________________
७४
मनिकर्मचन्द्रवंशावलीप्रबन्ध ।
[४६६-४७३ नन्दीमहोत्सवं द्रष्टुं समायातानुपासकान् । आबालवृद्धलोकं च याचकानपि कामिताम् ॥ ४६६ सर्वेषामपि सौवर्णमुद्रां दातुमना अपि । रौप्यमुव माङ्गल्यहेतुरित्युदितो जनैः॥ ४६७ कश्मीरजमिलच्चारुचन्दनाम्बुच्छटाद्भुतम् ।
रौप्यनाणकदानेन मानयामास मन्त्रवित् ॥ ४६८ - त्रिभिर्विशेषकम् । व्याख्या-मन्त्रवित् मन्त्रमालोचं वेत्तीति मन्त्रविन् मन्त्री श्रीकर्मचन्द्रः, नन्दीमहोत्सवं द्रष्टुं वीक्षितुं समायातान् समेतान्, उपासकान् श्राद्धान् ; च पुनराबालवृद्धलोकं बालवृद्धलोकान् , आ अभिव्याप्य आबालवृद्धलोकम् ; अपिशब्दः समुच्चये, याचकान् बनीपकान्, कामिताममीष्टाम् , सर्वेषामपि सौवर्णमुद्रां दातुमना अपि दित्सुरपि, रौप्यमुदैव माङ्गल्यहेतुर्मङ्गलत्व" कारणमिति जनरुदित उक्तः सन् , कश्मीरजेन घुसृणद्रवेण मिलन्ती श्लिष्यन्ती चार्वी मनोहरा या चन्दनाम्बुच्छटा ताभिरद्भुतमाश्चर्यकारि यथा स्यात्तथा, रौप्यनाणकदानेन, मानयामास मानयति स्म अपूपुजत् । मानण पूजायाम् । 'मङ्गलं तु प्रशस्ते स्यात्' भावे ष्यङि मानत्यम् ॥ ४६६-४६८
जैनयाचकभूपीठकीर्तिक्षीराब्धिवृद्धये ।
तदा प्रसारयामास चन्द्रः सद्दानचन्द्रिकाम् ॥ ४६९ B व्याख्या-चन्द्रः श्रीकर्मचन्द्रः, शशी च, जैनयाचका एव भूपीठं तत्र कीर्तिरेव क्षीराब्धिः, तस्य वृद्धय उत्कल्लोलीकरणाय, तदा नन्दीमहोत्सवे, सद्दानमेव चन्द्रिका कौमुदी प्रसारयामास प्रसारयति स्म प्रवर्तयति स्मेति यावत् । कीर्तिवृद्धये दानं ददावित्यर्थः ॥ ४६९
प्रतिज्ञां कृतवानेवं मन्त्रीशोऽवसरे सति ।
सुमापं सर्वमप्यस्ति दुष्पापोऽवसरः सताम् ॥ ४७० व्याख्या-मन्त्रीशः श्रीकर्मचन्द्रः, अवसरे समये सति,एवमिति प्रकारेऽर्थेऽव्ययम् , एवमीदृक्प्रकारां प्रतिज्ञा सङ्गरं कृतवांश्चक्रे । यतः सर्वमपि सुप्रापं सुखेन प्राप्यत इति सुप्रापमस्ति, परं सतां सज्जनानामवसरो यथोचितसमयो दुष्प्रापो दुर्लभः ॥ ४७०
यता-कस्य न स्युः प्रियाः प्राणा लक्ष्मीः कस्य न वल्लभा ।
सतामवसरे प्राप्ते द्वयमेतत् तृणायते ॥ ४७१ व्याख्या-कस्य जन्तोः, प्राणा असवः, प्रिया इष्टा न स्युः; तथा कस्य लक्ष्मीः श्रीन वल्लभा प्रिया; सतामवसरे प्राप्ते वैरिगणमार्गणसाङ्कट्ये समुपस्थिते, एतद् द्वयम् असु - लक्ष्मीरूपं तृणायते तृणमिव आचरति तृणायते । तृणवत्प्राणान् .लक्ष्मी च त्यजन्तीत्यर्थः ॥ ४७१ अथ प्रतिज्ञातमेवाऽऽह -
याचकेभ्यो मया देयं नव ग्रामा गजा नव ।
शतानि पञ्च सप्तीनां सन्तो यद्गुणवत्प्रियाः॥ ४७२ व्याख्या-मया याचकेभ्यो नव प्रामाः संवसथाः, प्रसते बुद्ध्यादीन् गुणानिति ग्रामः । करादिगम्यो ग्राम इत्येके। तथा नव गजाः, तथा सप्तीनामश्वानां पञ्च शतानि, यद् यस्माद्धेतोः, सन्तः सज्जनाः, गुणवन्तो गुणिनः प्रिया येषां ते गुणवप्रियाः, अत एव गुणिप्रियत्वेन मन्त्री एतावद दानं तेभ्यो देयत्वेनाचीकथदिति भावः ॥ ४७२
, एवमङ्गीकृतं कोटीदानं देयतया तदा।
दानमीहङ्न केनापि दत्तपूर्व पदोत्सवे ॥ ४७३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org