________________
२०८-२१३]
पाठकश्रीजयसोमविरचित मनिराज ! बली राजा मालदेवोऽस्मदादिभिः।
असाध्यस्तेन नानेन साध स्पर्धा गुणावहा ॥ २०८ व्याख्या-हे मन्त्रिराज ! श्रीनगराज! मालदेवो राजा बली बलवान् सैन्यवान् सामर्थ्यवांश्च । अस्मदादिभिरस्मत्प्रमुखैरसाध्यः साधयितुमशक्योऽजय्य इत्यर्थः । तेन कारणेनानेन मालदेवेन साध समं स्पर्धा संह(घर्षों गुणावहा गुणकारिणी न । अनेन सह योद्धुमलम् ॥ २०८
श्रूयतेऽत्र समागन्ता यावन्नायाति स स्वयम् ।
तावत् पुरैव मन्त्रोऽत्र कार्यः किं पुनरागमे ॥ २०९ व्याख्या- अत्र जङ्गलावन्याम् , स मालदेवः समागन्ता आगन्तुकः श्रूयते, यावत्तावच्छन्दौ कालावधारणार्थी, यावत् स मालदेवः खयमात्मना ना आयाति, तावत् पुरैव पूर्वमेव, अत्र समये मन्त्र आलोचः कार्यः कर्तव्यः । तस्मिन् पुनरागते समेते किम् ! 'किं प्रश्ने कुत्सनेऽपि च । समेते तस्मिन् न किमपि विधातुमलम्भूष्णवो भविष्याम इत्यर्थः ॥ २०९
गूढमन्त्रस्ततो मनी राज्ञा मश्रितवानिति ।
सेरसाहिरिहाराध्यो विना तं न खकामितम् ॥ २१० व्याख्या-ततो जेवसिंहकथनानन्तरम् , गूढो गुप्तः परैरपरिच्छेद्यो मन्त्रोऽस्येति गूढमत्रो मन्त्री श्रीनगराजा, राज्ञा जेवसिंहेन सममिति मत्रितवान् आलोचितवान् । इतीति किम् ! हे स्वामिन् । इह समये सेरसाहिः सेरपातिसाहिराराध्यः प्रसादनीयः । यतस्तं सेरसाहिं विना न खकामितं खेप्सितं वैरिहननादिलक्षणम् ॥ २१०
समर्थानां यतश्चिन्ता समर्थैरपनीयते।
महागुणेव कण्डूया गजगण्डस्य नश्यति ॥ २११ व्याख्या- यतो हेतोः, समर्थानां प्रभविष्णूनाम्, चिन्ता मनसि दुरध्यवसायः, समर्थैः प्रभविष्णुभिरपनीयते दूरीक्रियते । केन कस्य केव ! महागुणेव महावृक्षणेव, गजगण्डस्य करिकपोलस्य, कण्डूया खर्जुनश्यति नान्येनैरण्डादिना, तथा महता चिन्ता महद्भिरेवापनेया नान्यैरिति भावः ॥ २११
साधु साधु महामनिन् ! मन्त्रितं स्वार्थसिद्धये ।
गुणायाधिगुणे सेवा मोघाऽपि सफला किमु ॥ २१२ व्याख्या-हे महामन्निन् ! श्रीनगराज! स्वार्थसिद्धये-खः खकीयो यो अर्थः शत्रप्रतिघातादिस्तस्य या सिद्धिनिष्पत्तिस्तस्यै स्वार्थसिद्धये । साधु साधु, सम्भ्रमे द्वित्वम् , मन्त्रितमालोचितम् । यतः-अधिगुणे गुणाधिके पुंसि सेवा परिचर्या, मोघाऽपि अलब्धकामाऽपि निष्फलाऽपि, गुणाय गुणकारिणी, सफला फलवती, किमु?, किमु इति वितर्केऽव्ययम् । फलवल्या- 25 स्तस्याः सेवायाः किमुच्यत इत्यर्थः । कोऽर्थः ? गुणाधिकः सेवितो यदि खेप्सितं न पूरयति तथाऽपि परकृतोपद्रवनिवारणरूपं गुणं जनयेदेव । अधमात् पूर्णकामोऽपि सेवको निन्द्यत एव । तेन तत्सेवैव कर्तुमुचितेति ॥ २१२
तेन साहिसमीपे त्वं याहि सोत्साहमानसः।
मानसेन विना येन न हंसानां मनोरतिः ॥ २१३ व्याख्या-तेन कारणेन,हे मन्निन् ! उत्साहः प्रगल्भता, सह उत्साहेन वर्तत इति सोत्साहम्, तथाविधं मानसं चित्तं . यस्यासौ सोत्साहमानस एवंविधः सन्, साहिसमीपे सेरसाहिसविधे, त्वं याहि गच्छ । सोत्साहमानस इति विशेषणे अयं भावः-सदा मानसोत्साह एव प्राक् शकुनम् । 'इङ्गिरा मन उत्साहः' इति वाक्यात् । येन कारणेन मानसेन सरोविशेषेण विना, हंसानां राजहंसानां मनोरतिर्मनोरागो न । यथा किल हंसा मानस एव रागं बध्नन्ति तथा त्वया सेरसाहिसेवायामेव नचेतो वर्तनीयम् । 'मानसं खान्तसरसोः' इत्यनेकार्थः॥२१३
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org