________________
नन्दोपाख्यानम्
शुक उवाच। राजंस्त्वं शृणु मे वाक्यं शीर्ष नास्ति तवाधिकम् । जानकीहरणे चैव दशग्रीवो निपातितः ॥ १६ ॥
राजोवाच । यस्मिन् रुष्टे भयं नास्ति तुष्टे नैव धनागमः । निग्रहानुग्रहो नास्ति स रुष्टः किं करिष्यति ॥ १७ ॥
शुक उवाच । न श्रुतं न मया दृष्टं वाटी भक्षति कर्कटीम् । तं देशं नैव पश्यामि रक्षको यत्र भक्षकः ॥ १८ ॥ माता यदि विषं दद्यात् पिता विक्रयते सुतम् । राजा हरति सर्वस्वं का तत्र परिदेवना ॥ १९ ॥ मा क्रन्द त्वं तु हे सारि ! नन्दो राजा न तस्करः। अमृतं तद् विषं जातं यतो रक्षा ततो भयम् ॥२०॥ पुत्रगेहे पिता यत् ते आदरं किं न कुर्वसे । भृत्यानां पितरं भूपं वदन्ति विबुधा जनाः ।। २१ ॥ राजा च जनकश्चैव वृद्धभ्राता गुरुस्तथा । उपदेष्टा भयत्राता षडेते पितरः स्मृताः ॥२२॥
. सुन्दर्युवाच । अथ मे सफलं जन्म जीवितं च सुजीवितम् । मनोरथशतं पूर्ण श्वसुरो गृहमागतः ॥ २३ ॥
राजोवाच । अपरीक्षितं न कर्तव्यं धीमतापि कदाचन । परजन्मकृतात् पापाद् अहं चैव विमोहितः ॥ २४ ॥ सत्यं कीर ! त्वया ख्यातं मम पुत्रो विरोचनः । सुन्दरीयं कुलवधूरेवं मत्वा बहिर्गतः॥२५॥ यदा बहिर्गतो राजा सुखं सुप्ता च सुन्दरी । शुकसायौँ समालापं कुरुतश्च परस्परम् ॥ २६ ॥ राजा गतो बहिर्यत्र दृती वचनमब्रवीत् । सिद्धे कार्ये महाराज ! देहि मे कर्णकुण्डलम् ॥ २७ ॥