________________
नन्दोपाख्यानम् राजोवाच । साधु साधु पुरोहित ! येनकेनाप्युपायेन सा स्त्री मया समं क्रीडाविलासं करोति तथा कुरु । एवं श्रुत्वा तदा राजा स्वगृहं प्रतिनिवृत्तः । विप्रोऽपि निजमन्दिरं गतः।
विप्रेण कारिता दृती त्वं याहि मन्त्रिमन्दिरम् ।
वैरोचनस्य या भार्या राज्ञोऽर्थे तां नियोजय ॥ ११ ॥ दूतिकोवाच । अतीव सुन्दरम् । एवं करिष्यामि । ततो निष्क्रान्ता दूती । वैरोचनगृहे गता यत्रास्ति सुरसुन्दरी । दूतीं दृष्ट्वा सुन्दरी वाक्यमुवाच । हे सखि ! किमर्थमागतासि त्वम् । तयोक्तं सखित्वेन । तदा दृतिकया गृहमध्ये वैरोचन उपविष्टो दृष्टः । तदा वेगेन निवृत्ता गता यत्र पुरोहितोऽस्ति । तया दूत्योक्तम् । हे स्वामिन् ! वैरोचनो गृहमध्ये विद्यते । यत् त्वं एन मन्त्रिणं उपायं कृत्वा ग्रामान्तरं प्रेषय । वैरोचने गते सति राजानमहं गृहीत्वा सुन्दरीभवने यास्यामीति। विप्रेणोक्तं सत्यम्। तदा पुरोहितो राज्ञः समीपं गतः । राज्ञोऽग्रे सर्व वृत्तान्तं निवेदितम् । तदा राज्ञा मन्त्री वैरोचन आकारितः । तदा मन्त्री वेगेनागतः । राज्ञोक्तम् । हे वैरोचन ! सीमासन्नै राजभिरात्मीयो विषयो विनाशितः शृणुमः । तेषां निवारणाय सैन्यं गृहीत्वा याहि । मन्त्र्युवाच। यास्यामि। प्रणम्य निष्क्रान्तो मन्त्री। तदा राज्ञा आकारिता दूती। कुण्डलमेकं तवार्पयिष्यामि । तया सह मम संयोगं कुरु । तयोक्तम् । एवं करिष्यामि । तदा राजा दूती च द्वौ सुन्दरीसदने गतौ। दतिका द्वारे स्थिता । राजा तत्र मध्ये गतः। तदा सारिकाशुकाभ्यां राजा दृष्टः । शुकेनोक्तम् ।
भूपते नन्दराजेन्द्र ! तवाछी प्रणमाम्यहम् । .. वैरोचनः प्रेषितोऽसौ किमर्थं विषयान्तरे ॥ १२ ॥
राजोवाच । वासरेषु क्षुधा नास्ति नास्ति निद्रा च रात्रिषु । मम कीर! महादुःखं हृदये वसति सुन्दरी ॥१३॥
शुक उवाच । स्त्रियो ह्यर्थे हतो वालिः स्त्रियोऽर्थे रावणो हतः । परगृहे न गन्तव्यं परदारान् परित्यजेत् ॥ १४ ॥
राजोवाच । कीर पण्डित वाचाल ! जनमध्येऽसि वल्लभः। परचिन्ता न कर्तव्या परनिन्दां परित्यजेत् ॥१५॥