________________
२३४- २४०]
पाठकश्रीजयसोमविरचित सङ्ग्रामसचिवस्यासीत् पत्नीत्रयमदोद्भुतम् ।
दानशीलतपोभावधर्ममर्मप्रभावकम् ॥ २३४ व्याख्या-सङ्ग्रामसचिवस्य सङ्ग्राममन्त्रिणः, अदो वक्ष्यमाणमद्भुतमाश्चर्यकारि पत्नीत्रयमासीद् बभूव । किम्भूतम् ! दानशीलतपोभावरूपधर्माणां यन्मर्म, जीवप्रदेशप्रचयस्थानं मर्म यत्र जायमानवेदना महती जायते, तदिवान्तस्तत्त्वमित्यर्थः । तत्प्रभावकमुद्भासकं दानशीलतपोभावधर्ममर्मप्रभावकम् ॥ २३४ अथ पत्नीत्रयं नामतः प्राह
तत्र सुरताणदेवी भगतादेवी सुरूपदेवी च ।
गुरुदेवधर्मरक्ता सिद्धान्ताकर्णनासक्ता ॥ २३५ व्याख्या-तत्र सङ्घाममत्रिमन्दिरे सुरताणदेवी भगतादेवी सुरूपदेवी च । किम्भूता ? गुरुदेवधर्मेषु रक्ता रागवती गुरुदेवधर्मरक्ता । तथा सिद्धान्ताकर्णने जैनागमश्रवण आसक्ता प्रवणा सिद्धान्ताकर्णनासक्ता ॥ २३५
श्रीसेरसाहिसाहिः सगौरवं मुदितमानसो विधिना।।
ज्ञात्वा बुद्धिनिधानं मत्रिपदे यं दधाति स्म ॥ २३६ व्याख्या-यं सङ्घाममन्त्रिणं श्रीसेरसाहिसाहिः, सगौरवं सबहुमानं यथा स्यात्तथा, मुदितमानसो हृष्टचेताः सन्, विधिना यथोक्तप्रकारेण, मन्त्रिपदे सचिवपदव्याम् , दधाति स्म धारयामास । मन्त्रिपदं दत्तवानित्यर्थः। किं कृत्वा ! बुद्धिनिधानं धीनिधि ज्ञात्वा अवगम्य ॥ २३६ .
श्रीअर्बुदोजयन्ताचलयोर्विमलाचले च विमलमतिः।
यो यात्रां सुभटव्रजविराजितो विहितवान् विधिना ॥ २३७ व्याख्या-यः श्रीसङ्ग्राममन्त्री, विधिना शास्त्रोक्तप्रकारेण, श्रीअर्बुदोजयन्ताचलयोः श्रीअर्बुद-रैवतगिर्योश्च, पुनर्विमलाचले श्रीशत्रुञ्जये, सुभटव्रजेन भटसमूहेन, विराजितः शोभमानः सन् , यात्रां विहितवांश्चक्रे । किम्भूतः ? विमला निर्मला मतिर्धिषणा यस्यासौ विमलमतिः ॥ २३७
यः कृतवान् करमुक्तं तीर्थ शत्रुञ्जयं न करमुक्तम् ।
सेवकलोकं कृतवान् सभागधेयो जनादेयः ॥ २३८ व्याख्या-यः सङ्ग्राममन्त्री शत्रुञ्जयं तीर्थ पुण्डरीकाद्रिं करो राजग्राह्यो भागस्तेन मुक्तं रहितं कृतवान् । न सेवकलोकं भक्तजनं करमुक्तं पाणिमुक्तं कृतवान् । न पाणिना सेवकान् मुमोचेत्यर्थः । किम्भूतः : सभागधेयो भाग्यसहितः। तथा जनेषु मध्य आदेयो ग्राह्यनामा जनादेयः ॥ २३८
योऽन्येषु व्यवहारिषु कोटीशेष्वपि यशोथैरसिकेषु ।
मिलितेष्वपीन्द्रमालां परिधत्ते स्माशु विमलाद्री ॥ २३९ व्याख्या- यः श्रीसङ्ग्राममन्त्री, अन्येषु परेषु नानादेशेभ्यो यात्रार्थमागल्य मिलितेष्वपि सङ्घटितेष्वपि, व्यवहारिषु व्यापारिष्विभ्येषु, आशु शीघ्रम् , विमलाद्रौ श्रीशत्रुञ्जये, इन्द्रमालां लोकप्रसिद्धाम् , परिधत्ते स्म परिदधौ । किम्भूतेषु ? कोटीशेष्वपि कोटिसंख्यद्रव्यखामिष्वपि । पुनः किम्भूतेषु ? यश एवार्थो द्रव्यं तत्र रस आसक्तिर्विद्यते येषां ते, खार्थे के, . यशोथैरसिकास्तेषु ॥ २३९
याचकसाथ विदधे सार्थ स्वर्णाश्ववस्त्रदानायैः। यः कीर्तिराशितटिनी कृतवाननिवारितप्रसराम् ॥ २४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org