________________
प्रतिभामूर्ति सिद्धसेन दिवाकर [१९ सर्वद्वारा निभृत (ता) मृत्युपाशैः स्वयंप्रभानेकसहस्रपर्वा । यस्यां वेदाः शेरते यज्ञगर्भाः सैषा गुहा गूहते सर्वमेतत् ॥ ५॥ भावाभावी निःस्वतत्वो [वितत्त्वो] नीरंजनो [रंजनो] यः प्रकारः । गुणात्मको निर्गुणो निष्प्रभावो विश्वेश्वरः सर्वमयो न सर्वः ॥ ६॥ सृष्ट्वा सृष्ट्वा स्वयमेवोपभुक्ते सर्वश्चायं भूतसो यतश्च ।। न चास्यान्यत्कारणं सर्गसिद्धौ न चात्मानं सृजते नापि चान्यान् ॥ ७॥ निरिन्द्रियचक्षुषा वेत्ति शब्दान् श्रोत्रेण रूपं जिघ्रति जिह्वया च । पादैर्ब्रवीति शिरसा याति तिष्ठन् सर्वेण सर्व कुरुते मन्यते च ॥ ८॥ शब्दातीतः कथ्यते वावदूकैर्ज्ञानातीतो ज्ञायते ज्ञानवद्भिः। बन्धातीतो बध्यते केशपाशैर्मोक्षातीतो, मुच्यते निर्विकल्पः ॥९॥ नायं ब्रह्मा न कपर्दी न विष्णुब्रह्मा चायं शंकरश्चाच्युतश्च ।। अस्मिन् मूढाः प्रतिमाः कल्पयन्तो (न्ते) ज्ञानश्वायं न च भूयो नमोऽस्ति । आपो वह्निर्मातरिश्वा हुताशः सत्यं मिथ्या वसुधा मेघयानम् । ब्रह्मा कीटः शंकरस्तार्क्ष (य) केतुः सर्वः सर्व सर्वथा सर्वतोऽयम् ॥११॥ स एवायं निभृता येन सत्त्वाः शश्वदुःखं दुःखमेवापि यन्ति । स एवायमृषयो यं विदित्वा व्यतीत्य नाकममृतं स्वादयन्ति ॥ १२ ॥ विधाविद्ये यत्र नो संभवेते यन्नासन्नं नो दवीयो न गम्यम् । यस्मिन्मृत्युर्नेहते नोतुकामा (कामः) स सोऽक्षरः परमं ब्रह्मवेद्यम् ॥ १३ ॥ ओतप्रोताः पशवो येन सर्वे ओतप्रोतः पशुभिश्चैष सर्वैः । सर्वे चेमे पशवस्तस्य होम्यं तेषां चायमीश्वरः संवरेण्यः ॥१४॥ तस्यैवैता रश्मयः कामधेनोर्याः पाप्मानमदुहानाः क्षरन्ति । येनाध्यातः पंच जनाः स्वपन्ति [प्रोद्बुद्धास्ते ] स्वं परिवर्तमानाः ॥ १५ ॥ तमेवाश्वत्थमृषयो वामनन्ति हिरण्मयं व्यस्तसहस्रशीर्षम् । मनःशयं शतशाखप्रशाखं यस्मिन् बीजं विश्वमोतं प्रजानाम् ॥ १६॥ संगीयतेऽधीयते चाध्वरेषु मन्त्रान्तरात्मा ऋग्यजुःसामशाखः । अधःशयो विततांगो गुहाध्यक्षः स विश्वयोनिः पुरुषो नैकवर्णः ॥ ७ ॥ तेनैवैतद्विततं ब्रह्मजालं दुराचरं दृष्ट्युपसर्गपाशम् । अस्मिन्मना माननामानशल्यैर्विवेष्यन्ते पशवो जायमानाः ॥ १८॥ अयमेवान्तश्चरति देवतानामस्मिन् देवा अधिविश्वे निषेदुः । अयमुद्दण्डः प्राणभुक् प्रेतयानरेष त्रिधा बद्धो वृषभो रोरवीति ॥ १९॥ अपां गर्भः सविता वह्निरेष हिरण्मयश्चान्तरात्मानसो देवमानः । एतेन स्तंभिता सुभगा द्यौर्नभश्च गुर्वी चोवी सप्त च भीमयादसः ॥२०॥ मनः सोमः सविता चक्षुरस्य प्राणो मुखमस्याद्यपिवं दिशः । श्रोत्रनाभिरंध्राभादयानं पादाविलाः सुरसाः सर्वमाप ॥ २१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org