________________
10
15
20
मनिकर्म चन्द्रवंशावली प्रबन्ध ।
[ २२८ - २३३
व्याख्या - मन्त्री श्रीनगराजस्तूर्णं शीघ्रं पथि वर्त्मनि समागच्छन्, पूर्णो निष्ठां प्राप्तो मनोरथो वैरनिर्यातनादिलक्षणोऽभिलाषो यस्य स पूर्णमनोरथः एवंविधः सन्, अजमेरुपुरे पण्डितमृत्युना पण्डितमरणेन अनशनादिविधिना स्वर्गं देवालयमगाज्जगाम ॥ २२७
25
३८
ततः कल्याणमल्लोऽभूद् राजा कल्याणकारणम् । यः स्वयं सृष्टिरक्षायै विधिना निर्मितः किमु ॥ २२८
व्याख्या - ततोऽनन्तरम्, साहिना खकरेण राज्यतिल के दत्ते सति, कल्याणमल्लो राजाऽभूत् । किम्भूतः ! कल्याणस्य श्रेयसः कारणं हेतुः । यः कल्याणमल्लः सृष्टिरक्षायै स्वनिर्मित प्रजालक्षणनिर्माणपालनाय स्वयमात्मना विधिना वेधसा, किमु इति वितर्केऽव्ययम्, निर्मितः सृष्टः । 'सृष्टिः खभावे निर्माणे' इत्यनेकार्थः ॥ २२८
येन दानादिधर्मेण कलिः कृतयुगीकृतः ।
खलाः खण्डीकृता येन वशिना निशितासिना ।। २२९
व्याख्या - येन कल्याणमल्लेन दानादिधर्मेण आहूय वितरणादिसुकृतेन, कलिरन्त्यो युगः कृतयुगीकृतः कृतयुगाचरणीयाचरणात् कलौ कृतयुगमेवावतारित इत्यर्थः । 'कलिर्बिभीतके शूरे विवादेऽन्त्ययुगे युधि ।' इत्यनेकार्थः । तथा, येन वशिना जितेन्द्रियेण, निशितासिना तीक्ष्णकरवालेन, खला दुर्जनाः, खण्डीकृतास्तिलतिलीकृता दूरीकृता इत्यर्थः । नहान्येन खलाः पिण्याकाः खण्डीकर्तुं मधुधूलितया विधातुं शक्यन्त इति च्छायार्थः ॥ २२९
नगराजमन्त्रिराजाङ्गजास्त्रयः पुण्यभाजनं जगति ।
नावलदेवी जाता जाता जगतीषु विख्याताः ॥ २३०
व्याख्या - नगराजमन्त्रिराजस्य अङ्गजाः पुत्रास्त्रयः, जगतीषु भूमिषु, विख्याता विश्रुता जाताः सञ्जाताः । किम्भूताः? जगति विष्टपे, पुण्यभाजनं सुकृतपात्रम् । पुनः किम्भूताः ? नावलदेव्यां 'हांसू' इति कुलगृहनाम्ना ख्याताय जाता उत्पन्ना नावलदेवीजाताः ॥ २३०
तानेव पुत्रान् नात आह
Jain Education International
व्याख्या - तेषु त्रिषु पुत्रेषु मध्य आदिमः प्रथमो देवाभिधो मन्त्री बभूवेति गम्यते । किम्भूतः ? सुबुद्धि: शोभना जिनागमश्रवणप्रवणा बुद्धिर्धीर्यस्यासौ सुबुद्धिरिति खरूपनिरूपकं विशेषणम् । पुनः किम्भूतः ! सुधावन्मृष्टं वचनं गीर्यस्यासौ सुधावचनः । तथा द्वितीयः पुत्रो राणाभिधः । किम्भूतः ? गुणैर्दानशौण्डत्वादिभिरद्वितीयः असम एतत्समो गुप्तदानादि - दाता नान्य इत्यर्थः । अथानन्तरं तृतीय उच्यते सङ्ग्रामो मन्त्री । किम्भूतः ? सङ्ग्रामे रणे लब्धः प्राप्तो जयो विजयो येन स लब्धजयः । तथाऽमात्येषु मन्त्रिषु ग्रामणीर्मुख्यः । तथा भाग्यस्यैव बलं सामर्थ्यं यस्यासौ भाग्यबली । तथा बलेन सैन्येन ३० कलितः सहितः । तथा कल्याणनरेन्द्रेण कल्याणमल्लनृपेण सम्मान्यः सत्करणीयः ॥ २३१-२३२
तेष्वादिमः सुबुद्धिर्मश्री देवाभिधः सुधावचनः । राणाभिधो द्वितीयो गुणाद्वितीयस्तृतीयोऽथ ॥ २३१ सङ्ग्रामः सङ्ग्रामे लब्धजयो ग्रामणीरमात्येषु ।
भाग्यबली बलकलितः कल्याणनरेन्द्रसम्मान्यः ॥ २३२ – युग्मम् ।
देवाङ्गजात्रयोऽमी मेहाजला भयमाननामानः ।
राणासुतः सुधोपमवचनतयाऽभूदमृतनामा ॥ २३३
व्याख्या - अमी मेहाजलाद्यास्त्रयो देवाङ्गजा देवामत्रिपुत्राः । राणासुतो मन्त्रिराणापुत्रोऽमृतनामाऽभूत् । नन्वमृतेति नाम तस्य कथमवादिषुः ? इति तत्कारणमाह - सुधोपमवचनतया सुधोपमममृतसमं वचनं यस्यासौ सुधोपमवचनस्त25 द्भावस्तत्ता तया, अमृतसमवाक्यवक्तृत्वेनामृत इति नाम कथयामासुरित्यर्थः ॥ २३३
For Private & Personal Use Only
www.jainelibrary.org