SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ठक्कुरसोमेश्वरदेवविरचिता किं कुर्वतामहह किं शरणं श्रयन्ता माख्यान्तु कस्य पशवस्त इमे वराकाः। येषां सुराश्च पितरश्च नराश्च हिंस्र जीवाश्च मांसमुपभोक्तुमुपक्रमन्ते ॥ १४३ ॥ प्रकटयति हृदयदाहं पुरुषः प्रायेण सज्जने मिलिते। ग्रावा दग्धः सलिले पतिते पुनरुद्वमत्यग्निम् ॥ १४४ ॥ ... चिन्ताभल्ली दधदुःखां विधिव्याधाहृतां हृदि । दरिद्रहरिणः शून्यो भ्रमत्याशाश्च वीक्षते ॥ १४५॥ ११. अथ शमः। ऐक ते दिवसा रसान्धहृदयैः सश्रद्धमाकर्णिता न्यस्माभिर्मधुमत्तवारवनितागीतानि यत्रादरात् । एते यान्ति पुनः पुराणपुरुषध्यानकतानात्मना मस्माकं मधुराक्षरक्रमशुकव्याहारकौतूहलैः ॥ १४६ ॥ इयद्भिरपि जन्मभिर्न भवता क्षणं शिक्षितं तदीश ! विनिमज्यते वृजिनसागरे दुस्तरे । प्रबुद्धमधुना मया यदयमाश्रितः श्रीपति स्तदुच्छिदुपदेशने स हि गुरुस्त्रिलोकीगुरुः॥१४७॥ प्रपश्चः पश्चेषोः स परिचरितः किश्च वपुषः परिज्ञातं तत्त्वं द्रविणपरिणामोऽपि पठितः। चरित्रं मित्राणामवगतमतः सांप्रतमहो! महादेवादीहे तदमृतमनास्वादितरसम् ॥ १४८ ॥ नमस्तुभ्यं चेतो भव ! सुभगभावोऽसि तदपि त्वदीयादासङ्गादुपरतमिदं हन्त ! हृदयम् । प्रयागे गङ्गाम्भाप्लवनमनवद्येन पयसा प्रभासे वा सेवामभिलषति शम्भोर्भगवतः॥ १४९ ॥ सरखत्यां लानं शिरसि हरशेषा सुमनसः प्रसन्ना हृद्धृत्तिः शतपथकथाऽऽकर्णनरसः। मुनीनामाराध्या परिषदरिषड्वर्गजयिनी .... विना पुण्येनैषा न भवति मनीषा तनुभृताम् ॥ १५० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy