________________
मनिकर्म चन्द्रवंशावली प्रबन्ध |
तथेत्युक्त्वा ततो मन्त्री नगराजो बलाधिकः । नगराज इवाक्षोभ्यो रणे वैरिसमीरणैः ॥ २१४ राजन्यसैन्यमादाय दायोपायविशारदः । शकुनानुमित स्वार्थसिद्धिः साहिमुपेयिवान् ॥ २१५ - युग्मम् ।
व्याख्या - तथेति निश्चये पृष्टप्रतिवाक्ये वा । ' तथा स्यान्निश्चये पृष्टप्रतिवाक्ये समुच्चये' । उक्त्वा कथयित्वा यथा भवद्भिरुक्तं तथैवेति निगद्य, ततोऽनन्तरं मन्त्री नगराजो राजन्याः क्षत्रियास्तेषां सैन्यं सेनामादाय गृहीत्वा, साहिं सेरसाहिमुपेयिवान् प्राप्तः । किम्भूतः ! बलाधिकः बलं पराक्रमस्तेन अधिकोऽतिशायी बलाधिकः, तथा वैरिसमीरणैर्वैरिणः शत्रवस्त एव समीरणा वायवस्तैः रणे सङ्ग्रामे, नगराज इव मेरुरिव, अक्षोभ्यः क्षोभयितुमशक्यः अपरिभवनीयः । यथा मेरुर्वायुभिर्न क्षोभ्यते तथाऽयमपि शत्रुभिरक्षोभ्य इत्यर्थः । तथा दायो दानमुपायाः सामाद्याश्चत्वारस्तत्र विशारदः कोविदो दायोपाय" विशारदः ।
15
23
25
30
२६
'दायो दाने यौतकादिधने सोल्लुण्ठभाषणे । विभक्तव्यपितृद्रव्ये ' - इत्यनेकार्थः ।
तथा शकुनैर्देवशंसिनिमित्तैरनुमिता अनुमानप्रमाणविषयीकृता स्वार्थसिद्धिः स्वकामितनिष्पत्तिर्येन स शकुनानुमितखार्थसिद्धिः ॥ २१४ - २१५
गजाश्वकरभवातमुपदीकृत्य सेवया ।
शूरत्राणं सुरचाणं प्रीणयामास मनवित् ॥ २१६
व्याख्या - मन्त्रवित् श्रीनगराजः, गजा हस्तिनः, अश्वा वाजिनः, करभाविहायणा उष्ट्रास्तेषां व्रातः समूहस्तमुपदीकृत्य ढौकनीकृत्य, सेवया परिचर्यया, सुरत्राणं सेरसाहिं प्रीणयामास तोषयामास । किम्भूतम् ? शूरान् वीरांस्त्रायते रक्षतीति शूरत्राणस्तम् ॥ २१६
शात्रवागममाशङ्क्य सकल्याणस्ततोऽखिलः ।
राजलोको मुना मुक्तः श्रीसारखतपत्तने ॥ २१७
[ २१४ - २२०
व्याख्या - ततोऽनन्तरं शात्रवाणां वैरिणामागममागमनमाशय, मा तेऽत्र अकस्मादागच्छेयुरिति पर्यालोच्य, अखिलः समस्तः, सकल्याणः कल्याणमल्लकुमारसहितो राजलोकः, अमुना जेतुसिंहेन श्रीसरस्वतीपत्तने मुक्तः प्रेषितः ॥ २१७ मालदेवे समायाते समादातुं मरुस्थलीम् । जेतृसिंहोऽभ्यमित्रीणः समभूद् विमुखो रुषा ।। २१८
Jain Education International
व्याख्या - मरुस्थली मरुभूमिम्, समादातुं ग्रहीतुम्, मालदेवे राज्ञि समायाते सति, जेतृसिंहोऽभ्यमित्रीणोऽभ्यमित्रीयः समभूज्जातः । सोहवाग्रामं यावदभिमुखं जगामेति भावः । किम्भूतः ? रुषा रोषेण, विमुखो विरुद्ध मुखः अरुणवदन इत्यर्थः । आभिमुख्येनामित्रानलङ्गाम्यभ्यमित्रीणः ॥ २१८
आयोधने समारब्धे नृपाग्रे भीममन्त्रवित् ।
युध्यमानो भटैः सार्धं शुद्धध्यानो दिवं ययौ ॥ २१९
व्याख्या - आयोधने मालदेवेन समं रणे समारब्धे प्रारब्धे सति, नृपात्रे जेतृसिंहनृपस्य पुरतो भीममन्त्र विद् भीमराजमन्त्री, भटैर्वैरिसुभटैः सार्धं युध्यमानो युद्धं कुर्वाणः, शुद्धं विमलं ध्यानं यस्यासौ शुद्धध्यानः, दिवं स्वर्गं ययौ । लोकोक्त्या ममारेत्यर्थः । रणेऽपि शुद्धध्यानाद् वरुणनागनत्तकस्येव स्वःप्राप्तेः कथनात् खर्गगमनमपि तस्य सम्भाव्यते ॥ २१९ मालदेवोऽपि सङ्ग्रामे जेतृसिंहे मृते सति । जङ्गलं देशमादाय दरीमिव पुरीं गतः ॥ २२०
For Private & Personal Use Only
www.jainelibrary.org