________________
अथ प्रशस्तिः ।
राजन्वतीं श्रीजिनराजिसन्ततिं कुर्वत्सु शश्वजिनचन्द्रसूरिषु । सूरीकृतश्रीजिनसिंहसूरिषु युगप्रधानेषु महोगभस्तिषु ॥ १॥ खरतरगणपाथोराशिवृद्धौ मृगाङ्का,
यवनपतिसभायां ख्यापितार्हन्मताज्ञाः । प्रहतकुमतिदर्पाः पाठकाः साधुकीर्ति
प्रवरसदभिधाना वादिसिंहा जयन्तु ॥ २ ॥ तेषां शास्त्रसहस्रसारविदुषां शिष्येण शिक्षाभृता __ भक्तिस्थेन हि साधुसुन्दर इति प्रख्यातनाम्ना मया । ग्रन्थोऽयं विहितः कवीश्वरवचोबुद्धयोक्तिरत्नाकरः
स्वान्यानां हितहेतवे बुधजनैर्मान्यश्चिरं नन्दतु ॥ ३ ॥ ॥ इति पं० साधुसुन्दरगणिविरचित उक्तिरत्नाकरग्रन्थः सम्पूर्णः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org