SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तिलेखसंग्रह सा नौरिवोदेति सभा सभार्यसभार्यसभ्या सुकृतकलभ्या ॥ १३८॥- षड्भिः कुलकम् । तत्र च - खाध्यायतः स्वायतिसुन्दरस्य व्यनज्मि 'जीवाभिगम'स्य सूत्रम् । अर्थापयामि प्रथितोत्तरादेनूनां प्रशस्तांध्ययनस्य वृत्तिम् ॥ १३९ ॥ श्रीशासनौन्नत्यविभावनानां प्रभावनानां भवनं कदाचित् । सानन्दमानन्दसमास्तिकानां नन्द्या अनिन्द्याश्च महामहौघाः ॥ १४०॥ शुद्धोपधानोद्वहनं प्रधानशिवोपधानप्रतिमं जनानाम् । अध्यापनं चान्तिषदां सुयोगक्रियाकृतिः शोधनबोधने च ॥ १४१॥ एवं च सर्वेष्वपि धर्मजेषु कार्येषु निष्पत्तिवधूवरेषु । क्रमागतं पर्व सुपर्वसेव्यं श्रीवार्षिकं पर्वशिरःकिरीटम् ॥ १४२ ॥ तत्रापि - दिनानि भानुप्रमितानि जन्तुजीवातुजीवाभयडिण्डिमश्च । तिलन्तुदानामथ मैनिकानां क्रियानिवृत्तिः सुकृतप्रवृत्तिः ॥ १४३॥ स्नात्राण्यमात्राणि जिनालयेषु पूजाः पुनः सप्तदशप्रकाराः । विहायितं गायनयाचकानां सद्भावनाभावननर्तनानि ॥ १४४ ॥ क्षणैः क्षणाढ्यैश्च निधानसङ्ख्यैरर्थापनं कल्पसुबोधिकायाः। विचित्रवादित्रपवित्रनृत्योत्सवेन तत्पुस्तकपूजनं च ॥ १४५॥ चतुर्थषष्ठाष्टमपञ्चकाष्टाहिकादिकानां तपसां विधानम् । क्रमेण चैत्यप्रणतिः सगीताविगीतसङ्गीतकयुग्महौषैः ॥ १४६ ॥ अखण्डखण्डापुटनालिकेरप्रभावना स्मेरतराऽऽब्दिकीह । कृता प्रतिक्रान्तिरनेकलोकैः साधर्मिकाणां क्षमणं मिथश्च ॥ १४७॥ 20 अनेकपक्वान्नसुपाकशाकघृतामृतस्यन्दिदलैः सफेनैः। पयःप्लुताभिः पृथुकप्रथाभिर्विशालशालिस्फुटदालिभिश्च ॥१४८॥ ततः परं गौरससारकरैस्ताम्बूलदानैर्बहुमानपूर्वम् । सधर्मणां वेश्मसु भोजनानि स्त्रैणस्य पौंस्नस्य च नैकवारम् ॥१४९॥ महामहैरेवमनेकधर्मकर्मप्रथाशालिभिरारुरोह । संसिद्धिशालाशिखरं सुखेन तदृद्धमप्यद्भुतमेतदत्र ॥ १५० ॥ सम्प्रत्यपि प्रीतिकराणि धर्मकर्माण्यविनान्युपयन्ति सिद्धिम् । सर्वत्र तत्रोत्तमपूज्यपूज्यपादप्रसादोदय एव हेतुः ॥१५१॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्याय - श्रीविनयविजयगणिना भट्टारकश्री ५ श्रीविजयाणन्दसूरीश्वराख्यश्रीपरमगुरूणां प्राभृतीकृते आनन्दलेखनाम्नि लेखप्रबन्धे उदन्तव्यावर्णनस्वरूपोऽनुप्रासचमत्कारनामा तृतीयोऽधिकारः । -॥ शेषचित्रचमत्कारनामा चतुर्थोऽधिकारः ॥~ अथ श्रीपरमगुरुगच्छाधिराजवर्णनम् - रूपं यदीयं मदनोऽनुकतुं हराक्षिवह्नौ स्वतनुं जुहाव । अनङ्गतां प्रत्युत सोऽथ लेभे नाभाग्यभाजः फलिनोऽभियोगः ॥ १५२ ॥ ज्ञातं कुजातं बत पुण्डरीकमिन्दुः कलङ्केन मलीमसश्च । स चात्मदर्शाभसितानुषङ्गी केनोपमानं लभतां यदास्यम् ? ॥ १५३ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003412
Book TitleVignapti Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1960
Total Pages238
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy