________________
आनन्दलेखप्रबन्धनामकविज्ञप्तिपत्रम् तैस्तैस्तपोभिर्बुवमात्मदर्शी जातोऽपि लोके जनदर्शनीयः । पृष्ठे मुखे चेत् सदृशोऽभविष्यत् तदा यदास्योपमतामयास्यत् ॥ १५४ ॥ मुखं सुखं तर्जितवद् यदीयं ततः परिच्छिन्नमृदुखभावम् । व्यग्रं समग्र ग्रसते शशाङ्क स सिंहिकाया वितनुस्तनूजः ॥ १५५ ॥ यदा शरत्पार्वणशर्वरीशं विधिविधत्ते घुसृणावलिप्तम् । तदा लभेतापि न वा लभेत सद्वन्द्ववस्तुप्रथनप्रतिष्ठाम् ॥ १५६ ॥ सूरः स शूरो बहुशो यदेष स्नेहेन सेहे ननु शाणपीडाम् । इन्दुर्जडोऽयं यदि तां सहेत तदा लभेतैव यदास्यदास्यम् ॥ १५७ ॥ निरूप्य रूपं रुचिचारु यस्य कामं निकामं कतमः स्तवीति । ततः स विश्वोपरि दूनचेताः सर्व शरैस्ताडयतीति मन्ये ॥ १५८॥ यशःप्रतापप्रसराभिभूतौ यस्य प्रशान्तोग्ररुचोऽयमेन्दू । एकक्षगौ मत्रयतः समानापमानदुःखौ ननु मासि मासि ॥ १५९ ॥ यत्प्रतापविजितोऽनलोऽविशद् युक्तमश्ममणिकाष्ठपतिषु । वाडवाग्निचपले किमकाष्र्टी जग्मतुर्जलधिवारिददस्यू ॥१६०॥ श्रेयोनिधानं च युगप्रधानोपमानमानन्दितभव्यलोकम् । न कः स्तुते यं जगदर्चनीयाभिधानमुद्दामगुणासमानम् ॥ १६१॥ चित्रं यदीये हृदये समस्तो माति स्म सिद्धान्तसरिद् विवोढा । अचिन्तनीया ऋषयोऽथवा किं नापीप्यदब्धि खमदादगस्त्यः ॥ १६२ ॥ यदीयगाम्भीर्यजितः स तोयनिधिय॑धात् तीरतरत्तणौषः । तृणं मुखे युक्तमिलाविलोठी पराजितानामियमेव रीतिः ॥ १६३ ॥ सुधां नगारिः कमलां मुरारिर्जहुः सुराश्चोत्तमधेनुमुख्यम् । शेषं गभीरत्वमपाहरद् यो मन्येऽम्बुधिस्तल्लवणावशेषः ॥ १६४ ॥ भवेद् गभीरत्वमथाम्बुधौ चेत् कथं मुधा गर्जति सारशून्यः । विचारसारं तत एतदेव येनैव जहेऽस्य गभीरभावः ॥ १६५॥ यदीयवाणी विजिताऽभिभूता स्पर्धा भवत्या न ममेति वक्तुम् । पातालमुत्तालगतिविवेश सुधा हि दिव्यं ननु कर्तुकामा ॥१६६ ॥ सुवर्णरूपाऽपि यदीयवाणी लौही कृपाणीव विषादवृक्षम् । समूलमुन्मूलयतीति चित्रं न कर्कशो वा कतमः स्वकृत्ये ॥ १६७ ॥ दधाति दिव्याय विधोः सुधाऽपि यद्वाक्यभीतायसमुष्णगोलम् । न मन्यसे चेदवलोकयोचं नादर्शकार्य करकङ्कणे स्यात् ॥ १६८॥ यद्गीर्जितोऽपीक्षुरदक्षचेता दधौ शिखां मूर्ध्नि वृथाभिमानात् । यत्रेषु निष्पीड्य ततोऽस्य सारमादीयते क्रुद्धतमेन धात्रा ॥ १६९ ॥ स्पर्द्धावतीं यद्वचसा सितां तां स्त्रीत्वादवध्यां स विधिर्विधिज्ञः । नित्यं शलाकाग्रविभिन्ननकां पुरे पुरे चारु करोत्यटन्तीम् ॥ १७० ॥ धियश्चतस्रो हृदये यदीये कीर्तिः श्रुता दिक्षु च तावतीषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org