SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ २. ३] कवि-उदयराजविरचितं राजविनोदमहाकाव्यम् । [३ बलीयसा श्रीमहमूदभूभुजा हता हि ये हेतिभिराहवेऽहिताः । विभिद्य ते मण्डलमंशुमालिनो गतास्स्वराखण्डलदृष्टचण्डताः ॥२२॥ अक्ष्णां जिघृक्षति सहस्रकरः सहस्रमस्मात् सहस्रकरतां च सहस्रनेत्रः । श्रीपा [पृ०३ B] तसाहमहमूदनृपप्रयाणे रेणुव्रजे दिशि दिशि प्रविजृम्भमाणे ॥२३॥ किं भास्करोऽयमुदयाचलमध्यवर्ती जम्भारिरभ्रमपति किमथाधिरूढः । इत्थं वदन्ति समुदं महमूदसाहं दृष्ट्वा विशिष्टमतयो वरवारणस्थम् ॥२४॥ दुर्नीतिदावदहनं निजमण्डलारधाराजलैश्शमयता सकलावनीयम् । एतेन सान्द्रकरुणाम्बुघनेन काम सम्पत्तिभिस्सपदि पल्लवितेव भाति ॥२५॥ मुक्तोज्ज्वलाभिरभितः किलशातकुम्भधाराभिरग्रकरपल्लवसम्भृताभिः । पट्टाभिषेकसमये स्वयमेव राज्ञा प्रेम्णा घनेन महिषीव सुधाभिषिक्ता ।।२६।। लीना क्वचित्क्वचिदपि प्रकटीभवन्ती भ्रान्त्वा जगज्जडतयाधिपयोधिखिन्ना। साऽहं प्रकाशमधुनाऽधिगताऽस्मि लोके विद्याविवेकरसिकस्य सदस्यमुष्य ।।२७॥ [पृ०४A] इति निगद्य सुपद्यमनोरमं सुचरितं महमूदमहीपतेः । शतमखाभिमुखी किल भारती पुनरवोचदिदं मधुरं वचः ॥२८॥ श्रीमान् साहिमुदप्फरस्समजनि श्रीगूजरमापति स्तस्मात् साहिमहम्मदस्समभवत् साहिस्ततोऽहम्मदः । जातस्साहिमहम्मदोऽस्य तनुजो गायासदीनाख्यया ख्यातः श्रीमहमूदसाहिनृपतिर्जीयात् तदीयात्मजः ॥२९॥ ॥ इति श्रीमहाराजाधिराज-जरबक्सपातसाह-श्रीमहमूदसुरत्राणचरित्रे राजविनोदे महाकाव्ये सुरेन्द्रसरस्वतीसम्वादो नाम प्रथमस्सर्गः ॥ ॥द्वितीयः सर्गः॥ वंशस्सहस्रांशुभवो जगत्यां जागर्त्यसौ राजभिरर्चनीयः । कर्णोपमो यत्र किलादतीर्णः श्रीमान् पुरा साहिमुदप्फरेन्द्रः ॥ १ ॥ लीनस्य वाडी' कलिकालभीत्या कृष्णस्य साहाय्यचिकी[पृ० ४ B]र्षयेव । दिल्लीपुराद् गूजरदेशमेत्य दधार यो मूर्द्ध नि सितातपत्रम् ॥२॥ समुगिरन् कच्छमहीषु येन डिण्डीरपाण्डूनि यशांसि खड्गः । स्फूर्जद्विषच्छोणितपङकलिप्तः प्रक्षालित: पश्चिमवारिराशौ ।। ३ ।। (१) वाद्धिः-वारिधिः-समुद्रम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003398
Book TitleRajvinod Mahakavyam
Original Sutra AuthorN/A
AuthorUdayraj Mahakavi, Gopalnarayan Bahura
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1956
Total Pages80
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy