________________
मश्रिकर्मचन्द्रवंशावलीप्रबन्ध ।
[१७-२१
व्याख्या-येन कारणेन योग्यानामौचित्यप्रवृत्तानां सत्पुरुषाणां कीर्तनं संशब्दनं स्तवनमिति यावत् पुण्यवृद्धिविधायकं श्रेयःपल्लवनकारकम् । तेन कारणेन नूनं निश्चितं विघ्नावली विघ्नश्रेणिर्बलात् प्रसह्य विध्वंसं विनाशमेष्यति प्राप्स्यति । विघ्नविध्वंसे च जाते खत एव निर्विलम्बं प्रारब्धग्रन्थसमाप्तिर्भवतीति ध्वनितम् ॥ १६ . अथ कविः खकृतग्रन्थ श्रवणाय सकर्णानभ्यर्थयन्नाह
तवंशवर्णनां श्रोतुं सज्जनाः सन्तु सम्मुखाः ।
सतां सञ्जायते यस्मात् प्रीतिः परगुणश्रुतेः॥१७ व्याख्या-तद्वंशवर्णनां तस्य मन्त्रिराजस्य या वंशवर्णनाऽन्वयस्तवना तां श्रोतुमाकर्णयितुं सज्जनाः सत्पुरुषाः सम्मुखा अभिमुखाः सन्तु भवन्तु । सन्तस्तद्वर्णनां सावधानीभूय शृण्वन्त्वित्यर्थः । यस्मात्परगुणश्रुतेः परमेषामन्येषां महता ये गुणा औदार्यधैर्यशौर्यगाम्मीर्यादयस्तेषां या श्रुतिः श्रवणमाकर्णनमित्यर्थः । तस्याः परगुणश्रुतेः सतां सजनानां प्रीतिरानन्दः• सञ्जायत उत्पद्यते ॥ १७ अयोद्दिष्टामेव तां निर्दिशति
पृथ्वीमण्डलविख्याते पुरे देवलवाटके। बभूव देवडावंशवंशमौक्तिकसन्निभः॥ १८ श्रीसागरो महीपालः पालनीयसुहृज्जनः।
भार्याष्टकशिरोरत्नपनीमानवतीयुतः॥ १९ युग्मम् ॥ व्याख्या-देवलवाटके पुरे श्रीसागरो महीपालो राजा बभूव आसीत् । किम्भूते तस्मिन् पृथ्वीमण्डले भूमण्डले विख्याते प्रसिद्ध । किंविशिष्टः श्रीसागरः ? देवडावंशमौक्तिकसन्निभो देवडाख्यवंश एवान्वय एव वंशस्त्वक्सारस्तत्र मौक्तिकसन्निभो मुक्ताफलसदृशः । मौक्तिकं हि वंशादप्युत्पद्यते । तयोनय इमाः
'इभाहिकिरिमत्स्यानां शीर्षे मुक्ताफलोद्भवः । त्वक्सारशुक्तिशङ्खाना गर्ने मुक्ताफलोद्भवः ॥ धाराधरेषु जायेत मौक्तिकं जलबिन्दुभिः । इति । तत्रापि'वंशजं शशिसङ्काशं कक्कोलफलसन्निभम् । प्राप्यते बहुभिः पुण्यैस्तद्रक्ष्यं वेदमन्त्रिणा ॥'
पुनः किम्भूतः ? पालनीयो रक्षणीयः सुहृज्जनो मित्रलोको यस्य स पालनीयसुहृजनः । पुनः किंविशिष्टः ? भार्याष्टकस्य शिरसि मौलौ रत्नमिव मणिरिव पत्नी या मानवती तया युतः सहितः । 'जातौ जातौ यदुत्कृष्टं, तद्रनमिह भण्यते ॥ १९
योऽस्पर्धत निजोत्कर्षान्मालवीयेन साहिना।
तद्देशं चोदसं चक्रे शूराः स्युयेंदमर्षिणः ॥ २० व्याख्या-यः सागरो मालवीयेन मालवदेशाधीश्वरेण साहिना पातसाहिना साध निजोत्कर्षादात्मीयप्रबलबलाधिक्यादस्पर्धत स्पर्धा चकार रणं व्यधत्तेत्यर्थः । च पुनस्तद्देशं साहिदेशमुद्वसं चक्रे बभनेत्यर्थः । यद्यस्माच्छ्ररा वीरा अमर्षिणः क्रोधनाः स्युर्भवन्ति परोत्कर्ष न सहन्त इत्यर्थः । क्रोधाज्जातो जिगीषोत्साहगुणोऽमर्षः प्रतिचिकीर्षारूपः ॥ २० अथ पवित्रांस्तत्पुत्रान्नामतो निदर्शयन्नाह -
बभूवुस्तस्य भूभर्तुस्त्रया पुत्राः सलक्षणाः।
लक्षेषु मानुषाणां ये लक्ष्यतां संश्रिता गुणैः ॥ २१ व्याख्या-तस्य श्रीसागरस्य भूभर्तुर्नृपस्य त्रयः पुत्राः सुताः सलक्षणा लक्षणानि खस्तिकचक्रादीनि तैः सहिताः सलक्षणा बभूवुरासन् । किम्भूताः! ये पुत्रा मानुषाणां मनुष्याणां लक्षेषु शतसहस्रीरूपेषु गुणैरौदार्यदाक्षिण्यादिभिः कृत्वा लक्ष्यतां व्यङ्ग्यता संश्रिता आश्रिताः । मनुष्यलक्षेषु गुणैः कृत्वा ज्ञेया इत्यर्थः॥२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org