________________
२९
१६२-१६९]
। पाठकश्रीजयसोमविरचित भूरिवित्तव्ययं कृत्वा तत्मतिष्ठाऽपि कारिता।
समाहूतामितश्राद्धवात्सल्यविधिनाऽमुना ॥ १६२ व्याख्या-अमुना श्रीकर्मसिंहमन्त्रिणा, समाहूता बहुदेशेभ्य आकारिता अमिता बहवो ये श्राद्धास्तेषां यो वात्सल्यविधिर्वस्त्रादिभिरभ्यर्चनप्रकारस्तेन, भूरिवित्तव्ययं बहुलद्रव्योत्सर्ग कृत्वा, तस्य चैत्यस्य प्रतिष्ठा सूरिमन्त्रेण स्थापना, साऽपि कारिता। 'प्रतिष्ठा गौरवे स्थितौ, छन्दोजातौ यागसिद्धौ' इत्यनेकार्थः । 'मर्यादादेवादिस्थापनयोरपि' मङ्खः ॥ १६२
स्थापना रसभूतेषुविधुप्रमितवत्सरे।
खमुनीष्विन्दुवर्षेऽभूचैत्यं नमिजिनेशितुः॥१६३ व्याख्या- नमिजिनेशितू रसभूतेषुविधुप्रमित(१५५६)वत्सरे स्थापनाऽऽरम्भोऽभूदिति गम्यते । खमुनीष्विन्दु(१५७०) वर्षे चैत्यमसिध्यदित्यध्याहियते ॥ १६३
श्रीजिनहंससूरीणां शान्तिसागरसूरितः।
स्थापना येन वित्तानां व्ययेन खलु कारिता ॥ १६४ व्याख्या-खलु वाक्यालङ्कारे, येन श्रीकर्मसिंहेन, श्रीजिनहंससूरीणां शान्तिसागरसरितः श्रीशान्तिसागरसूरेः सकाशाद्, वित्तानां व्ययेनोत्सर्गेण, स्थापना पदप्रतिष्ठा कारिता ॥१६४
याचकखान्तकाराभ्यो वस्तुपालादिदायकाः।
मोचिता येन सद्दानविधानेन महात्मना ॥ १६५ व्याख्या-येन महात्मना महामनसा कर्मसिंहेन, सद्दानविधानेन प्रधानस्वर्णादिवितरणकरणेन, याचकानामर्थिनां खान्तं मन एव कारा गुप्तयस्ताभ्यः वस्तपालादयो वस्तुपालप्रमुखा ये दायका दातारस्ते मोचिताः । एतावद्दानं याचकेभ्यस्तेन दत्तं येन तच्चेतोगुप्तितस्ते वस्तुपालाद्या निःसृताः । एतस्मिन् दातरि दृष्टे सति ते तान् विसस्मरुरित्यर्थः ॥ १६५
उत्सवावसरायाता नानामण्डलतोऽखिला।
मुनीनां मण्डली येन तोषिता वेषदानतः ॥ १६६ व्याख्या-येन कर्मसिंहेन, वेषदानतो वेवेष्ट्यङ्गं वेषो वस्त्रालङ्कारमाल्यप्रसाधनैरङ्गशोभा । अत्र तु लोकप्रसिद्धः साधुवस्त्रविशेषो गृह्यते, तस्य दानतो वितरणेन, नानामण्डलतो विविधदेशतः, उत्सवावसरे नन्दीमहसमये, आयाता प्राप्ता, अखिला समस्ता, मुनीनां महात्मनां, मण्डली राशिस्तोषिता प्रीणिता ॥ १६६
लेखप्रेषणगौरवपूर्व ये मेलिताः सधर्माणः।
गौरवितास्ते गौरवभक्तिवशाद् भक्तवसनाचैः॥ १६७ ।। व्याख्या-येन मन्त्रिणा,लेखोल्लेख्यः पत्रं तस्य यत्प्रेषणं मोचनं तदेव गौरवं माननं तत्पूर्व, ये सधर्माणः साधर्मिकाः, मेलिताः सङ्घटितास्ते, भक्तवसनाधैरन्नवस्त्राद्यैर्वस्तुभिर्गौरवभक्तिवशाद गुरोरियं गौरवी या भक्तिः सेवा तद्वशाद गौरवभक्तिवशाद गौरविता बहुमानिताः ॥ १६७ अथ श्रीजिनहंससूरिपदस्थापना-नमिचैत्यनिर्मापणसंवत्सरमेकपद्येनाह -
स्थापनारसभूतेषुविधुप्रमितवत्सरे ।
खमुनीष्विन्दुवर्षेऽभूच्चैत्यं नमिजिनेशितुः॥१६८ व्याख्या-श्रीजिनहंससूरीणां रसभूतेषुविधुप्रमित(१५५६)वत्सरे स्थापना पदप्रतिष्ठाऽभूत् । तथा खमुनीष्विन्दुवर्षे (१५७०) नमिजिनेशितुश्चैत्यमभूत् ॥ १६८
श्रीमुक्तालयतीर्थे सतीर्थ्यसङ्घन सङ्गतः सचिवः । यात्रां करपरिमुक्तां चकार मुक्तालयस्पृहया ॥ १६९
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org