SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 19 15 Z6 25 20 विज्ञप्तिलेखसंग्रह धर्मं चतुर्थोपदिशञ् जनानामहो 'सुचातुर्यमदो यदीयम् ॥ १७१ ॥ सिद्धान्ततत्त्वानि ततानि तानि स्थितानि हानिं लवतो लभन्ते । यस्मिन्नतः स्मेरतरा प्रसिद्धिर्युक्तं जगत्यां धुरि कोष्ठबुद्धेः ॥ १७२ ॥ जातेन येन प्रथिता बभूव श्री रोहनाम्नी नगरी वरेण्या । वैडूर्यरत्नेन विदूरभूमिहींराङ्कुरेणेव ' च रोहणाद्रिः ॥ १७३ ॥ श्रीवन्त वंशोऽधिगतप्रशंसः प्रदीपिकादण्डसुहृत् कथं नो । यच्छृङ्गसङ्गी भुवनप्रकाशमङ्गीकरोति प्रतिराट् प्रदीपः ॥ १७४॥ शृंगारदे यं तनयं प्रसूय रत्नप्रसूकीर्तिमधाद् वधूषु । यथेह रिक्ताखपि चारु मुक्ताशुक्तिर्यशः शुक्तिषु मौक्तिकानाम् ॥ १७५ ॥ प्राग्वाटवंशे हि पुटानि सप्त स्थाने यदीदृग् नररत्नपात्रम् । यक्षेन्द्रियेष्वणि पिधानगुप्तिः सर्वो हि रत्नस्य करोति यत्नम् ॥ १७६ ॥ औन्नत्यधैर्यादिसमग्रसारमादाय मेरुर्विजितः स येन । शृङ्गप्ररूढाङ्करभारदम्भात् तृणानि मूर्ध्ना वहते दरिद्रः ॥ १७७ ॥ +यस्योपदेशस्य रसान्निपीय माध्वीकमाधुर्यमदस्य जैत्रान् । जनाः स्वकर्णाञ्जलिभिः स तृष्णां छिन्दन्ति संसारतपर्त्तुपूर्तिम् ॥ १७८ ॥ सूरोऽपि दूरोज्झितपापतापः सोमोऽपि नो स्वीकृतदोष एव । समङ्गलोऽप्यङ्ग गतौ न वक्रो बुधोऽपि सौम्योऽपि न मित्रदस्युः ॥ १७९ ॥ गुरुः सुराणामपि नास्तिको नो न केकराक्षः कविरप्यनस्तः । शनैश्वरो नाप्यसितो न मन्दो यश्चातमाः सधृतिसैंहिकेयः ॥ १८० ॥ केतुं न के तुङ्गगुणं वदन्ति प्रमोद हेतूदयमप्यमन्दम् । एवं विरोधोपचितोऽपि नित्यं यश्चाविरोधी विदितो द्विधाऽपि ॥ १८९ ॥ यदतिशायिगुणान्निजचिन्दुभिर्गणयितुं भुवमेति नवाम्बुदः । शरदि याति पुनर्गतसङ्गरस्त्रिजगतीहसितो भसितोज्ज्वलः ॥ १८२ ॥ लसति यस्य रजोहरणं करे रजनिजानिकरोत्करसुन्दरम् । दतिया दयया प्रणयार्पितं विततकेलिसरोजमिवोज्ज्वलम् ॥ १८३ ॥ सकलजीवकृपालय ! पालय बहुलपक्षभयादभयाद्य माम् । मुखपटीमिषतः शशिनः कला इति वदन्ति नु यं श्रुतिसङ्गताः ॥ १८४ ॥ अथ शेषचित्रप्रक्रमः नाकपाड कुटका करतीरे सामला कडकडा जडपाडी । लोकपाटति सुखाटनसूतिर्यस्य कीर्त्तिरिह हंसवलक्षा ॥ १८५ ॥ सुष्टुभालतु हिनद्युतिभित्तं यस्य लुण्टति विचक्षणचित्तम् । यस्य कीर्त्तिसुरशैवलिनी च मां पवित्रयितुमुक्तमिहान्यत् ॥ १८६ ॥ यस्य नामपरमोत्तममन्त्रादनुते गुरु सुखं जनराजी । यस्य लोचनचमत्कृतिनुन्ना सप्रयासवनवासमुपास्ते ॥ १८७ ॥ (- भाषाचित्रम्) ( - गुप्त क्रियाकम् ) ( - गुप्तकर्तृकम् ) १ प्र० 'चातुर्यमाश्चयमदो' । २ "रेणापि च' । + प्रत्यन्तरे पद्यमिदमीदृशं लभ्यते - 'यस्योपदेशस्य रसानसाधुमाध्वीकमुत्सृज्य विवेकिलोकाः । निपीय कर्णाजलिभिः सतृष्णां" । ३ प्र० 'सोमोऽपि नो यः कुमुदं पिपर्त्ति' । ४ 'तातदस्युः' । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy