________________
आनन्दलेखप्रबन्धनामकविज्ञप्तिपत्रम् क्षणक्षणे यत्र सभा विभाति विभातिसम्पन्नमहेभ्यसभ्या। कल्पद्रुमाणां पटलीव पुष्पफलोज्ज्वलाऽऽमोदमयी वदान्या' ॥ ९४ ॥ गुरुक्रमाब्जोपनमन्महेभ्यकुमारकोटीरमणिप्रभाभिः । अकृत्रिमा चित्रिततोरणस्रक् चित्रीयते कस्य मनो न यत्र ? ॥ ९५॥ यत्रार्यलोकान् विलसद्विवेकान् सुरासुराकम्पितधर्मबुद्धीन् । निरीक्ष्य मन्ये बहुमन्यमाना न नाकिनः मां चरणैः स्पृशन्ति ॥ ९६॥ उपासिका यत्र पवित्रगात्रा लसच्चरित्रा विशदागमज्ञाः। सुरूपशीलोन्नतिभङ्गकस्थाः शेषां त्रिभङ्गीमपहस्तयन्ति ॥ ९७ ॥ नानाविभूषाकुसुमावदाताः कौसुम्भवासः किशलालिरम्याः। दानप्रधानाः करचारुशाखाः स्वर्वलितुल्याः किल यत्र नार्यः॥ ९८॥ अस्मन्मुखनिजित एष चन्द्रो लज्जाजडो यास्यति कुत्र रङ्कः। इतीव चेलान्तरितास्यपद्माः पद्मोपमा यत्र वसन्ति वध्वः ॥ ९९ ।। यत्राङ्गनाः काञ्चनभङ्गगौर्यः स्नेहोद्धता मन्दिरदीप्तिदक्षाः। पतत्पतङ्गायितकामिनेत्राः कलामधुर्पकदीपिकानाम् ॥ १० ॥ अधर्म एको नगरे गरीयानस्मिन् सदा धर्मधुरन्धरेऽपि । पतन्ति यदक्षमृगेक्षणानां कटाक्षकुन्तैर्निहता युवानः ॥१०१॥ यत्रेभ्यगेहेषु चलापि लक्ष्मीः श्रेयोमहाशृङ्खलजालबद्धा । गन्तुं न शक्ता सितमर्कटीवालिन्देष्वटन्ती प्रकृतिं पिपर्ति ॥ १०२ ॥
॥ इति स्त्रीपुंसवर्णनम् ॥ प्रथीयसी यत्र महाट्टवीथी निशीथिनीमप्यतिथीभवन्ती । तमोमयीं दीपकपतिद्वीप्रज्योतिर्मिपात्' कान्तिमयीं करोति ॥ १०३॥ यत्रापणाली विधवां निशां यद् व्यभूषयद् दीप्रमणिप्रभाभिः ।
परोपकारप्रवणाङ्गिसङ्गादहो सुसंसर्गगुणो गरीयान् ॥ १०४ ॥ अथ वा- यत्रापणश्रेणिषु दीपतेजः शशाङ्ककान्ताऽतितमामुपास्ते । चिरन्तनं तजडकान्तसङ्गाजातं जडत्वं किमपाचिकीर्षु ॥ १०५ ॥
॥ इति चतुष्पथवर्णनम् ॥ यत्रोरुधर्मोत्सवतूर्यनादकोलाहलै रथ्यतुरङ्गमाणाम् । सत्रासविद् गच्छति दक्षिणेन रविः पुरीं यामथवोत्तरेण ॥ १०६॥ तत्रेदृशि श्रीमति सर्वशत्रुवित्रासिभूमीश्वरशासितायाम् ।
विष्वङ् नभोमण्डलचुम्बिलुम्बिलताम्रवत्यां पुरि ताम्रवत्याम् ॥ १०७ ॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्याय-श्रीविनयविजयगणिना भट्टारकश्रीविजयाणन्द्सूरीश्वराख्यश्रीपरमगुरूणां प्राभृतीकृते आनन्दलेखनानि लेखप्रबन्धे 'श्रीमति तत्रे'त्यवयवव्यावर्णनरूपोऽलङ्कारचमत्कारनामा द्वितीयोऽधिकारः ।
१५० 'मञ्जलपर्णपूर्णा'। २ प्र. 'वरन्ति'। ३ प्र. 'पुण्यपरायणेऽपि'। ४ प्र. 'दलिताः' । ५५०'दीपकदीप्रपतिज्योतिर्मयी'।६प्रदीपमणि'। ७ प्र. 'सदोप'। ८प्र. 'सङ्गजातं' ।
Jain Education Intemational
ducation Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org