तथा ॥ ६६ ॥ प्रस्तुताध्यापन-ग्रन्थकरणादिपरिश्रमैः । प्रगल्भमाने प्रतिभाचमत्कारितगीष्पतौ ॥ ६७॥ यथावदुपदेशेनोल्लास्यमाने मनस्विनाम् । हृदये घनवृष्ट्येव कदम्बानां कदम्बिका ॥ ६८॥ क्रमागते सर्वपर्वगर्वसर्वंकषोत्सवे । महापर्वणि विख्याते श्रीमत्पर्युषणाभिधे ॥ ६९ ॥
Jain Education Intemational
ducation Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org