________________
आनन्दलेखप्रबन्धनामकविज्ञप्तिपत्रम्
नितान्तमन्तःकरणं जनानां प्रसाधयत्यध्वनि खेदितानाम् ॥ १२३ ॥ श्रीहीरसूरीशवचोऽतिरक्ताः सुश्रावका यत्र वसन्ति' भक्ताः । दानप्रधानाः श्रुतिसावधानाः सम्यक्त्वरत्नं विशदं दधानाः ॥ १२४ ॥ यत्रास्तिकानां हृदयालवाले धर्मद्रुमः पुष्यति पुष्पमाली । समृद्धयः समनि तत्फलानि पुष्पाणि नानाभरणानि देहे ॥ १२५ ॥ किं वर्णयामश्च गुणान् यदीयान् श्रीपूज्यपादैरनुभूतपूर्वान् । वस्तुष्वदृष्टेषु हि वर्णनं स्यात् प्रायश्चमत्कारकरं कवीनाम् ॥ १२६ ॥ तथापि दिङ्मात्रमुदाहरामः फलं कवित्वस्य मुदा हरामः। ऋते कवित्वादफलं वहेमः प्राज्ञत्वमेतत् तु यदाह हेमः ॥ १२७॥
तथा च श्रीहेमसूरिपूज्यपादाः'वक्तृत्वं च कवित्वं च विद्वत्तायाः फलं विदुः । शब्दज्ञानाहते तन्न द्वयमप्युपपद्यते ॥'
॥ इति वारेजापुरवर्णनम् ॥ ततः पुराद् द्वारपुराभिधानाद् द्वारोपमाद् द्रंगपरीसरस्य । सानन्दमुल्लासपयोदवृष्टिप्रोद्भूतरोमाञ्चमनोरमाङ्गः ॥ १२८ ॥ उत्कण्ठया प्रस्फुटया पटीयान् हर्षाश्रुनीरप्लुतनेत्रपत्रः । पवित्रगात्रः पृथुभक्तिभिश्च विनम्रमौलिर्विनयोदयेन ॥ १२९ ॥ ललाटपीठीघटिताञ्जलीकत्रिधा विशुद्धिक्षमितव्यलीकः । औत्सुक्यतो विस्मृतशेषकृत्यः सदाश्रवः श्रीगुरुनित्यभक्तः ॥१३० ॥ अनादृतावाससुदर्शनाख्यासंख्यामिताऽऽवर्तकवन्दनेन ।
प्रणम्य सम्यग् विनयो विनेयो विज्ञप्तिपत्रं वितनोति भक्त्या ॥१३१॥- चतुर्भिः कलापकम् । 20 यथा कृत्यं चात्र - मार्तण्डभूपागमनोत्सवेऽभ्रपथं तदग्रेसरवैनतेयः ।
चक्रेतमःपङ्कमपास्ततारापाषाणखण्डं 'शुचिकुङ्कुमाक्तम् ॥ १३२॥ आच्छाद्य गम्भीरतमोऽम्बरेण निजं प्रसुप्तेषु जगत्सु नेता । अर्कः करैः कर्कशकर्कराभैः प्राबोधयत् स्वस्खनियोगहेतोः ॥ १३३ ॥ जगत् तमः श्यामलयत्यगौरं रक्तश्च रक्तं कुरुते पतङ्गः । यो यादृशः स्यादपरं स्वसङ्गात् स तादृशं वै न चिरात् करोति ॥ १३४ ॥ सद्वृत्तताभङ्गमनीयुषां यः कष्टप्रसङ्गो न चिरं हि तिष्ठेत् ।
इतीव वक्तुं पुनरारुरोह पूर्वाद्रिसिंहासनमंशुमाली ॥ १३५ ॥ अथ वा-जगन्त्युपद्र्य कुतः प्रणष्टं तमः क्व ताराः शशिनः सहासाः।
इतीव पूर्वादिशिरोऽधिरुह्य प्रद्योतनः पश्यति कोपताम्रः ॥१३६ ॥ ध्वस्ताः समस्ता रिपवस्तमांसि क्षुण्णानि सूरेण किलैककेन । गुणानुरागादिति दिग्मृगाक्ष्यः क्षिपन्ति बालातपकुङ्कुमानि ॥ १३७ ॥
तत्र प्रतिप्रातरुदीतभानौ भानौ सुराधीशदिगद्रिसानौ । ५ प्र. "त्यध्वचितश्रमाणाम्। २ प्र० 'मुनीशभक्ताः'। ३ प्र. 'नित्यभृत्यः'। ४ प्र० 'कृत्यं यथार्कागमनोत्सवेऽत्र' । ५ प्र. पाषाणखण्डानपि कुङ्कुमाक्तम्। ६ प्रसङ्गोऽपि चिरं न'। ७ दिशोऽद्रि सानौ' ।
वि०म०ले. ११
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org