________________
३३५-३४०]
पाठकश्रीजयसोमविरचित अकबरजलालदीनप्रसादतोऽनेककोदृबलकलितः।
मनिकृतमन्त्रयोगात् पञ्चसहस्रीपतिजज्ञे ॥ ३३५ व्याख्या-श्रीराजसिंहः अकबरजलालदीनस्य साहेः प्रसादतः अनुग्रहाद्, अनेके बहवो ये कोट्टा दुर्गाणि तैः बलेन च सैन्येन कलितः सहितोऽनेककोट्टबलकलितः, मन्त्रिणः श्रीकर्मचन्द्रस्य यो मन्त्र आलोचस्तस्य योगात् संयोगाद् मन्त्रिमन्त्रप्रभावादित्यर्थः । पञ्चानां सहस्राणामश्ववारसम्बन्धिनां समाहारः पञ्चसहस्री, तस्याः पतिः खामी, जज्ञे बभूव । 'पञ्च-5 हजारी'ति ख्याति प्राप्त इत्यर्थः ॥ ३३५
दैवयोगान्निजेशस्य वैमनस्यमथान्यदा। ज्ञात्वा मन्त्री निजे चित्ते कलिकालविजृम्भितम् ॥ ३३६ आज्ञां राज्ञः समासाद्य समादाय निजं जनम् ।
मेदिनीतटमध्यास्त स्वामिधर्मधनाधिकः ॥ ३३७ - युग्मम् । व्याख्या-अथ अनन्तरम् , अन्यस्मिन् काले, दैवयोगाद् विधिवशात् ['शुभाशुभं कर्म दैवम्' इति टिप्पणिः] निजेशस्यात्मीयप्रभोः राजसिंहस्य, कलिकालस्य विजम्भितं विलसितं वैमनस्यं चित्तकालुष्यं निजे चित्ते ज्ञात्वा, राज्ञः श्रीराजसिंहस्य आज्ञामादेशं समासाद्य प्राप्य, निजं जनं खजनवर्ग समादाय गृहीत्वा, मेदिनीतटं मेडतापुरेव्याख्यया ख्यातमध्यास्त अध्यतिष्ठदशिश्रयत् । किम्भूतो मन्त्री? खामिधर्म एव धनं तेन अधिकोऽतिशायी स्वामिधर्मधनाधिकः ॥ ३३६-३३७
निर्मलं जलमाचम्य नादेयं पङ्किलं पुनः।
नाऽऽदेयमिति हंसानां ज्ञात्वा नास्थान्नृपान्तिके ॥ ३३८ व्याख्या-हंसाना राजहंसानाम् , निर्मलं विमलम्, नद्यां भवं नादेयं जलमाचम्य पीत्वा, पुनर्विशेषे, विशेषेण पङ्किलं तदेव कर्दमवजलम् , न आदेयं न खीकार्य न पातव्यमित्यर्थः । इति ज्ञात्वा मन्त्री नृपान्तिके श्रीराजसिंहसविधे, न अस्थात् तस्थौ । यथा हंसेन येन पुरा निर्मलं जलं पीतं भवति, स पश्चात्तदेव पङ्किलं जलं पातुं नेहते; तथा अयमपि 10 पुरा प्रसन्नं श्रीराजसिंहनृपं सेवित्वा तमेव कलुषमानसं कथं सेवेतेति भावः । यतः -
'क्रुद्धोलूकनखप्रपातविगलत्पक्षा अपि खाश्रयं, ये नोज्झन्ति पुरीषपुष्टवपुषस्ते केचिदन्ये द्विजाः ।
ये च स्वच्छतरङ्गिणीबिसलसत्कल्लोलसंवर्धिता, गङ्गानीरमपि त्यजन्ति कलुषं ते राजहंसा वयम् ॥ १॥
पानविधौ - 'पिबति-धयति-आचमति-पीयते च रसयति चेति क्रियाकलापे । नादेयमिति नद्यादिभ्यो ढगिति ढग् भवार्थे ॥ ३३८
तत्र श्रीपार्श्वनाथस्य फलवर्द्धिपुरेशितुः।
सेवां कर्तुं प्रवृत्तोऽभूजिनदत्तगुरोस्तथा ॥ ३३९ व्याख्या-तत्र मेदिनीतटे, श्रीकर्मचन्द्रः, श्रीफलवर्धिकपुरस्येशिता नायकः फलवर्धिपुरेशिता तस्य फलवधिपुरेशितः श्रीपार्श्वनाथस्य, सेवां भक्तिं कर्तुं प्रवृत्तोऽभूत् । तथा जिनदत्तगुरोः श्रीजिनदत्तसूरेः सेवां कर्तुं प्रववृते ॥ ३३९
स्थानस्थानस्थितानेकनरेशाबानसूचकैः। .
मनोऽस्य चञ्चलं नाभूदायातैस्तजनैरपि ॥ ३४० व्याख्या- अस्य श्रीकर्मचन्द्रस्य, मनश्चित्तम् , स्थाने स्थाने स्थिता अवस्थिता येऽनेके बहवो नरेशा नृपा मानसिंहराणायाः, तेषां यदाहानमामन्त्रणं तत्सूचकैस्तत्पिशुनैस्तेषां नृपाणां जनस्तजनैरायातैरपि, न चञ्चलं चपलमभूत् । बहुभी राजभिः स्वप्रधानजनप्रेषणद्वारा आकारितोऽप्यसौ न अस्थिरमना आसीत्, न कस्यापि समीपे जगामेत्यर्थः ॥ ३४०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org