________________
मधिकर्मचन्द्रवंशावलीप्रबन्ध ।
[ १७०-१७५ व्याख्या- सचिवो मन्त्री कर्मसिंहा, तरन्त्यनेन विद्याम्भोनिधिमिति तीर्थ गुरुः, समाने तीर्थे वसति स सतीर्थ्यः, एवंविधो यः सङ्घः साध्वादिसमुदायस्तेन सङ्गतो मिलितः सन् , श्रीमुक्तालयतीर्थे श्रीशत्रुञ्जये, करो राजग्राह्यो भागस्तेन परिमुक्तां यात्रां चकार । कया ! मुक्तानां कर्मरहितानां य आलयो निलयो मुक्तालयो मोक्षस्तत्स्पृहया वाञ्छया ॥ १६९
एवं रैवतकेद्रौ तथार्बुद-द्वारकादितीर्थेषु ।
लम्भनिकायुतयात्रा विहिता येनाधिकमेम्णा ॥ १७० व्याख्या- एवममुना प्रकारेण, रैवतकेऽद्भावुजयन्तगिरी, तथाऽर्बुद-द्वारकादितीर्थेषु, येन श्रीकर्मसिंहेन, अधिकप्रेम्णा अतिशायिस्नेहेन, लम्भनिका प्रतिगृहमिष्टवस्तुदानं तया युता सहिता, यात्रा विहिता चके। यात्रा चक्रे लम्भनिका च ददे इत्यर्थः ॥ १७०
लक्षं चैत्यप्रतिष्ठायां लक्षं सूरिपदार्पणे।
लक्षं यात्रासु रौप्याणां व्यययामास यः सुधीः॥१७१ व्याख्या-यः कर्मसिंहो मन्त्री सद्बुद्धिः चैत्यप्रतिष्ठायां रौप्याणां राजतानां लक्षं, तथा सूरिपदार्पणे जिनहंससूरीणामाचार्यपदसमर्पणे रौप्याणां लक्षं, तथा यात्रासु शत्रुञ्जयादितीर्थयात्रासु रौप्याणां लक्षं व्यययामास । वित्तसमुत्सगं त्यागमकार्षीद् । व्ययण वित्तसमुत्सर्गे ॥ १७१
सत्रशाला कृता नेत्रवार्धिभूतेन्दुवत्सरे ।
चतुर्दशसमाः कल्पपुस्तकं येन चाऽऽददे ॥ १७२ ___व्याख्या-येन श्रीकर्मसिंहेन मन्त्रिणा, नेत्रवार्धिभूतेन्दु(१५४२)वत्सरे सत्रशाला कृता । सत्रं सदादानम् । च पुनर्येन चतुर्दशसमाश्चतुर्दशवर्षाणि यावत् कल्पपुस्तकमाददे कल्पपुस्तकं वाचयामासेल्यर्थः ॥ १७२
भूजानिषु प्रभूतेषु विवाहायाऽऽगतेष्वपि ।
चित्रकूटेऽकरोच्छोभां विवाहे यो निजेशितुः ॥ १७३ . 20 व्याख्या- यः कर्मसिंहो मन्त्री, चित्रकूटे विवाहाय पाणिपीडनाय, प्रभूतेषु बहुषु भूजानिषु राजखागतेष्वपि प्राप्तेप्वपि, निजेशितुः खखामिनो लूणकर्णस्य, विवाहे शोभा लक्ष्मीमकरोच्चकार । भूरेव जाया यस्य भूजानिः । 'जायाया निडिति' जायान्तस्य बहुव्रीहेर्निडादेशः ॥ १७३
अन्यदा लूणकर्णेन समकं नन्दगोकुले।
जगाम वैरिसङ्घातघातनाय स मन्त्रवित् ॥ १७४ । व्याख्या-अन्यदाऽन्यस्मिन् काले, स मन्त्रविद् रहस्यालोचनं मन्त्रस्तं वेत्तीति मन्त्रविन्मन्त्री कर्मसिंहः, नन्दगोकुले 'नारनउल' इति नाम्नारूढे, वैरिणां यः सङ्घातः समूहस्तस्य घातनाय विनाशाय, लूणकर्णेन समकं सह जगाम ॥ १७४
सङ्ग्रामे वैरिभिः साधं सहसा समुपस्थिते।
सुभटाः खामिधर्मत्वादन्योऽन्यं प्राहरंस्तराम् ॥ १७५ व्याख्या-वैरिभिः शत्रुभिः साधं समं, सहसाऽनालोच्याऽवितर्कितमेव, सङ्ग्रामे युद्धे समुपस्थिते प्राप्ते सति, सुभटा 3. योधाः, स्वामिधर्मत्वात्स्वामिनः प्रभोधर्मो येषां ते खामिधर्माणः। 'धर्मादनिच केवलाद्' इति केवलात्पदाद् योधर्मशब्दः केवलस्तदन्ताद् बहुव्रीहेरनिच् स्यात् । तद्भावः स्वामिधर्मत्वं तस्मात् । यथैव खामी कुरुते तथैव सेवका अपि कुर्वन्तीति भावः । अन्योऽन्यं परस्परं प्राहरंस्तरामतिशयेन प्रहारांश्चक्रुः। प्राहरंस्तरामिति- 'तरतमपौ घः' इति घः । 'किमेत्तिङव्ययघादाम् च द्रव्यप्रकर्षे इति । 'किम एदन्तात्तिकोऽव्ययाच यो घस्तदन्तामुः स्यात् । सहसेति 'सहसाऽऽकस्मिकाविमर्शयोः ॥ १७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org