SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ राजविजयगणिप्रेषिता विज्ञप्तिका उपवासविधायिभ्यो वार्षिकोत्तमपर्वणः । श्रीफलान्यददातां च पुस्तकोत्सवकारिणौ ॥ ९२ ॥ सांवत्सरोपवासिन्यो मानिताः सर्वश्राविकाः । तामनाणकयुग्मैश्च मारवणीति श्राद्धया ॥ ९३ ॥ तध्वाऽपि च तैरेव समस्तास्तास्तथा कृताः । श्राविकाभ्यामदीयातां ताभ्यो द्वौ द्वौ सु मोदकौ ॥ ९४ ॥ ऊर्जाज्वलचतुर्दश्याः पोषधव्रतधारिणाम् । धारादेश्राद्धया दत्तं खंड सेरप्रमाणकम् ॥ ९५॥ शीलितं बहुभिः शीलं तपस्तप्तं च भूरिभिः । तत्रापि च विशेषोऽयमुदारस्तस्य दृश्यताम् ॥ ९६ ॥ मात्रा ऋषभदासस्यानुष्ठिताऽष्टाहिका तथा । व्यधादर्जुनदेश्राद्धी उपवासांश्च षोडशान् ॥ ९७ ॥ भाविता बहुभिर्लोकैर्भावनाशुद्धिरुत्तरा । इत्यं श्रेयोऽध्वसेनाभिस्तदमात्यः प्रसादितः ॥ ९८॥ अत्रत्यान् पर्वराजस्य सूदन्तान् सकलानिमान् । ज्ञात्वा ज्ञापयितव्याच तत्रत्या गणनायकैः ॥ ९९॥ श्रीमच्चरणपोपसे विनो गुणशालिनः । अनुवन्या मदीयेन नामा सकलसाधवः ॥१०॥ अस्मदीयाः समे शिष्याः प्रमोदेन चिराकषः । गुरुवाक्यानुगा नित्यं वन्दन्ते चरणौ प्रमोः ॥ १०१॥ सप्त-पर्श-नग-क्षोणीप्रमाणितेऽनुवत्सरे । सहोमासेऽलिखत् पत्रं बलक्षपंचमीदिने ॥ १०२॥ ॥ इति श्रेयः॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy