________________
मधिकर्मचन्द्रवंशावलीप्रबन्ध ।
[१८४-१८९ व्याख्या-कसमीरदेविजाताः कसमीरदेविपुत्राः, अमी कल्याणमल्लादयः, अपूर्वा नवाः पञ्च पाण्डवा इव युधिष्ठिरादय इव । अपूर्वत्वमेवैषामाह -यस्माद्धेतोरमी कल्याणमल्लाद्याः पश्चापि पाण्डवा व्यसनं विपत्तिस्तेन विमुक्ता रहिताः, तथा दुष्टं यद्योधनं युद्धकरणं तनियमिष्टं येषां ते दुर्योधनप्रियाः, सन्ति विद्यन्ते । पूर्वपाण्डवास्त्वेवंविधा नाभूवन् । ते च व्यसनानि दुरोदरादीनि मृगयादयः सप्त तद्विमुक्ता न भवन्ति । तथा दुर्योधनः कौरवः स प्रियो येषामेवंविधो न स्युः । 5 'व्यसनं निष्फलोद्यमे, दैवानिष्टफले सक्ती, स्त्रीपानमृगयादिषु, पापे विपत्तावशुभे ।' इत्यनेकार्थः।
'धूतं च मांसं च सुरा च वेश्या, पापर्द्धि चौर्य परदारसेवा ।
एतानि सप्त व्यसनानि लोके, पापाधिके पुंसि सदा भवन्ति ॥ १' दुर्योधन इति 'शासियुधिशिधृषिमृषिभ्यो युज्वाच्यो वेत्येके, युओर्ण्यन्ताद् दुर्योधनः, गेर्लोपे दुर्योध इति ॥ १८३
पत्यन्तरजा अन्ये सुता बभुः पूर्ण-मल्लसिंहाख्यौ ।
पुनरचल-मान-सुरजन-कर्म-श्रीरङ्गजीप्रमुखाः ॥ १८४ व्याख्या-अन्येऽपरे सुताः । पन्यन्तरजा अन्यभार्या जाता बभुः शुशुभिरे । तानेव नामतः आह - पूर्ण-मल्लसिंहाख्यौ, पुनर्भूयः, अचल-मान-सुरजन-कर्म ! ] श्रीरङ्गजीप्रभृतयः ॥ १८४ अथ श्रीवरसिंहमन्त्रिसन्ततिवक्तव्यतामाह
वरसिंहो महामात्यो वीझादेवीसतीवरः।
धर्मकर्मसु निष्णातः पुष्णाति म सुहृज्जनम् ॥ १८५ व्याख्या- तत्पदे वरसिंहो महामाल्यो बभूवेत्यध्याह्रियते । वीझादेवीति नाम्नी या सती तस्या वरो भर्ता, यो धर्मकर्मसु निष्णातो निपुणः, सुहृज्जनं मित्रलोकं, पुष्णाति स्म अभीष्टदानैः पुपोष ॥ १८५
चम्पापुरे मदप्फरसाहेः शत्रुञ्जयादियात्रायाः।
फुरमानमाप्तवान् यो षण्मासीं यावदुपजीव्य ॥ १८६ 20 व्याख्या- यः श्रीवरसिंहो मन्त्री, चम्पापुरे मदप्फरसाहेः सकाशाच्छत्रुञ्जयाद्रियात्रायाः फुरमानं छप्पामाप्तवान् प्राप । किं कृत्वा ? षण्मासी षट् मासान् यावदुपजीव्य तत्सेवामनुभूय । . .... 'आस्वादयत्यनुभवत्युपजीवति चोपयुङ्क्ते च । उपभुङ्क्ते निर्विशतीत्युपयोगे योग्यतां याताः॥ इति क्रियाकलापे ॥१८६
राज्ञा दुर्गस्य दुर्गस्य तालिका करसात्कृता।।
यस्य सर्वोऽपि लोकानां न्यायश्च विषयीकृतः॥ १८७ व्याख्या- राज्ञा जेतृसिंहेन, यस्य श्रीवरसिंहस्य, दुर्गस्य दुर्गमस्य, दुर्गस्य कोट्टस्य, तालिका तालकोद्घाटनयन्त्रं, तायत्ता कृता । च पुनर्यस्य सर्वोऽपि लोकानां जानपदजनानां, न्यायो नीतिर्विषयीकृतो गोचरीकृतः ॥ १८७
तीर्थेषु पुण्यहेतोर्विमलाबुंदरैवताद्रिरूपेषु ।
मुक्तीकृततीर्थपथं यात्रां यः सङ्घयुग विदधे ॥१८८ व्याख्या- यः श्रीवरसिंहो मन्त्री, पुण्यहेतोः पुण्यनिमित्तं, विमलार्बुदरैवताद्रिरूपेषु शत्रुञ्जयार्बुदोजयन्त30 गिरिरूपेषु, तीर्थेषु पुण्यक्षेत्रेषु, मुक्तीकृतः करमोक्षणान्मुत्कलीकृतस्तीर्थपथः श्रीतीर्थराजारोहः, यत्र यात्राविधाने तन्मुक्तीकृततीर्थपथमेवं यथा स्यात्तथा, सङ्घ युनक्तीति सङ्घयुक् सङ्घसहितो यात्रां विदधे चकार ॥ १८८
मार्गे चकार चतुरो लम्भनिकां लाभकारणं मत्री।
सम्मानितो मदप्फरनाम्ना श्रीसाहिना बहुशः ॥ १८९ व्याख्या-चतुरः कुशलो मन्त्री वरसिंहः, मार्गे तीर्थयात्रापथे, लम्भनिकां 'लाहणीति' रूढां चकार चक्रे। किम्भूतां ! 35 लाभस्य पुण्यप्राप्तेः कारणं हेतुः। यो मन्त्री मदप्फरनाम्ना श्रीसाहिना, बहुशो बहुवारान् , सम्मानितः पञ्चाङ्गप्रासादादिदानेन सत्कृतः । बहुश इति 'संख्यैकवचनाच्च वीप्सायाम्' इति शस् ॥१८९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org