________________
८.०
Jain Education International
विज्ञप्तिलेखसंग्रह
॥ उदन्तव्यावर्णननामा तृतीयोऽधिकारः ॥
॥ अथोदन्तप्रक्रमः ॥
सरोवरं यत्र मरुत्तरङ्गोच्छलत्तरङ्गोत्तरलं समन्तात् 1 अमुद्रमानेन समुद्रमानं समुद्रमानन्दि जिगीषु नूनम् ॥ १०८ ॥ महातटाकः कुतुकं दिदृक्षुर्वृत्या पुरान्तः प्रविशन् निषिद्धः । अद्यापि जाने स्थितयोस्तथैव तयोर्विवादस्तदवस्थ एव ॥ १०९ ॥ तटाक- वृत्योर्भवतीह युद्धं तथ्यं तदेतत् कथमन्यथेत्थम् । वणिक् स नष्टो निकटाट्टवासी युक्ता स्थितिर्नो कलहे ममेति ॥ ११० ॥ एकः सरस्तीरजलानुषङ्गी नमन्निदं तालतरुः किमाह । मा प्लावयास्मास्तव सेवकाः स्म सर्वैः सगोत्रैरहमाहितोऽस्मि ॥ १११ ॥ अथ वा - दृष्ट्वा सरोवारिभिराहृतस्य मध्यस्थबब्बूलतरोः स्वरूपम् । तीरस्थतत्काष्ठमिषान्ममार त्रातुं सगोत्रानिव ताल एकः ॥ ११२ ॥ सरोजले सर्पति यत्र दर्पातिरेकतो नापससार वापी | उलोलकल्लोलभृतोदरी सा मग्ना बभूवैव कथावशेषा ॥ ११३ ॥ अथ वा - मध्ये ब्रुडन्ती सरसोऽप्सु वापी करेण भो ! मामवतेति वक्ति । पार्श्वस्थिताकण्ठनिमग्नमूलबब्बूलचूलाचलनच्छलेन ॥ ११४ ॥ वृतिर्यदीयाभ्रगतुङ्गशृङ्गा शृङ्गारितानेकलताप्रसूनैः । हरिन्मणित्रात विनिर्मितेवाऽन्तरान्तरारैर चनाविचित्रा ॥ ११५ ॥ शिरस्तिरः कम्पयतीव मानाद् यदा वृतिर्वायुधुतिच्छलेन । वप्रस्य सौन्दर्यमहो मदग्रे सत्या जनोक्तिः कपिशीर्षशालि ॥ ११६ ॥ यदा वृतौ द्राग् नियतासु कालकलासु पुष्पाणि विकासभाञ्जि । घनाभ्रकालेऽपि दिनावशेषं शंसंति यत्नाहितयत्रयुक्त्या ॥ ११७ ॥ वृत्याऽऽवृतं संस्कृतिचातुरीतं गोरूपयुक्तं दधिशब्दशालि । सूत्राञ्चितं वर्णविभक्तिहारि यकत् पुरं व्याकरणानुकारि ॥ ११८ ॥ चतुष्टयी यत्र जिनालयानां हिमालयानामिव मालयानाम् । विभज्य दत्ता निलया जिनेन वादे नु धर्मस्य चतुर्विधस्य ॥ ११९ ॥ राज्ञो गृहे स्यान्महिषी किलैका गृहे गृहे ता इह सन्ति बह्वयः । जनैः समस्तैरभयैरुपेतं द्विधा ततो राजगृहाधिकं यत् ॥ १२० ॥ प्रतिप्रभातं पृथुगोरसानां विलोलनोद्भूतनिनादवादैः । निद्राविमोक्षो भवतीश्वराणां तथा गवां भाङ्कृतिगीतनादैः ॥ १२१ ॥ गृहे गृहे यत्र च कामगव्यो गृहे गृहे यत्र पयःसुधाश्च । हरीश्वराणां गणना न यत्र कथं न नाकादतिरिच्यते तत् ? ॥ १२२ ॥ उत्ताल हिन्तालतमालतालरसालसाला वलिशालितान्तम् ।
For Private & Personal Use Only
www.jainelibrary.org