________________
१२२
विज्ञप्तिलेखसंग्रह
गगनचुम्बितलम्बितगोस्तनी, विविधमण्डपमण्डनकैतवात् । इह भवत्पवियुक्तरतिस्फुरन्मदननन्दननन्दिमहोत्सवः॥ ३१॥ मम पुरः कतमा सुखवाटिकेत्यतुलदर्पसमर्पितमानसा । इह मही मुहुरुलसति स्फुरन्नवकदम्ब[कदम्ब?]ककैतवात् ॥ ३२ ॥ इह समुज्ज्वलदस्त्रधरः स्मरः, स्वविनियोजितनर्मकृतो जनान् । वनविहारपरानिव वीक्षितुं, नवकुले वकुले कुरुते स्थितिम् ॥ ३३ ॥ अहिलताऽऽकुलितेव वृषस्यया, विवसनाऽनिलधूतदलच्छलात् ।। इह विभाति रसेन वितन्वती, क्रमुककामुककामितवेष्टनम् ॥ ३४ ॥ अलिकुलध्वनिनूपुरनादया, सुरभिचन्दननिर्जितनन्दनः । गिरिरसावुपसृत्य निषेव्यते, कमलया मलयाद्रिनिवासया ॥ ३५ ॥ गिरिममुं सुकृताय निषेवते, जलरुहैबहुरूपतया विधुः । तदिह संगतिमृच्छतु तारकाभृतककेतककेलिविलोलता ॥ ३६॥ प्रियसखीव रतेरिह रागिणी, विरहिणां विपिने वरदाडिमी । हृतमनोरथपिण्डसमुद्भवत्फलकरालकरा प्रतिभासते ॥ ३७॥ हरशिरःस्थितिशर्म सुभोज्यते, किमिह लोध्रपरंपरया विधुः । न गतयाम्बरमध्यमधित्यकोल्लसितया सितयाऽधिगताधिकम् ॥ ३८॥ इह मही कतमा तटवर्जिता, क इव चास्ति तरुर्गहनोज्झितः। गहनमत्र च किन्नरसुभ्रुवाम् , न किल किं किलकिञ्चितराजितम् ॥ ३९॥ इह लसन्ति महौषधयः प्रभाविजितदीपकदीपनवाकुराः । दिनमिवोडमयंति निहत्य यास्तमसि तामसितामपि यामिनीम् ॥ ४०॥ विततकेतकरेणुविगुण्डितस्तपितपृष्ठविनिर्गतशीकरैः । गिरिरयं भजते बहुनिहरैर्मदकलो दकलोलगजोपमाम् ॥ ४१ ॥ लसदलक्तकरक्तसतीपदं, प्रणतशम्भुशिरःस्थकलोपमः । इह विधुर्भवति स्फुटधातुभृच्छिखरशेखरशो(षि)तदीधितिः ॥ ४२ ॥ दुरवगाहतरास्सरितो महाकविमुखादिव चारुवचःसुधा । द्रुतमितो निपतन्त्यनियत्रितप्रसरया सरया रसलीलया ॥४३॥ अधररागहृतिस्तनपीडनालकविलोलनशीत्कृतिकौतुकैः । इह सुखं लभते जलकेलिभिः, सरसिका रसिका न रतोद्भवम् ॥ ४४ ॥ इह लतागहनस्थमृगेक्षणा, मृगयुतोपगतस्य मनोभुवः । भवति काकुशतप्रमदो मदोद्धतकपोतकपोलजहुंकृतेः ॥४५॥ अविरतं प्रतिनादिनि गहरे, विफलितानुकृतध्वनितश्रमाः। अवितथेऽपि गजे परिगर्जति, प्रतिनदन्ति न दन्तिगणा इह ॥ ४६॥ निजरसेन लसन्ननिशं प्रियामुखसमर्पितभुक्तलताङ्कुरः । इह सुतीर्थणा(?)दभिभूयते, न हरिणा हरिणादिगणो गिरौ ॥४७॥ अपि तपखिकदम्बकमास्थितव्रतविशेषमशेषसुखाशया । इह जगजनपावनपापभिद्, गजपदेऽजपदेति जिनाभिधाम् ॥४८॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org