________________
नयविजयगणिप्रेषिता विज्ञप्तिका
१२१
पुण्याब्धिवृद्धिकरणोद्यतगौविलासः, स्फूर्जन्महाव्रतिशिरःस्थकलाप्रकाशः । दोषोदितप्रबलमोहतमोपहो वश्चन्द्रप्रभो दिशतु शर्म जिनाधिराजः ॥१५॥ श्रीमद्घनौघपुरसुन्दरबन्दिरेण, विश्वत्रयं प्रविजितं सुख(प)मामदेन । तत्सूचनाय रचिता किमु तत्र कीर्तिस्तम्भत्रयी जयति देवगृहत्रयीयम् ॥१६॥ रत्नत्रयी जयति मूर्तिमती घनाघचैत्यत्रयी ध्रुवमघौघविघातहेतुः । नित्यं द्विशोऽम्बुधिरपि स्खकरत्नशोभारेषाविशेषमतये ननु यामुपास्ते ॥ १७॥ सिद्धान्तपद्मनदसंभवधर्मशुद्धित्रिस्रोतसस्त्रय इव प्रथिताः प्रवाहाः । श्रीमद्घनौघपुरतीर्थकृतावतारास्तारास्त्रयः प्रवितरन्तु सुखं विहाराः ॥ १८॥ सौराष्ट्रदेशसुख(प)माशुचिकण्ठदेशे, मन्ये घनौघपुरमन्दिरमेव रम्यम् । चैत्यत्रयी लसति यत्र मिथोविशेषा, रेषात्रयी त्रिभुवनाधिकभाग्यचिह्नम् ॥ १९ ॥ श्रीमद्घनौघनगरे कलयत्यशल्यं, राज्यं सदा सुकृतभूर्व्यवहारभूपः । शक्तित्रयं प्रकटमस्य चकास्ति चारु चैत्यत्रयं प्रगुणितस्खविधेयलाभम् ॥ २० ॥ लेश्याः शुभा इह जनेषु लसन्ति तिस्रो, धर्तुं कदापि न पदं त्वशुभा लभन्ते । चैत्यत्रयी प्रगुणिता विधिना घनौघसद्धन्दिरे शुचिरुचिः किमिति प्रवक्तुम् ॥ २१॥ पुण्यार्जितोर्जितसुकीर्तिमहाविशेष, संसारभोगसुख(प)मादमनावरं वः । सिद्धाकृतिप्रकृतिरूपविभागभाजौ, पाश्वौं सुखं प्रददतां महसेनभूश्च ॥ २२ ॥ - द्रुताद्भुतम् । एताननन्तसुखसन्ततिदानदक्षानक्षामधामनिलयान् परिणामरम्यान् । आनन्दितामरवधूनयनालिले लावण्यपुण्यसुख(प)मामृतपानगात्रान् ॥ २३॥ विश्वत्रयीभविकतारणहेतुतीर्थस्तोमप्रवृत्तिविलसज्जयकेतुलीलान् । ब्रह्मप्रकाशपरिशीलितचित्तरोधप्रौढप्रबोधपरिबृंहितशुद्धशीलान् ॥ २४॥ तीर्थेश्वरान्निखिलनाकिनिकायनाथकोटीरहीरपरिचुम्बितपादपद्मान् । आननमानसमनोरथपूरणाय, वृन्दारकद्रुमसमानभिनम्य सम्यक् ॥ २५ ॥
॥ इति श्रीदेववर्णनम् ॥ [अथ नगरवर्णनम् -]
प्रददते सकलर्तुवनश्रियः, कुसुमहारविराजितवक्षसः ।। किमिह नीलनिचोलरुचिं दलैर्घनतमानतमालमहीरुहः ॥ २६॥ इह महाव्रतिनोऽपि मनःक्षणं, रतिमुपैति निरीक्ष्य वनश्रियम् । मधुसुहृज्जयदीपसमोलसन्मुकुलसंकुलसंभृतचम्पके ॥ २७॥ इह मदालसकोकिलकूजितानुचरपञ्चमनादघनादरा ।। खदयितेन तनोति रसोद्भवं, न सहका सहकारवने वधूः ॥ २८॥ सह सुरीभिरमर्त्यगणाः सरःकमलगन्धहरानिललालिताः । कुसुमतल्पगता इह शेरते, चिरतरं रतरङ्गकृतश्रमाः ॥ २९ ॥ न खलु चाटुकृतोऽप्यनुवल्लभान् , प्रगुणतां ययुरात्ममदेन याः।
विदधते रतिनर्ममनोभुवा, विधुरिता धुरिता इह वल्लभाः ॥ ३० ॥ वि. म.ले. १६
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org