________________
२२-२८]
पाठकश्रीजयसोमविरचित बोहित्थो गङ्गदासश्च जयसिंहश्च तेष्वपि ।
बहरङ्गन्देवी रामा रम्या बोहित्थभूपतेः ॥ २२ व्याख्या-बोहित्थो गङ्गदासो जयसिंहश्चैते त्रयः पुत्राः । तेष्वपि पुढेष्वपि मध्ये बोहित्यभूपते|हित्थनामभूभत् रम्या मनोहरा शीलादिगुणोपेता बहरङ्गादेवी रामा जाया बभूवेति क्रियाध्याहारः कार्यः ॥ २२ ... यन्नाम्नाऽद्यापि तद्वंश्याः प्रसिद्धाः सन्ति सर्वतः।
सुधर्माणो हि बोहित्थहरा इत्यभिधानतः॥ २३ व्याख्या- यन्नाम्ना यस्य बोहित्थस्य नाम्ना अभिधानेन अद्यापि एतत्कालेऽपि 'बोहित्थहरा' इत्यभिधानतो बोहित्थहरा इत्युल्लेखेन तद्वंश्यास्तस्य सागरस्य वंशोत्पन्नाः सुधर्माणः शोभनधर्मवन्तः सर्वतः सर्वासु दिक्षु प्रसिद्धा विख्याताः सन्ति विद्यन्ते । हीत्यवधारणे ॥ २३
अष्टौ पुत्रा षभुस्तस्य श्रीकर्णः प्रथमो मतः । जेसाताल्हाजगन्मल्लभीमाह्वाश्च तथाऽपरे ॥ २४ सोमसी पुण्यपालश्च पद्माहः पुत्रिका पुनः।
पद्मेति च समाख्याता शीलादिगुणशालिनी ॥ २५ व्याख्या-तस्य बोहित्थस्य भूपतेरष्टौ पुत्रा बभुः शुशुभिरे । तानेव नामतः प्राह - प्रथम आधः श्रीकर्णः मतः सम्मतः । 'मतं तु सम्मतेऽचिंते' । सम्मते वाच्यलिङ्गः । तथा अपरे अन्ये जेसा-ताल्हा-जगन्मल्ल-भीमाहाः सोमसीः । पुण्यपालः पनाह: पद्मनामा । पुत्रिका सुता पुनः पझेति च समाख्याता कथिता । किम्भूता ? शीलादिगुणशालिनी शीलादिगणैः शालते शोभत इत्येवंशीला । अथवा शीलादिगुणान् शालते श्लाघत इत्येवंशीला शीलादिगुणशालिनी । 'शाल कत्थने ।' या हि शीलादिगुणोपेता भवति सैव तान् गुणान् श्लाघते । दुःशीला हि शीलवतीन वर्णयन्ति । उक्तं च'मूर्खाणां पण्डिता द्वेष्या निर्धनानां महाधनाः । व्रतिनः पापशीलानामसतीनां सतीजनाः ॥ इति ॥ २५
बोहित्यो भूधवश्चित्रकूटाख्ये नगरेऽन्यदा। राजश्रीराजसिंहारिभिः कृत्वा महारणम् ॥ २६ एकादशशतोदग्रवीरपूरुषसंयुतः।
प्राप्तः प्राप्तजयः खर्ग दुष्पापं किं महात्मनाम् ? ॥ २७ युग्मम् ॥ व्याख्या-अन्यदा अन्यस्मिन् काले, बोहित्थो भूधवो राजा चित्रकूटाख्ये नगरे राजश्रीराजसिंहाने नृपश्रीराजसिंहस्य पुरतोऽरिभिः साध महारणं महायुद्धं कृत्वा विधाय, एकादशशतोदनवीरपूरुषसंयुतः शताधिकसहस्रोत्कटशूरनरसहितः प्राप्त-2 जयो लन्धजयः खर्ग मुरालयं प्राप्त आसेदिवान् । यतो महात्मनां महापुरुषाणां किं दुष्प्रापं दुर्लभम् ! अपि तु सर्वमपि कामितं ते लभन्त इत्यर्थः॥ २७
तदनु श्रीकर्णनृपो रत्नादेवीशुभारमहिषीयुक।
राज्यं शशास पित्र्यं पितेव पुत्रं विनीताङ्गम् ॥ २८ व्याख्या-तदनु बोहित्थनृपात्पश्चाद् रत्नादेवीति रत्नादेव्यभिधाना शुभा कल्याणकारिणी या अग्रमहिषी पट्टराज्ञी । तां युनक्ति समाधिमादधाति । तया सह युक्तो भवतीति वा । रत्नादेवीशुभानमहिषीयुग । 'युजिं'समाधौ ‘युजंपी योगे च । श्रीकर्णनृपः । पित्र्यं पितुरिदं पित्र्यम् । 'वाय्वृतुपित्रुषसो यत्' इति यत् । शशास ररक्ष पालयामासेति यावत् । कः कमिव ! पिता जनकः पुत्रमिव । यथा पिता पुत्रं विनीताङ्गं विनयेन नम्रशरीरं शास्ति तथा शशासेति भावः ॥ २८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org