SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ १९०-१९६] पाठकश्रीजयसोमविरचित दीनानाथजनानामुपकारपरायणैकधिषणाभृत् । तेने च सत्रशालां वर्षे नेत्रवसुपश्चदशे ॥ १९० व्याख्या- च पुनः, यः श्रीवरसिंहः, दीनाश्च दैन्यभाजः कृपणा इत्यर्थः, अनाथाश्च अखामिकाः, जनाश्च सामान्यलोकाः, तेषामुपकार उपकरणे परायणा अवणैकाऽद्वितीया या धिषणा बुद्धिस्तां बिभर्ति धारयति यः, स उपकारपरायणैकधिषणाभृत् सन् , नेत्र-वसु-पञ्चदशे (१५८२) वर्षे सत्रशाल तेने विस्तारयामास ॥ १९० गुरुभिः श्रीजिनकुशलैर्यात्रां श्रीदेवराजवरतीर्थे । सततं कर्तुमना अपि कर्तुमशक्तो यदा दृष्टः ॥ १९१ सम्मुखमागम्य तदा स्वमद्वारा स्वरूपमाख्याय । सारगडालास्थाने यात्रा सफलीकृता यस्य ॥ १९२ - युग्मम् । व्याख्या-श्रीजिनकुशलगुरुमिः, श्रीदेवराजवरतीर्थे, यात्रां सततं नित्यम् , कर्तुमना अपि कर्तुकामोऽपि, श्रीवरसिंहो । मन्त्री, यदा यस्मिन् काले, तद्देशीयराजविरोधेन कर्तुमशक्तोऽक्षमो दृष्टोऽवलोकितः, तदा तस्मिन् काले, सम्मुखं देवराजपुरादभिमुखमागम्य, खमद्वारा खप्नः सुप्तज्ञानं तद्वारा, खरूपमहममिमुखमागतोऽस्मीति लक्षणमाख्याय कथयित्वा, सारगडालास्थाने, यस्य मन्त्रिणः श्रीवरसिंहस्य, यात्रा सफलीकृता, सफला विदधे ।। १९१ - १९२ अधुनाऽपि तकत् स्थानं तीर्थतया विश्रुतं समस्तीह । सेवकजनकृतघाछाप्रपूरमात् सर्वगच्छेषु ॥ १९३ व्याख्या- इह भूमौ, तकदिति तत्, 'अव्ययसर्वनाम्नामकच् प्राक् टेः' इत्यकच्, स्थानमधुनाऽपि साम्प्रतमपि, तीर्थतया विश्रुतं विख्यातं समस्ति । कस्मात् ! सर्वगच्छेषु सेवकजनस्य भक्तलोकस्य कृता या वान्छा आशा तस्याः प्रपूरणात् सम्पादनात् ॥ १९३ वरसिंहमत्रिपुत्राः षडपि षडङ्गीविचारनिष्णाताः। अषडक्षीणालोचा लोचनविक्षेपभावज्ञाः ॥ १९४ व्याख्या-वरसिंहस्य मत्रिणः पुत्राः षडपि, षडङ्गीविचारे षडङ्गीविमर्श, निष्णाता निपुणाः । तत्र षडङ्गान्यमूनि 'शिक्षाकल्पव्याकरणच्छन्दोज्योतिर्निरुक्तयः' इति । बभूवुरिति गम्यते । किम्भूताः ! अषडक्षीण आलोचो रहस्यालोचनं येषां तेऽषडक्षीणालोचाः। तन्मन्त्राद्यषडक्षीणं यत्तृतीयाद्यगोचरः।' पुनः किम्भूताः ? लोचनविक्षेपेण नेत्रविकारेण, भावं पराभिप्रायम् , जानन्तीति लोचनविक्षेपभावज्ञाः ॥ १९४ तानेव नामत आह सन्मेघराज-नगराजनामकावमरसिंह-भोजाख्यौ। हरराजो डुङ्गरसीनामाऽथ सुताऽभवद् वीरा ।। १९५ व्याख्या-एते सन्मेघराजाद्याः षट्, अथ षट्पुत्र्यनन्तरं वीरानाम्नी सुता पुत्र्यभवत् ॥ १९५ तानेव पुत्रान् विशेषयन्नाह - सन्मन्नविधातारो दातारः सकलभावमातारः। त्रातारः शरणागतलोकानां सत्यवक्तारः॥१९६ व्याख्या-किम्भूतास्ते ! सन्मंत्रस्य प्रधानालोचस्य विधातारः कर्तारः, तथा दातार उदाराः, तथा सकलभावानां समस्ताभिप्रायाणां मातारः प्रमातारः । 'माकू मानशब्दयोः। तथा शरणाय शरणार्थमागताः समेता ये लोकास्तेषां त्रातारो रक्षकाः, तथा सत्यवकारः सत्यवादिनः ॥ १९६ म. क.वं.प्र.५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003400
Book TitleMantri Karmchandra Vanshavali Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages122
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy