________________
10
45
20
25
30
Jain Education International
तपागच्छाचार्यश्रीविजयप्रभसूरिं प्रति पं० नयविजयगणिप्रेषिता
विज्ञप्ति का
[६]
-
[ तत्रादौ देववर्णनम् - ]
स्वस्तिश्रियेऽस्तु विमलाद्रिरनन्ततीर्थयात्रातिशायि सुकृतातिशयप्रदाता । धर्मेण भीमभवकूपपतनानामालम्बितः किमु समुद्धरणाय हस्तः ॥ १ ॥ स्वस्तिश्रियं दिशतु तीर्थयुगं जनानां, श्रीनाभिनन्दनजिनेन कृतप्रतिष्ठम् । चक्रे शुचि प्रतिभयादवतारणेन यद्येन लोकयुगपावनहेतुरूपम् ॥ २ ॥ स्वस्तिश्रिये विमलगोत्रपवित्रनामतीर्थत्रयं भवतु मङ्गलकेलिधाम । स्फीतं यदस्ति नवखण्डसुजातरूपश्रीमद्ध नौघ पुरकान्तिभृता जिनेन ॥ ३ ॥ स्वस्तिश्रियं सृजतु तीर्थचतुष्टयं वः, सौराष्ट्रनीवृति जिनेन विपश्चित । अज्झाहरेण सुघनौघविलासिभाससिद्धाचले गजपदोल्लसिते स्थितेन ॥ ४ ॥ स्वस्तिश्रियं प्रददतीं भज पञ्चतीर्थीमेकात्मिकामिव चकार शिवोद्भवो याम् । अज्झाहरः सुवृषभो नवभागधेय विस्फूर्तिमूर्तिशुचिकीर्ति सुधाप्रवाही ॥ ५ ॥ स्वस्तिश्रियां दिनपतिर्नवपद्मिनीनां, पार्श्वप्रभुर्विजयतां नवखण्डनामा । यद्भूरिकीर्तिपरिपूरितलम्बमान, ब्रह्माण्डमण्डलकमण्डलुबिन्दुरिन्दुः ॥ ६ ॥ हंसीहराद्रिस्तियत्सुयशो मरालसङ्गादसूत विधुमण्डमिवाभ्रगङ्गा । एनं नमामि नवखण्डमखण्डवीर्यमाखण्डलप्रणतमुद्धितविश्वलोकम् ॥ ७ ॥ पार्श्वप्रभोस्तनुरुचो नतशक्रमौलीरत्नप्रभापटलपाटलिता जयन्ति । उद्यद्गभस्तिकिरणप्रकरप्रवेशप्रोद्भिन्ननीलनलिनच्छविबद्धसख्याः ॥ ८ ॥ निःशल्य सप्तभुवनाधिपतित्वसूचानूचान चारुपिहिताम्बरडम्बराभाः । स्फारा जगद्भयभिदो महतान्धकाराः, पार्श्वप्रभोः शिरसि सप्तफणा जयन्ति ॥ ९ ॥ यस्य प्रतापतपने स्फुरति प्रयान्ति, तेजांसि तारकदशां परदेवतानाम् । देवं कलावपि बलातिशयानपेतशोभाभिरामगुणधाम तमाश्रयामः ॥ १० ॥ आचम्य यं प्रकलयन्ति यदीयवाचः, खादं विदन्ति न सुधासु सुधाभुजस्तम् । पार्श्वः श्रिये स वसुधाधिपमौलिमाल्यसंसर्गभृङ्गमुखरीकृतपादपद्मः ॥ ११ ॥ आबद्धरङ्गसुर किन्नरभृङ्गपीतस्फीतप्रतीतगुणगौरवसौरभाढ्या ।
छायां तनोति भुवनत्रयेऽपि जीरापल्लीय पार्श्वजिननायककीर्तिवल्ली ॥ १२ ॥ पार्श्वश्चिरं जयतु यत्सुयशः पयोधौ फेनायतेऽखिलमपि ग्रहचक्रमुच्चैः । शैवालजालति नभस्यतमालनीलं, रत्नानि निर्जरगृहाणिव विद्रुमन्ति ॥ १३ ॥ धर्मामृतानि परिपिण्ड्य विनिर्मितैव, कल्पद्रुमाद्यधिकसारसमुच्चितैव । चान्द्रप्रभी सृजतु मूर्तिरगण्यपुण्यश्रेणीव मूर्तिकलिताकलितापभेदम् ॥ १४ ॥
For Private & Personal Use Only
www.jainelibrary.org