________________
४५९-४६५]
पाठकश्रीजयसोमविरचित साहिप्रसादसम्प्राप्तवाद्यवादनपूर्वकम् । अमारिघोषणातोद्ये वाद्यमाने मुहुर्मुहुः ॥ ४५९ चतुर्मुखोचविज्ञानिजनवृन्दविनिर्मिताम् । दुकूलादर्शसौवर्णाभरणावलिभूषिताम् ॥ ४६० नन्दी विधाय सचैत्यचतुष्टयविराजिताम् । आगमोक्तविधानेन मानसिंहाय सादरम् ॥ ४६१ श्रीजैनचन्द्रसूरीन्द्रकराम्भोजनिवासिनीम् ।
आचार्यपदवीं मन्त्री दापयामास साहसी ॥ ४६२ - षभिः कुलकम् । व्याख्या- साहसं दुष्करकर्म अस्य अस्तीति साहसी, मन्त्री श्रीकर्मचन्द्रः, आगमोक्तविधानेन सिद्धान्तप्रतिपादितविधिना, सादरं यथा स्यात्तथा, मानसिंहाय, श्रीजिनचन्द्रसूरीणामिदं श्रीजैनचन्द्रसूरीन्द्रं यत् कराम्भोज पाणिपनं तत्र निवस-" तीत्येवंशीला श्रीजैनचन्द्रसूरीन्द्रकराम्भोजनिवासिनी, तामाचार्यपदवीम् , दापयामास दापयति स्म।क! फाल्गुने मासे, शुक्लाया द्वितीयायां जयातिथौ, मध्याहे दिनयौवने; किंभूते मध्याहे ? योगः प्रीत्यादिः, नक्षत्रं पुष्यादिः, लग्नं राशीनामुदयस्तेषां या शुद्धिनैर्मल्यं तया समन्विते सहिते, शोभनयोगनक्षत्रलग्नयुक्त इत्यर्थः। पुनः क ! सदुपाश्रये शाहुवालगोत्रीयसाधुदेवाकारितवसतौ; किंभूते ! आहूता आकारिताः, अनेकगच्छीया अनेकगच्छसम्बन्धिनो य उपासकवाताः श्राद्धसमूहास्तैः सुन्दरे रम्ये।तथा वस्त्राणि मखमलादीनि, आभरणानि च, अलङ्कारा मुक्ताश्च मौक्तिकानि ताभिर्मण्डिते विभूषिते; कथम् ,साहिप्रसादेन ।। श्रीअकबरानुग्रहेण सम्प्राप्तानि यानि वाद्यान्यातोद्यानि तेषां यद्वादनं शब्दनं तत्पूर्वकं साहिप्रसादसम्प्राप्तवाद्यवादनपूर्वकम् । पुनः क सति ? अमारिघोषणातोये मुहुर्मुहुः पुनः पुनर्वाधमाने सति; किं कृत्वा ! नन्दी श्रीजिनशासनप्रसिद्धां विधाय; किंभूतां नन्दीम् ? चतुर्मुखा चासौ उच्चा चासौ तुङ्गा चासौ विज्ञानिजनवृन्देन शिल्पिलोकसमूहेन विनिर्मिता च रचिता ताम्; तथा दुकूलानि च क्षौमाणि, आदर्शाश्च मुकुराः, सौवर्णाभरणानि च हैमालङ्कारास्तेषां या आवलिः श्रेणिस्तया भूषितामलङ्कम्; पुनः किंभूताम् ? सन्ति शोभनानि चैत्यानि जिनप्रतिमास्तेषां चतुष्टयेन विराजितां शोभमानाम् ॥ ४५७-४६२ १
जिनसिंहसूरिरिति [तद्नाम न्यस्तं तिथौ द्वितीयायाम् ।
वृद्धिं यायात् तस्यामुदितस्येन्दोरिवैतदिति ॥ ४६३ व्याख्या-तस्यां शुक्लायां द्वितीयायाम्, उदितस्योद्गतस्येन्दोरिव चन्द्रस्येवैतन्नाम वृद्धिं यायादिति हेतोद्वितीयायां तिथौ, जिनसिंहमूरिरिति नाम न्यस्तं स्थापितम् ॥ ४६३
अनूचानपदानुज्ञा द्वयोः कारितवानिह ।
द्वयोस्तु वाचनाचार्यपदवीमप्यदापयत् ॥ ४६४ व्याख्या- इह नन्याम् , श्रीमन्त्रिराजः, द्वयोः कोविदयोरनूचानपदानुज्ञामुपाध्यायपदव्यनुज्ञा कारितवान् । द्वयोस्तु पण्डितयोर्वाचनाचार्यपदवीमदापयदपीति समुच्चये ॥ ४६४
तेषु च गणिजयसोमा रत्ननिधानाश्च पाठका विहिताः।
गुणविनय-समयसुन्दरगणी कृती वाचनाचार्यों ॥ ४६५ व्याख्या-तेषु चतुर्षु मध्ये, साङ्गे प्रवचनेऽधीती गणिरुच्यते । गणयश्च ते जयसोमाश्च गणिजयसोमा अस्मद्गुरवः, ईषिट्त्रिंशिका-पौषधषट्त्रिंशिका-स्थापनापट्विंशिकादिग्रन्थकर्तारः । चः समुच्चये । रत्ननिधानाः साङ्गहैमशब्दानुशासनाध्येतारस्ते पाठका विहिताः । गणिशब्द उभयथाऽपि योज्यः । तथा च गुणविनयगणिश्च चम्पू-रघुवंशखण्डप्रशस्ति-नेमिदूत-वैराग्यशतक-सम्बोधसप्ततिकादिग्रन्थविवरणकर्ता; समयसुन्दरगणिश्च 'राजानो ददते सौख्यं' इत्येकपादस्य येन भूयांसोऽर्थाः प्रतिपादितास्तौ वाचनाचार्यों कृतौ ॥ ४६५
म. क.वं.प्र.१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org