SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १२ व्याख्या - तस्य श्रीतेजपालस्य तारादेवीति नामिका जाया कलत्रमजायत जाता । किम्भूता ! कल्पलतेव कल्पवल्लीवोदारा उदात्ता मनोभिलषितार्थदात्रीत्यर्थः । तथा सारा श्रेष्ठा, तथा विशुद्धो निर्दोष आचारः क्रियाव्यापारो यस्याः सा ' विशुद्धाचारा । तथा सन् शोभन आकार आकृतिर्यस्याः सा सदाकारा ॥ ५१ 20 मनिकर्मचन्द्रवंशावली प्रबन्ध । कल्पलतेवोदारा तारादेवीति नामिका सारा । तस्य विशुद्धाचारा आयाऽजायत सदाकारा ।। ५१ गौर्जरदेशाधिपतेरुपदां दत्त्वाऽन्यदा स तुरगादिम् । प्राप्ताधिकप्रसादो देशं जग्राह मूल्येन ॥ ५१ - व्याख्या – अन्यदाऽन्यस्मिन् काले गौर्जरदेशाधिपतेर्गौर्जराधीशस्य, स तुरगादिं तुरङ्गगजखर्णादिसहितामुपदामुपायनं दत्त्वा प्राक्षो लब्धोऽधिकः प्रसादोऽनुदो यात् स प्राप्ताधिकप्रसादः, मूल्येन वेतनेन, लोकरूढ्या 'मुकातेन' 1" देशं गूर्जरदेशं जग्राह गृहीतवान् ॥ ५२ अणहिलपत्तनशास्ता समभूच्छ्रीतेजपाल सङ्घपतिः । पत्रिंशद्राजकुली ज्ञातीनां न्यायकरणेन ॥ ५३ 25 व्याख्या - श्री तेजपालसङ्घपतिः षट्त्रिंशद्वाजकुलीनां ज्ञातीनां च लोकप्रसिद्धानां न्यायकरणेन सत्यासत्यादिनीतिकरणेन अणहिलषत्तनस्य शास्ता पालकः समभूज्जातः । तत्र षट्त्रिंशद्राजकुल्य इमाः - इक्ष्वाकुवंश १ सूर्यवंश र सोनम ३ 15 यादवः ४ पस्मार ५ चाहमान ६ चौलुक्य ७ छिन्दक ८ सिठारे ९ सैन्धव १० चापोत्कट ११ प्रतीहार १२ कन्दुक १३ रा १४ कूट: १५ शकु १६ करक १७ पीछ १८ १९ २० २१ गुहिलपुत्र २२ पौलिक २३ मोरिक २४ मङ्कयाणकर २५ धान्यपालक २६ राजपालक २७ अमङ्ग २८ निकुम्भ २९ दधिलक्ष ३० कुरुदलिक ३१ हूण ३२ हरियड ३३ नट ३४ माष ३५ खोखर ३६ रूपा इति । ज्ञातयः सार्द्धा शादश प्रसिद्धा एव ॥ ५३ तस्याभूत् सुतरनं वील्हानान्ना महोत्तमं सगुणम् । तारादेवीसदुदरसरोरुहे राजहंससमम् ॥ ५४ व्याख्या- तस्य श्रीतैजपालस्य वील्हानाचा सुर्तरने पुत्ररतमभूत् । उत्कृष्टसूनुर्वभूवेत्यर्थः । किम्भूतं ! नरेष्वौदार्यधैर्यादिभिर्गुणैरुत्तमं मुख्यम् । पुनः किम्भूतं ! गुणाः सस्वादयस्तैः सहितं सगुणम् । पुनः किम्भूतं ? तारादेव्या यत्सदुदरं शोभनकुक्षिस्तदेव ससेरुहं पर सत्र राजहंससमं तितोपमम् ॥ ५४ गुरुवचनादथ शत्रुञ्जय-रैवततीर्थयोर्व्यधायात्राम् । श्रीसन सनाथ मुक्तं कृत्वा स तीर्थेशम् ॥ ५५ Jain Education International [५१-५७ व्याख्या - अथानन्तरं गुरुवचना गुरूपदेशतः, स तेजपाल सङ्घपतिः, श्रीसचेन साधु-श्राद्धादिसमुदायेन, सनाथः सहितस्तीर्थेशं मुक्तं कृत्वा । लोकरूड्या 'भुगतउ' इति विधाय । शत्रुञ्जय रैवततीर्थयोः पुण्डरीक-उज्जयन्ताख्यपुण्यक्षेत्रयोः, यात्रां जिनार्चनोत्सवं व्यधाञ्चकार । 'तीर्थं शास्त्रे गुरौ यज्ञे, पुण्यक्षेत्रावतारयोः । इत्यादि ॥ ५५ प्रतिसाधर्मिकगेहं तदेशे हेममुद्रया युक्तम् । सस्थालमदान्मोदकमेकैकं पञ्चसेरमितम् ॥ ५६ व्याख्या - स श्रीतेजपालः साधिपतिः, तदेशे गूर्जर सौराष्ट्रदेशे प्रतिसाधर्मिकगेहं सकलसाधर्मिकगृहेषु, हेममुद्रया सौवर्णनाणकेन युक्तमेकैकं पञ्चसेरमितं पञ्चसेरप्रमाणं, सस्थालं भाजन विशेषसहितं मोदकं लड्डुकम्, अदाद् ददौ । 'समिताखण्डाज्यकृतो, मोदको लड्डुकश्च सः । इति शेषः ॥ ५६ श्रीजिनकुशलगुरूणां सूरिपदस्थापनां व्यधात् समहम् । राजेन्द्रचन्द्रसूरेः कराम्बुजात् पत्तने नगरे ॥ ५७ For Private & Personal Use Only www.jainelibrary.org
SR No.003400
Book TitleMantri Karmchandra Vanshavali Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages122
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy