SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ कर्णामृतपा पराभूतैरेभिः किमिह बहिरङ्गैः परिजनैः परद्रोहादहः पविरुपरि येषां पिपतिषुः । तदेतज्जेतव्यं जितसितमयूखैर्मृगदृशां मुखैराविर्भूतैर्भवदवशमाशु स्वहृदयम् ॥ १५१ ॥ नगोपान्ते कान्ते कचिदपि निकुञ्जे श्रुतिजपैरुपेन्द्रध्यानैर्वा सकलमपि कालं गमयतः । हिमाकारं हारि त्रिदशतटिनीवारि पिबतः कदा कन्दैर्वृत्तिर्मम शमरतेरीश ! भविता ॥ १५२ ॥ हे पुत्राः ! परिपात मातरमिमां गेहादिसर्व हि वः स्वं स्वं गच्छत पुत्रिकाः पतिगृहं शीलं च मा मुञ्चत । आपृच्छे सुहृदः प्रमोदसदनं भूयास्थ यूयं सदा यस्मादस्मि समुत्सुकः शुकमुनिकान्ते पथि क्रीडितुम् ॥ १५३॥ कृता कल्पश्चिन्तामणिभिरिव कल्पद्रुमवने करोमीव क्रीडां सुरसुरभिवृन्दैर्वृत इव । यतः शान्ताऽसौ मे कृपणनृपतिभ्योऽर्थकणिका कदाऽऽशा दाशार्ह ! त्वदधिगमनाधीनमनसः ॥ १५४ ॥ किमाख्यामस्तेषामविषयमनोभिः स भगवान् स्वजन्मा यैर्जन्मावधिवदेकः प्रणिहितः । नमस्यः सोऽपि स्यान्निवसति जराजर्जरवयाः प्रयागप्रत्यन्तप्रसृतसलिलायां सरिति यः ॥ १५५ ॥ wwwwww अर्थार्थिभिर्गुरुगृहे प्रथमं वयस्तदर्थार्थिभिर्नृपगृहे गमितं द्वितीयम् । मोक्षार्थिनः पुनरिदं त्रिदिवस्रवन्त्या स्तीर तृतीयमतिवाहयितुं व्रजामः ॥ १५६ ॥ यस्मादेते विषयाः कर्त्तारं तापयन्ति नरमन्ते । तेनैतेषु विषेष्विव विदुषां हृदयानि न रमन्ते ॥ १५७ ॥ हारेण हृदयस्थेन सौधे वित्तवतां न तत् । हरेण यत् सुखं नाम वने वल्कलवाससाम् ॥ १५८ ॥ Jain Education International १९ For Private & Personal Use Only www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy